इति मतिरुपकल्पिता वितृष्णा iti mati rup kalpita

इति मतिरुपकल्पिता वितृष्णा iti mati rup kalpita lyrics 2024

इति मतिरुपकल्पिता वितृष्णा iti mati rup kalpita lyrics 2024
इति मतिरुपकल्पिता वितृष्णा iti mati rup kalpita lyrics 2024

भीष्म स्तुती


इति मतिरुपकल्पिता वितृष्णा भगवति सात्वत पुङ्गवे विभूम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ।।१।।

त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या || २ ||

युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यल तास्ये ।
मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तुकृष्ण आत्मा ||३ ।।

सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थ सखे रतिर्ममास्तु ।।४।।

व्यवहित पृथनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्धया ।
कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु || ५ ||

स्वनिगममपहाय मत्प्रतिज्ञा मृतमधिकर्तुमवप्लुतो रथस्थ: ।
धृतरथचरणोऽभ्ययाच्चलत्गुः हरिरिव हन्तुमिभं गतोत्तरीयः ।।६।।

विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये ।
शितविशिखहतोविशीर्णदंश: क्षतजपरिप्लुत आततायिनो मे ।

प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः।।७।।
भगवति रतिरस्तु मे मुमूर्षो: यमिह निरीक्ष्य हता: गताः सरूपम् ।।८।।

ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः ।
तमनु तवत्य उन्मदान्धा: प्रं तिमगन् किल यस्य गोपवध्वः ।।९।।

मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् ।
एषाम्अर्हणमुपपेद ईक्षणीयो मम अक्षि गोचर एष आविरात्मा ।।१०।।

तमिमहमजं शरीरभाजां हृदि धिष्टितमात्मकल्पितानाम् ।
शमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ||११||

श्री सूत उवाच
कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः ।
आत्मन्यात्मानमावेश्य सोऽन्तः श्वासमुपारमत् ।।

  1. धार्मिक कहानियाँ
  2. दुर्गा-सप्तशती
  3. विद्यां ददाति विनयं
  4. गोपी गीत लिरिक्स इन हिंदी अर्थ सहित
  5. भजन संग्रह लिरिक्स 500+ bhajan 
  6. गौरी, गणेश पूजन विधि वैदिक लौकिक मंत्र सहित
  7. कथा वाचक कैसे बने ? ऑनलाइन भागवत प्रशिक्षण
इति मतिरुपकल्पिता वितृष्णा iti mati rup kalpita lyrics 2024
इति मतिरुपकल्पिता वितृष्णा iti mati rup kalpita lyrics 2024
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment