श्रीमद् भागवत का मंगलाचरण श्लोक bhagwat manglacharan lyrics

श्रीमद् भागवत का मंगलाचरण श्लोक bhagwat manglacharan lyrics

* मंगलाचरण के श्लोक*

अस्मद  गुरुभ्यो नमः , अस्मत परम गुरुभ्यो नमः, अस्मत सर्व गुरुभ्यो नमः , श्री राधा कृष्णाभ्याम्  नमः, श्रीमते रामानुजाय नमः

 

लम्बोदरं परम सुन्दर एकदन्तं,

पीताम्बरं त्रिनयनं परमंपवित्रम् ।

उद्यद्धिवाकर निभोज्ज्वल कान्ति कान्तं,

विध्नेश्वरं सकल विघ्नहरं नमामि।।१।

शरीरं स्वरूपं ततो कलत्रं

यशश्चारु चित्रं धनं मेरु तुल्यं।

मनश्चै न लग्नं श्री गुरु रङ्घ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम्।।२।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।३।

जयतु जयतु देवो देवकीनन्दनोऽयं

जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।

जयतु जयतु मेघश्यामलः कोमलाङ्गः

जयतु जयतु पृथ्वीभारनाशो मुकुन्दः॥४।

कृष्ण त्वदीयपदपङ्कजपञ्जरान्तं

अद्यैव मे विशतु मानसराजहंसः ।

प्राणप्रयाणसमये कफवातपित्तैः

कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥५।

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं

बिभ्रद् वासः कनककपिशं वैजयन्तीं च मालाम् |

रन्ध्रान् वेणोरधरसुधया पूरयन गोपवृन्दैः

वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः ||६।

 

करारविन्देन पदारविन्दं, मुखारविन्दे विनिवेशयन्तम्।

वटय पत्रस्य पुटेशयानं, बालं मुकुन्दं मनसा स्मरामि।।७।

रामाय रामभद्राय रामचंद्राय वेधसे

रघुनाथाय नाथाय सीताया पतये नम:।। ८।

अंजना नंदनं वीरं जानकी शोक नाशनं!

कपीश मक्ष हंतारं – वंदे लंका भयंकरं!!९।

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं ।

 

यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥१०।। 

 

 

bhagwat manglacharan lyrics

श्रीमद् भागवत का मंगलाचरण श्लोक bhagwat manglacharan lyrics

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment