गौरी गणेश पूजन मंत्र लिरिक्स व विधि सहित/gauri ganesh pujan mantra lyrics

॥ श्री गणेशाय नमः ।। 

 गौरी गणेश पूजन मंत्र लिरिक्स व विधि सहित 

अगजाननपद्मार्क गजाननमहर्निशम् ।

अनेकदन्तं भक्तानामेकदन्तमुपास्महे ।। 

पूजनकर्ता सपत्नीक प्रातःकाल मंगलस्नान करके नवीन या, प्रक्षालित शुद्ध वस्त्र उपवस्त्र धारण कर शुद्ध स्थान में आसन पर पूर्वाभिमुख होकर बैठकर तीन बार आचमन करें।

ॐ केशवाय नमः, ॐ माधवाय नमः, ॐ नारायणायनमः ।

ऐसा बोलकर तीन बार आचमन करें । इसके बाद ॐ हृषीकेशाय नमः ऐसा उच्चारण कर हाथ धोलें । इसके बाद ‘प्राणायाम’ करें। 

पवित्रधारणम् :–

मन्त्र :– ॐ पवित्रेस्त्थो वैष्णव्यौसवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेणपवित्रेणसूर्यस्यरश्मिभिः । तस्य ते पवित्रपते पवित्रपूतस्य यत्त्काम: पूनेतच्छकेयम् ।।

यथा वज्रं सुरेन्द्रस्य यथा चक्रं हरेस्तथा ।

त्रिशूलं च त्रिनेत्रस्य तथा मम पवित्रकम् ।। 

इस मंत्र से दाहिने हाथ की अनामिका के मूल में पवित्री धारण करें।

मंगलतिलकम् मन्त्रः — 

ॐ स्वस्ति नऽइन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्तिनस्तार्क्ष्योअरिषिटनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। 

स्वस्तिस्तु या विनाशाख्या धर्मकल्याण वृद्धिदा । 

विनायकप्रिया नित्यं ताञ्च स्वस्तिं ब्रुवन्तुनः ।।

(इस मन्त्र से त्रिपुण्ड अथवा ऊर्ध्वपुण्ड तिलक करें ।) 

gauri ganesh pujan mantra lyrics

कर्मपात्रपूजनम् :-

अपनी बायीं तरफ भूमि पर त्रिकोणात्मक या चतुष्कोणात्मक मण्डप बनाकर गन्धाक्षत से पूजन कर उस पर कर्मपात्र रखकर —

मन्त्रः — ॐ शं नो देवीरभीष्टय आपो भवन्तु पीतये । शैय्योरभि स्रवन्तु नः । 

(इस मंत्र से कलश में जल डालकर)

गंगे च यमुने चैव गोदावरी सरस्वति । 

कावेरि नर्मदे सिन्धो जलेऽस्मिन्सन्निधिं कुरु॥

 इस तरह अंकुश मुद्रा से तीर्थों का आवाहन कर, लेलिहान मुद्रा से अवगुण्ठन कर, मत्स्य मुद्रा से उसे आच्छादित कर पञ्च प्रणव का जप करें । इसके बाद गन्धाक्षतपुष्प लेकर वरुण का आवाहन करें । 

मन्त्र :- ॐ तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हषिर्भिः । अहेडमानो वरुणेह वोध्युरुश गुंग समानऽआयुः प्रमोषीः ।

गंगे च यमुने चैव गोदावरि सरस्वति । 

कावेरि नर्मदे सिन्धो जलेऽस्मिन्सन्निधिं कुरू ।। 

भगवन् वरुणागच्छ त्वमस्मिन् कलशे प्रभो ।

कुर्वेऽत्रैव प्रतिष्ठां ते जलानां शुद्धिहेतवे ।। 

ॐ भूर्भुवः स्वः अस्मिन् कलशे वरुणं साङ्ग सपरिवारं सायुधं सशक्तिकम् आवाहयामि स्थापयामि । ॐ अपां पतये वरुणाय नमः । सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि । नमस्करोमि । 

