प्रातः स्मरण शिव मंत्र/pratah smaran shiva mantra

 प्रातः स्मरण शिव मंत्र/pratah smaran shiva mantra

प्रातः स्मरामि भवभीतिहरं सुरेशं

गङ्गाधरं वृषभवाहनमम्बिकेशम्।

खट्वाङ्गशूलवरदाभयहस्तमीशं

संसाररोगहरमौषधमद्वितीयम् ॥१॥

 

प्रातर्नमामि गिरिशं गिरिजार्धदेहं

सर्गस्थितिप्रलयकारणमादिदेवम्

विश्वेश्वरं विजितविश्वमनोऽभिरामं

संसाररोगहरमौषधमद्वितीयम् ॥२॥

 

प्रातर्भजामि शिवमेकमनन्तमाद्यं

वेदान्तवेद्यमनघं पुरुषं महान्तम् ।

नामादिभेदरहितं षडभावशून्यं

संसाररोगहरमौषधमद्वितीयम् ॥३॥

 

प्रातः समुत्थाय शिवं विचिन्त्य

श्लोकत्रयं येऽनुदिनं पठन्ति ।

ते दुःखजालं बहुजन्मसंचितं

हित्वा पदं यान्ति तदेव शम्भोः ॥४॥

 प्रातः स्मरण शिव मंत्र/pratah smaran shiva mantra

 

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।

उज्जयिन्यां महाकालमोंकारममलेश्वरम् ॥

 

केदार हिमवत्पृष्ठे डाकिन्यां भीमशङ्करम् ।

वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥

 

वैद्यनाथं चिताभूमौ नागेशं दारुकावने ।

सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ॥

 

द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।

सर्वपापविनिर्मुक्तः सर्वसिद्धिफलं लभेत् ।।

 

 प्रातः स्मरण शिव मंत्र/pratah smaran shiva mantra

 
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment