मंगलाचरण लिखित में ram katha manglacharan shlok lyrics
* मंगलाचरण के श्लोक*
अस्मद गुरुभ्यो नमः , अस्मत परम गुरुभ्यो नमः, अस्मत सर्व गुरुभ्यो नमः , श्री राधा कृष्णाभ्याम् नमः, श्रीमते रामानुजाय नमः
लम्बोदरं परम सुन्दर एकदन्तं, पीताम्बरं त्रिनयनं परमंपवित्रम् ।
उद्यद्धिवाकर निभोज्ज्वल कान्ति कान्तं, विध्नेश्वरं सकल विघ्नहरं नमामि।।
अखंड मंडलाकारं व्याप्तम येन चराचरम । तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः।।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।
जयतु जयतु देवो देवकीनन्दनोऽयं , जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गः, जयतु जयतु पृथ्वीभारनाशो मुकुन्दः॥
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं, बिभ्रद् वासः कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोरधरसुधया पूरयन गोपवृन्दैः, वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः ।।
श्रीराम राम रघुनंदन राम राम, श्री राम भरताग्रज राम राम ।
श्रीराम रण कर्कश राम राम, श्रीराम राम शरणम् भव राम राम ।।
श्रीरामचंद्रचरणौ मनसा स्मरामि श्रीरामचंद्रचरणौ वचसा गृणामि ।
श्रीरामचंद्रचरणौ शिरसा नमामि श्रीरामचंद्रचरणौ शरणं प्रपद्ये ।।
माता रामो मत्पिता रामचंद्रः , स्वामी रामो मत सखा रामचंद्रः ।
सर्वस्वं मे रामचंद्रो दयालु, र्नान्य जाने नैव जाने न जाने ।।
रामाय रामभद्राय रामचंद्राय वेधसे
रघुनाथाय नाथाय सीताया पतये नम:।।
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं,
रत्नाकल्पोज्ज्वलांगं परशुमृग वराभीतिहस्तं प्रसन्नम्।
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम्।।।।७।।
अंजना नंदनं वीरं जानकी शोक नाशनं! कपीश मक्ष हंतारं – वंदे लंका भयंकरं ॥
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं । यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥
भक्त भक्ति भगवंत गुरु चतुर नाम बपु एक। इनके पद वंदन कीएँ नासत विध्न अनेक ।।