pratah smaran mantra lyrics  सर्वोपयोगी प्रातःस्मरण 

pratah smaran mantra lyrics

 सर्वोपयोगी प्रातःस्मरण 

 

गणपतिर्विघ्न राजो लम्बतुण्डो गजाननः।

द्वैमातुरश्च हेरम्ब एकदन्तो गणाधिपः ।।

 

विनायक श्चारुकर्णः पशुपालो भवात्मजः।

द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।

विश्वं तस्य भवेद् वश्यं न च विघ्नं भवेत् क्वचित् ॥

 

pratah smaran mantra lyrics

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।

उज्जयिन्यां महाकालमोंकारममलेश्वरम् ॥

 

केदार हिमवत्पृष्ठे डाकिन्यां भीमशङ्करम् ।

वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥

 

वैद्यनाथं चिताभूमौ नागेशं दारुकावने ।

सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ॥

 

द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।

सर्वपापविनिर्मुक्तः सर्वसिद्धिफलं लभेत् ।।

 

pratah smaran mantra lyrics

औषधे चिन्तयेद् विष्णुं भोजने च जनार्दनम् ।

शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥

 

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् ।।

नाययणं तनुत्यागे श्रीधरं प्रियसंगमे ॥

 

दुःखप्नेषु च गोविन्दं संकटे मधुसूदनम् ।

कानने नरसिंह च पावके जलशायिनम् ॥

 

जलमध्ये वराहं च पर्वते रघुनन्दनम् ।

गमने वामनं चैव सर्वकार्येषु माधवम् ॥

 

एतानि विष्णुनामानि प्रातरुत्थाय यः पठेत् ।

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥

 

आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ।

तृतीयं भास्करः प्रोक्तं चतुर्थ च प्रभाकरः॥

 

पञ्चमं च सहस्रांशुः षष्ठं चैव त्रिलोचनः।

सप्तमं हरिदश्वश्च अष्टमं च विभावसुः॥

 

नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः ।।

एकादशं त्रयीमूर्तिीदर्श सूर्य एव च ।।

 

द्वादशैतानि नामानि प्रातःकाले पठेन्नरः।

दुःस्वप्ननाशनं सद्यः सर्वसिद्धिः प्रजायते ॥

 

काली तारा महाविद्या षोडशी भुवनेश्वरी ।

भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥

 

बगला सिद्धविद्या च मातङ्गी कमलात्मिका ।

एता दश महाविद्याः सिद्धविद्याः प्रकीर्तिताः ॥

 

सत्यरूपं सत्यसंधं सत्यनारायणं हरिम् ।

यत्सत्यत्वेन जगतस्तं सत्यं त्वां नमाम्यहम् ॥

pratah smaran mantra lyrics

त्रैलोक्य चैतन्यमयादिदेव

श्रीनाथ विष्णो भवदाशयैव।

प्रातः समुत्थाय तव प्रियार्थ

संसारयात्रामनुवर्तयिष्ये ।।

 

अनिरुद्धं गजं ग्राहं वासुदेवं महाद्युतिम् ।

संकर्षणं महात्मानं प्रद्युम्नं च तथैव हि ॥

 

मत्स्यं कूर्म च वाराहं वामनं तार्क्ष्यमेव च ।

नारसिंह च नागेन्द्र सृष्टिसंहारकारकम् ॥

 

विश्वरूपं हृषीकेशं गोविन्दं मधुसूदनम्।

त्रिदशैर्वन्दितं देवं महाशक्तिमनुत्तमम् ॥

 

एतान् हि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः।

सर्वपापैः प्रमुच्यन्ते विष्णुलोकमवाप्नुयुः ॥

pratah smaran mantra lyrics

ब्रह्मा मुरारिस्त्रिपुरान्तकारी

भानुः शशी भूमिसुतो बुधश्च ।

गुरुश्च शुक्रः शनिराहुकेतवः

कुर्वन्तु सर्वे मम सुप्रभातम् ॥

 

प्रह्लादनारदपराशरपुण्डरीक-

व्यासाम्बरीषशुकशौनकभीष्मदाल्भ्याम् ।

रुक्माङ्गदार्जुनवशिष्ठविभीषणादीन

पुण्यानिमान् परमभागवतान् स्मरामि ॥

 

भृगुर्वशिष्ठः क्रतुरङ्गिराश्च

मनुः पुलस्त्यः पुलहश्च गौतमः ।

रैभ्यो मरीचिश्च्यवनश्च दक्षः

कुर्वन्तु सर्वे मम सुप्रभातम् ॥

 

सनत्कुमारः सनकः सनन्दनः

सनातनोऽप्यासुरिपिङ्गलौ च।

सप्तस्वराः सप्तरसातलानि

कुर्वन्तु सर्वे मम सुप्रभातम् ॥

 

– सप्तार्णवाः सप्त कुलाचलाश्च

सप्तर्षयो द्वीपवनानि सप्त 

– भूरादिकृत्वा भुवनानि सप्त 

कुर्वन्तु सर्वे मम सुप्रभातम् ॥

pratah smaran mantra lyrics

महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।

हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥

 

उमा उषा च वैदेही रमा गङ्गेति पञ्चकम् ।

प्रातरेव स्मरेन्नित्यं सौभाग्यं वर्द्धते सदा ।।

 

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥

 

प्रभाते स्मरेन्नित्यं दुर्गा-दुर्गाक्षरद्धयम् ।

आपदस्तस्य नश्यन्ति तमः सूर्योदये यथा ॥

 

हरं हरिं हरिश्चन्द्रं हनुमन्तं हलायुधम् ।

पञ्चकं वै स्मरेन्नित्यं घोरसंकटनाशनम् ॥

 

अश्वत्थामा बलिया॑सो हनुमाँश्च विभीषणः ।

कृपः परशुरामश्च सप्तैते चिरजीविनः॥

 

सप्तैतान् यः स्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।

जीवेद् वर्षशतं सोऽपि सर्वव्याधिविवर्जितः ॥

 

पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः ।

पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः ॥

 

अहिल्या द्रौपदी तारा कुन्ती मन्दोदरी तथा ।

पञ्चक य स्मरेन्नित्यं महापातकनाशनम् ॥

 

अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका।

पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥

 

कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।

ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥

 

कीर्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।

योऽस्य संकीर्तयन्नाम कल्य उत्थाय मानवः ।

न तस्य वित्तनाशः स्यान्नष्टं च लभते पुनः ॥

 

श्रोत्रियं सुभगां गां च अग्निमग्निचितिं तथा।

प्रातरुत्थाय यः पश्येदापद्भ्यः स विमुच्यते ॥

pratah smaran mantra lyrics

जानामि धर्म न च मे प्रवृत्ति-

र्जानाम्यधर्म न च मे निवृत्तिः।

त्वया हृषीकेश हृदिस्थितेन

यथा नियुक्तोऽस्मि तथा करोमि ॥

 

प्रातरुत्थाय सायाह्नात् सायाह्नात् प्रातरुत्थितः।

यत्करोमि जगन्नाथस्तदेव तव पूजनम् ॥

 

हे जिह्वे ! रससारज्ञे सर्वदा मधुरप्रिये ।

नारायणाख्यपीयूषं पिब जिह्वे निरन्तरम् ॥

 

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।

तत् पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥

 

प्रातः शिरसि शुक्लेऽब्जे द्विनेत्रं द्विभुजं गुरुम् ।

प्रसन्नवदनं शान्तं स्मरेत् तन्नामपूर्वकम् ॥

 

नमोऽस्तु गुरवे तस्मा इष्टदेवस्वरूपिणे ।

यस्य वाक्यामृतं हन्ति विषं संसारसंज्ञितम् ॥

 

श्रीगणेशप्रातः स्मरण स्तोत्रम् 

प्रातः स्मरामि गणनाथमनाथबन्धुं

सिन्दूरपूर्णपरिशोभितगण्डयुग्मम्

उद्दण्डविघ्नपरिखण्डनचण्डदण्ड-

माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥१॥

 

प्रातर्नमामि चतुराननवन्द्यमान-

मिच्छानुकूलमखिलं च वरं ददानम् ।

तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं

पुत्रं विलासचतुरं शिवयोः शिवाय ॥२॥

 

प्रातर्भजाम्यभयदं खलु भक्तशोक-

दावानलं गणविभुं वरकुञ्जरास्यम् ।

अज्ञान काननविनाशनहव्यवाह-

मुत्साहवर्धनमहं सुतमीश्वरस्य ॥३॥

 

श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् ।

प्रातरुत्थाय सततं प्रपठेत् प्रयतः पुमान् ॥४॥

 

श्रीशिवप्रातः स्मरणस्तोत्रम् 

प्रातः स्मरामि भवभीतिहरं सुरेशं

गङ्गाधरं वृषभवाहनमम्बिकेशम्।

खट्वाङ्गशूलवरदाभयहस्तमीशं

संसाररोगहरमौषधमद्वितीयम् ॥१॥

 

प्रातर्नमामि गिरिशं गिरिजार्धदेहं

सर्गस्थितिप्रलयकारणमादिदेवम्

विश्वेश्वरं विजितविश्वमनोऽभिरामं

संसाररोगहरमौषधमद्वितीयम् ॥२॥

 

प्रातर्भजामि शिवमेकमनन्तमाद्यं

वेदान्तवेद्यमनघं पुरुषं महान्तम् ।

नामादिभेदरहितं षडभावशून्यं

संसाररोगहरमौषधमद्वितीयम् ॥३॥

 

प्रातः समुत्थाय शिवं विचिन्त्य

श्लोकत्रयं येऽनुदिनं पठन्ति ।

ते दुःखजालं बहुजन्मसंचितं

हित्वा पदं यान्ति तदेव शम्भोः ॥४॥

 

 

श्री विष्णुप्रातः स्मरणस्तोत्रम्

प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै

नारायणं गरुडवाहनमब्जनाभम् ।

ग्राहाभिभूतवरवारणमुक्तिहेतुं

चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥१॥

 

प्रातर्नमामि मनसा वचसा च मूर्ध्ना

पादारविन्दयुगलं परमस्य पुंसः।

नारायणस्य नरकार्णवतारणस्य

पारायणप्रवणविप्रपरायणस्य॥२॥

 

प्रातर्भजामि भजतामभयंकर तं

प्राक्सर्वजन्मकृतपापभयापहत्यै

यो ग्राहवक्त्रपतिताघ्रिगजेन्द्रघोर-

शोकप्रणाशनकरो धृतशङ्खचक्रः ॥३॥

 

श्लोकत्रयमिदं पुण्यं प्रातः प्रातः पठेन्नरः।

लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः॥४॥

 

श्रीसूर्यप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि खलु तत् सवितुर्वरेण्यं

रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि ।

सामानि यस्य किरणाः प्रभवादिहेतुं

ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥

 

प्रातर्नमामि तरणिं तनुवाङ्मनोभि-

र्ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च ।

वृष्टिप्रमोचनविनिग्रहहेतुभूतं

त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥

 

प्रातर्भजामि सवितारमनन्तशक्तिं

पापौघशत्रुभयरोगहरं पर च।

तं सर्वलोककलनात्मककालमूत

गोकण्ठबन्धनविमोचनमादिदेवम्॥३॥

 

श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेत्तु यः।

स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नुयात् ॥४॥

 

श्रीचण्डीप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां

सद्रत्नवन्मकरकुण्डलहारभूषाम्।

दिव्यायुधोर्जितसुनीलसहस्रहस्तां

रक्तोत्पलाभचरणां भवतीं परेशाम् ॥१॥

 

प्रातर्नमामि महिषासुरचण्डमुण्ड-

शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ।

ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां

चण्डी समस्तसुरमूर्तिमनेकरूपाम् ॥२॥

 

प्रातर्भजामि भजतामभिलाषदात्री

धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।

संसारबन्धनविमोचनहेतुभूतां

मायां परां समधिगम्य परस्य विष्णोः॥३॥

 

श्लोकत्रयमिदं देव्याश्चण्डिकायाः पठेन्नरः ।

सर्वान् कामानवाप्नोति विष्णुलोके महीयते ॥४॥

 

श्रीभगवत्प्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि फणिराजतनौ शयानं

नागामरासुरनरादिजगन्निदानम्

वेदैः सहागमगणैरुपगीयमानं

कान्तारकेतनवतां परमं निधानम् ॥१॥

 

प्रातर्भजामि भवसागरवारिपारं

देवर्षिसिद्धनिवर्विहितोपहारम्

संतप्तदानवकदम्बमदापहारं

सौन्दर्यराशिजलराशिसुताविहारम् ॥२॥

 

प्रातर्नमामि शरदम्बरकान्तिकान्तं

पादारविन्दमकरन्दजुषां भयान्तम् ।

नानावतारहतभूमिभरं महान्तं

पाथोजकम्बुरथपादकर प्रशान्तम् ॥ ३॥

 

श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देन कीर्तितम् ।

यः पठेत् प्रातरुत्थाय सर्वपापैः समुच्यते ॥ ४॥

 

ब्रह्मप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं

सञ्चित्सुखं परमहंसगति तुरीयम् ।

यत् स्वप्नजागरसुषुप्तिमवैति नित्यं

तद् ब्रह्म निष्कलमहं न च भूतसङ्घः ॥१॥

 

प्रातर्भजामि मनसो वचसामगम्यं

वाचो विभान्ति निखिला यदनुग्रहेण ।

यन्नेति नेति वचनैनिंगमा अवोचं-

स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २॥

 

प्रातर्नमामि तमसः परमर्कवण

पूर्ण सनातनपदं पुरुषोत्तमाख्यम् ।

यस्मिन्निदं जगदशेषमशेषमूर्ती

रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥३॥

 

श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् ।

प्रातःकाले पठेद् यस्तु स गच्छेत् परमं पदम् ॥४॥

 

श्रीरामप्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि रघुनाथमुखारविन्दं

मन्दस्मितं मधुरभाषि विशालभालम् ।

कर्णावलम्बिचलकुण्डलशोभिगण्डं

कर्णान्तदीर्घनयनं नयनाभिरामम् ॥१॥

 

प्रातर्भजामि रघुनाथकरारविन्दं

रक्षोगणाय भयदं वरदं निजेभ्यः ।

यद् राजसंसदि विभज्य महेशचापं

सीताकरग्रहणमङ्गलमाप सद्यः ॥२॥

 

प्रातर्नमामि रघुनाथपदारविन्दं

पद्माकुंशादिशुभरेखि सुखावहं मे।

योगीन्द्रमानसमधुव्रतसेव्यमानं

शापापहं सपदि गौतमधर्मपत्न्याः ॥३

 

प्रातर्वदामि वचसा रघुनाथनाम

वाग्दोषहारि सकलं शमलं निहन्ति ।

यत्पार्वती स्वपतिना सह भोक्तुकामा

प्रीत्या सहस्रहरिनामसमं जजाप ।।४।।

 

प्रातः श्रये श्रुतिनुतां रघुनाथमूर्ति

नीलाम्बुदोत्पलसितेतररत्ननीलाम्

आमुक्तमौक्तिकविशेषविभूषणाढ्यां

ध्येयां समस्तमुनिभिर्जनमुक्तिहेतुम् ॥ ५

 

यः श्लोकपञ्चकमिदं प्रयतः पठेद्धि

नित्यं प्रभातसमये पुरुषः प्रबुद्धः ।

श्रीरामकिङ्करजनेषु स एव मुख्यो

भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥ ६॥

 

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment