क्षमा प्रार्थना / विसर्जनम् chhama prathna mantra
क्षमा प्रार्थना
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ! |
यत्पूजितं मया देव ! परिपूर्णं तदस्तु मे ||
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ! ॥
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्नयूनमधिकं कृतम् ।
विपरीतं तु तत्सर्वं क्षमस्व परमेश्वर ! |
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात् कारुण्यभावेन रक्ष त्वं परमेश्वर ॥
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेवतद्विष्णोः संपूर्ण स्यादिति श्रुतिः ॥
यस्य स्मृत्या च नामोक्त्या तपो यज्ञक्रियादिषु ।
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
आचार्य यजमान को निम्नलिखित मन्त्रों से तिलकाशीर्वाद देकर देवताओं का विसर्जन करे।
तिलकाशीर्वाद:
मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः ।
शत्रूणां बुद्धिनाशोऽस्तु मित्राणामुदयस्तव ||
विसर्जनम्
यान्तु देवगणाः सर्वे पूजामादाय मामकीम्।
इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ॥
गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ! |
यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशनः ॥
- श्रीमद् भागवत कथा 7 दिन की क्यों होती है ?
- प्रेरक प्रसंग- माधवदास जी से भगवान का रजाई मांगना ||
- भागवत कथा कैसे सीखें ?ऑनलाइन भागवत सीखे। कथा वाचक कैसे बने ?
- भक्त ध्रुव जी की कथा
- दृष्टांत कथाएं / धन्य है सत्पुरषों का संग
-
संपूर्ण रामकथा हिंदी