अङ्कुशमुद्रया तीर्थान्यावाह्य । वेनुमुद्रया अमृतीकृत्य । हूँ इति कवचेन मत्स्यमुद्रयाऽऽच्छाद्य । वं वरुणाय नमः । इत्यनेनाष्टवारमभिमन्त्र्य । 

(कलश का थोड़ा जल लेकर पूजन-सामग्री भूमि एवं अपने ऊपर उस जल से संप्रोक्षण करें।)

मन्त्र :-

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।

यः स्मरेत्पुण्डरीकाक्षं स वाह्याभ्यन्तरः शुचिः ।। 

भूतापसारणम् :–

पीली सरसों अथवा अक्षत लेकर पूजन-कर्मभूमि में चारों तरफ मन्त्र पढ़ते हुए फेंककर भूतापसारण करें । 

मन्त्र :– अपसर्पन्तु ते भूता ये भूता भूमि-संस्थिता । 

            ये भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ।। 

          अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् । 

            सर्वेषामवरोधेन पूर्जाकर्म समारभे ॥

           यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः | 

           स्थानं त्यक्त्वा तुत्सर्व यत्रस्थं तत्र गच्छत|। 

          भूतप्रेतपिशाचाद्या  अपक्रामन्तु राक्षसाः । 

     स्थानदस्माद्ब्रजन्त्यन्यत्स्वीकरोमि भुवं त्विमाम्। 

          भूतानि राक्षसा वापि येऽत्र तिष्ठन्ति केचन ।

            ते सर्वेऽप्यपगच्छन्तु देवपूजां करोम्यहम् ।। 

तीन बार ताली बजाकर सभी विषयों का आसारण करें। 

आधारशक्तिपूजनम् :–

आसन के नीचे कुङ्कुम से त्रिकोण रेखा बनाकर पृथ्वी की पूजा करें-

मन्त्रः — ॐ मही द्यौः पृथिवी च न ऽइमं यज्ञमिमिक्षताम् । पिपृतानो परीमभिः । 

भूमि का स्पर्श कर गन्धाक्षतपुष्पों द्वारा पूजन करें। 

ॐ आधारशक्तये पृथिव्यै नमः, कमलासनाय नमः ।। 

प्रार्थना :– 

पृथ्वि त्वया धृतालोका देवि त्वं विष्णुना धृता |

त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।। 

दीपस्थानम् :–

कलश के दाहिने भाग में दीपक के लिए अक्षत आदि से आसन बनाकर, उस पर दीपक जलाकर गन्ध, अक्षत, पुष्पादि से उसकी पूजा कर हाथों में पुष्प लेकर प्रार्थना करें। 

मन्त्रः — 

ॐ अग्निर्ज्योतिषार्ज्ज्योतिप्म्मानृक्मोवर्चसाव्वर्चस्वान् । सहस्रदाऽअसिसहस्रायत्त्वा।

 भो दीप देवरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ।

यावत्कर्मसमाप्निः स्यात्तावदत्र स्थिरो भव ।। 

ॐ भूर्भुवः स्वः दीप देवतायै नमः आवाहयामि सर्वोपचारर्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि । 

स्वस्तिवाचनम् :-

ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासोऽअपरीता स उदभिदः । देवा नो यथा सदमिद् वृधे ऽअसन्नप्रायुवो रक्षितारो दिवे दिवे ॥१॥ देवानां भद्रा सुमतिर्ऋ जूयतान्देवाना गुंग रातिरभिनो निवर्त्तताम् ।

देवानां सख्यमुपसेदिमा व्वयन्देवा नऽआयुः प्रतिरन्तु जीवसे ।।२।। तान्पूर्वया निविदा हूमहेव्वयम्भगम्मित्रमदितिन्दक्षमस्रिधम् । अर्य्यमणँ वरुण गुंग सोममश्विना सरस्वती नः सुभगा मयस्करत् ।।३।। 

तन्नो व्वातो मयोभु व्वातु भेषजन्तन्माता पृथिवी तत्पिता द्यौः । तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्श्विना श्रृणुतन्धिष्ण्या युवम् ॥४|| 

तमीशानञ्जगतस्तस्थुषस्प्पतिन्धियजिन्वमवसे हूमहे व्वयम् । पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ।।५।। 

स्वस्ति नऽइन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नो वृहस्पतिर्दधातु ।।६।। 

पृषदश्वा मरुतः पृश्निमातरः शुभँय्यावानो व्विददषेषु जग्मयः । अग्निजिह्वा मनवः सुरचक्षसो विश्वे नो देवाऽअवसा गमन्निह ।।७।। 

भद्रं कर्णेभिः श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा गुंग सस्तनूभिर्व्यशेमहि दवहितँय्यदायुः ।।८।। शतमिन्नु शरदो ऽअन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ।।९।। 

अदितिर्धौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवाऽअदितिः पञ्चजना अदितिर्जात मदितिर्जनित्त्वम् ।। 

द्यौः शान्तरन्तरिक्ष गुंग शान्तिः प्रथिवी शान्तिरापः शान्तिरोषधयः शान्तिः व्वनस्प्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्मशान्तिः सर्व गुंग शान्तिः शान्तिरेवशान्तिः सामाशान्तिरेधि ।।११।। यतोयत: समीहसेततोनो अभयङ्कुरु शन्नः कुरुप्प्रजाब्भ्योऽभयन्नः पशुभ्यः ।।१२.|| शान्तिः शान्ति सुशान्तिर्भवतु । 

माङ्गलिक देवस्मरणम् :–

(हाथ जोड़कर देवताओं का स्मरण करें ।)

श्रीमन्महागणाधिपतये नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । वाणीहिरण्यर्भाभ्यां नमः । श्रीलक्ष्मीनारायणाभ्यां नमः । उमामहेश्वराभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातापितृचरणकमलेभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः । एतत् कर्मप्रधानदेवताभ्यो नमः ।

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । 

लम्बोदरश्च विकटो विघन्नाशो विनायकः ।। 

धुम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । 

द्वादशैतानि नामानि यः पठेच्छुणुयादपि ।। 

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । 

सङ्ग्रामे संकटे चैव विघ्नस्तस्य न जायते ।। 

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । 

प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशान्तये ।। 

अभीप्सितार्थ सिद्ध्यर्थ पूजितो यः सुरासुरैः । 

सर्वविघ्नहरस्तस्मै श्री गणाधिपतये नमः ।। 

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । 

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ।। 

सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।

येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः ।। 

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । 

विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽघ्रियुगं स्मरामि ।।

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । 

येषामिन्दीवरश्यामो हृदयस्थो जनार्दन ।।

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । 

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ।। 

सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः । 

देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ।। 

विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् ।

सरस्वती प्रणम्यादौ सर्वकार्यार्थसिद्धये ।। 

हाथ में लिए हुए अक्षत पुष्पादि को श्री गणेश जी के समीप रख दें।) 

gauri ganesh pujan mantra lyrics

संकल्पः —

दाहिने हाथ में चावल, सुपारी, पुष्प, चन्दन द्रव्य एवं जल लेकर संकल्प करें।

ॐ विष्णुर्विष्णुर्विष्णुः । श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया पवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे युगे कलियुगे कलिप्रथमचरणे भूर्लोके भारतवर्षे जम्बूद्वीपे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तस्य अमुकक्षेत्रे, अमुक देशे ,अमुकनाम्निनगरे (ग्रामे वा) श्रीगङ्गायमुनयोरमुकदिग्भागे देवब्राह्मणानां सन्निधौ श्रीमन्नृपतिवीरविक्रमादित्यसमयतोऽमुकसंख्यापरिमितो प्रवर्त्तमान-संवत्सरे प्रभवादिषष्ठिसंवत्सराणां मध्ये अमुकनामसंवत्सरे, अमुकायने, अमुकगोले, अमुकऋतौ, अमुकमासे, अमुकपक्षे, अमुकतिथौ, अमुकवासरे, अमुकनक्षत्रे, अमुकयोगे, अमुककरणे, अमुकराशिस्थिते चन्द्रे, अमुकराशिस्थितेश्रीसूर्ये, अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु एवं गुणविशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्रोत्पन्नस्य अमुकशर्मणः (वर्मण: गुप्तस्य दासस्य वा) सपरिवारस्य ममात्मनः श्रुतिस्मृतिपुराणोक्तपुण्यफलावाप्त्यर्थं मम ऐश्वर्याभिवृद्धयर्थम् अप्राप्तलक्ष्मीप्राप्त्यर्थ प्राप्तलक्ष्यश्चिरकालसंरक्षणार्थ सकलमनईप्सितकामनासंसिद्ध्यर्थ लोके वा सभायां राजद्वारे वा सर्वत्र यशोविजयलाभादिप्राप्त्यर्थं समस्तभयव्याधिजरापीडामृत्युपरिहारद्वारा आयुरारोग्यैश्वर्याद्यभिवृद्धर्थ तथा च मम अन्मराशेः सकाशाद्ये केचिद्विरुद्धचतुर्थाष्टम द्वादशस्थानस्थिता: क्रूरग्रहाः तैः सूचितं सूचयिष्यमाणञ्च यत्सर्वारिष्टं तद्विनाशद्वारा सर्वदा तृतीयैकादशस्थान स्थितवच्छुभफलप्राप्त्यर्थं पुत्रपौत्रादि सन्ततेरविच्छिन्नवृद्ध्यर्थम् आदित्यादिनवग्रहानुकूलतासिद्धर्थम् इन्द्रादिदशदिक्पाल प्रसन्नतासिद्धर्थम आधिदैविकाधिभौतिकाध्यात्मिक त्रिविधतापोपशमनार्थ धर्मार्थ काममोक्षफलावाप्त्यर्थ यथा-ज्ञानं यथामिलितोपचारद्रव्यैः अमुक देवस्य पूजनं करिष्ये । 

तदङ्गत्वेन गणपत्यादि देवानां पूजनज्च करिष्ये । (करिष्यामि वा)  

(संकल्प की सामग्री को गणेश जी के समीप नीचे छोड़ दें।)

अङ्गन्यास करन्यास 

(संकल्प के पश्चात् पुरुष सूक्त के मन्त्रों से अङ्गन्यास-करन्यास करें। 

पुरुष सूक्त के पूरे मंत्र विष्णुपूजन (शालग्राम पूजन) प्रकरण में लिखे गये हैं, अतः नीचे संकेत मात्र लिखे जाते हैं।) 

अङ्गन्यासः –

ॐ सहस्रशीर्षा• वामकरे । ॐ पुरुष एदेव गुंग सर्व० — दक्षिणकरे । ॐ एतावानस्य महिमा० — वामपादे । ॐ त्रिपादूर्ध्व० — दक्षिणपादे । ॐ ततो विराड० – वामजानुनि । ॐ तस्माद्यज्ञानसर्वहुत० — दक्षिणजानुनि । ॐ तस्माद्य ज्ञात्सर्वहुत ऋचः० – वामकट्याम् । ॐ तस्मादश्वा० — दक्षिणकट्याम् । ॐ तं यज्ञम् – नाभौ । ॐ यत्पुरुषं व्यदधुः — हृदि । ॐ ब्राह्मणोऽस्य० – कण्ठे । ॐ चन्द्रमा मनसो०- वामबाहौ । ॐ नाभ्या आसी०– दक्षिणबाहौ । ॐ यत्पुरुषेण०– मुखे । ॐ सप्तास्या० — अक्ष्णोः ॐ यज्ञेन यज्ञ० – मूर्ध्नि। 

पञ्चङ्गन्यासः —

ॐ अद्भ्यः सम्भृतः० — हृदये । ॐ वेदाहमेतम० — शिरसि । ॐ प्रजापतिश्च० — शिखायाम् । ॐ यो देवेभ्य आतपति० — कवचायहुम । ॐ रुचं ब्राह्मम् — अस्त्राय फट् । 

करन्यासः —

ॐ ब्राह्मणोऽस्य०– अङ्गुष्ठाभ्यां नमः । ॐ चन्द्रमा० — तर्जनीभ्यां नमः । ॐ नाभ्या० – मध्यमाभ्यां नमः । ॐ यत्पुरुषेण० — अनामिकाभ्यां नमः ॐ सप्तास्यासन्० – कनिष्ठाभ्यां नमः । ॐ यज्ञेन० – करतलकरपृष्ठाभ्यां नमः ।

gauri ganesh pujan mantra lyrics

पौराणिक कथाएं

  श्रीगणेशाम्बिकापूजनम्  

श्रीगणेश एवं अम्बिका की मूर्ति न रहने पर दो सुपारियों पर मौली लपेटकर उनको तराय अथवा ताम्बे की छननी में चावल पर अप्टदल-कमल बनाकर स्थापित करें । 

फिर हाथ में अक्षत-पुष्प लेकर नीचे लिखे मंत्रों द्वारा आवाहन करें — 

आवाहनम् :-

हे हेरम्ब ! त्वमेह्येहि ह्यम्बिकाव्यम्बकात्मज । 

सिद्धिबुद्धिपते ! त्र्यक्ष ! लक्षलाभपितुः पितः ।। 

नागास्यं नागहारं त्वां गणराजं चतुर्भुजम् । 

भूषितं स्वायुधैर्दिव्यैः पाशाङ्कुशपरश्वधैः ।। 

आवाहयामि पूजार्थ रक्षार्थ च मम क्रतोः ।

इहाऽगत्य गृहाण त्वं पूजां यागं च रक्ष मे ।। 

मन्त्रः- ॐ गणानां त्वा गणपति गुंग हवामहे प्रियाणां त्वा प्रियपति गुंग हवामहे निधीनां त्वा निधिपति गुंग हवामहे व्वसो मम । आहमजानि गर्भधमात्त्वम जासि गर्भधम् ।

ॐ भूर्भुवः स्वः सिद्धि-बुद्धि-सहिताय गणपतये नमः गणपतिमावाहयामि स्थापयामि।

हेमाद्रितनयां देवीं वरदां शंकरप्रियाम । 

लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् । 

ॐ अम्बेऽअम्बिकेऽम्बालिके न मा नयति कश्चन । ससस्त्यश्श्वकः सुभद्रिकां काप्पीलवासिनीम् ॥

ॐ भूर्भुवः स्वः गौर्यै नमः, गौरीमावाहयामि स्थापयामि । 

प्राणप्रतिष्ठा :–

ॐ मनो जूतिर्जुषतामाज्ज्यस्य वृहस्पतिर्यज्ञमिमं तनोत्वरिष्ट य्यज्ञ गुगं समिमं दधातु । विश्श्वेदेवास ऽइह मादयन्तामो३ प्रतिष्ठ ।

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । 

अस्यै देवत्वमर्चायै मामहेति च कश्चन ।। 

गणेशाऽम्बिके सुप्रतिष्ठिते वरदे भवेताम् ।

(गणेश जी के समीप अक्षत छोड़ें।) 

आसनम् :–

ॐ पुरुष ऽएवेद गुंग सर्व य्य द्भूतँ य्यच भाव्यम् । उतामृतत्त्वस्येशानो यदन्नेनातिरोहति । 

रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम् । 

आसनं च मया दत्तं गृहाण परमेश्वर ।। 

गणेशाम्बिकाभ्यां नमः आसनार्थे पुष्पं समर्पयामि ।

(आसन के लिए पुष्प अर्पण करें ।) 

पाद्यम् :–

एतावानस्य महिमातो ज्ज्यायाँश्च पुरुषः । पादोस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ 

उष्णोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम् । 

पादप्रक्षालनार्थाय पाद्यं ते प्रतिगृह्यताम् ॥

गणेशाम्बिकाभ्यां नमः पाद्यं समर्पयामि

(जल अर्पण करें ।

अर्घ्यम् :–

ॐ त्रिपादूर्ध्व ऽउदैत्पुरुषः पादोऽस्येहा भवत्पुनः । ततो विष्ष्वङ् व्यक्रा मत्साशनानशने ऽअभि ।। 

रौप्यपात्रे स्थितं तोयं गन्धपुष्पफलान्वितम् ।

सहिरण्यं ददाम्यधै गृहाण परमेश्वरः ।। 

( गन्ध, अक्षत, पुष्प एवं फल से युक्त जल का अर्घ अर्पण करें ।)

आचमनीयम्:–

ॐ ततो व्विराडजायत व्विराजो ऽअधिपूरुषः । स जातो ऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः ।। 

सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलम् । 

आचम्यार्थ मया दत्तं गृहाण परमेश्वर ।।

गणेशाम्बिकाभ्याम् आचमनं समर्पयामि । 

(जल अर्पण करें ।) 

स्नानम् :–

ॐ तस्माद्यज्ञात्त्सर्व्वहुतः सम्भृतं पृषदाज्यम् । पशूँस्ताँश्च्चक्रे व्यायळ्यानारण्या ग्ग्राम्याश्च्च ये ।। 

मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् । 

तदिदं कल्पितं देव ! स्नानार्थ प्रतिगृह्यताम् ।। 

गणेशाम्बिकाभ्यां स्नानं समर्पयामि ।

(शुद्ध जल से स्नान करायें ।) 

पयःस्नानम् :–

ॐ पयः पृथिव्यां पयऽओषधीषु पयो दिव्यन्तरिक्ष्ये पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्ययम् ॥ 

कामधेनुसमुत्पन्नं सर्वसन्तोषकारकम् ।

पयस्तुभ्यं प्रयच्छामि स्नानार्थ प्रतिगृह्यताम् ।।

(दूध से स्नान करायें, पुनः जलस्नान करायें।। 

दधिस्नानम् :–

ॐ दधिक्क्राव्ण्णो ऽअकारिषं जिष्णोऽरश्श्वस्य व्वाजिनः । सुरभि नो मुखा करत्प्रण ऽआयू गुंग षि तारिषत् ।। 

पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । 

दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ।।

(दधि से स्नान करायें, पुन जलस्नान करायें ।) 

घृतस्नानम् :-

ॐ घृतं मिमिक्षे घृतमस्य योनिघृते श्रितो घृतम्बस्य धाम । अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्क्षि हव्यम् ।। 

नवनीतसमुत्पन्नं सर्वसन्तोषकारकम् |

घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥

(घृत से स्नान करायें, पुन गलस्नान करायें ।)

मधुस्नानम् :–

ॐ मधु व्वाता ऽऋतायते मधु क्क्षरन्ति सिन्धवः माद्व्वीर्न्नः सन्त्वोषधीः । मधु नक्क्तमुतोषसो मधुमत्त्पार्थिव गुंग रजः मधु द्यौरस्तुनः पिता । मधुमान्नो व्वनस्पतिर्मधुमाँ २।। अस्तुसूर्यः । माद्वीर्गावो भवन्तु नः ।

तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु । 

तेजः पुष्टिकरं दिव्यं स्नानार्थ प्रतिगृत्यताम् ।।

(मधु से स्नान करायें, सुन जलस्नान करायें ।), 

शर्करास्नानम् :–

ॐ अपा गुंग रसमुद्वयस गुंग सूर्येसन्त गुंग समाहितम् । अपा गुंग रसस्ययो रसस्तम्वो गृह्ण्णम्म्युत्त मुपयामगृहीतो सीन्द्राय त्त्व जुष्टंगृहण्णाम्म्येषते योनिरिन्द्राय त्वा जुष्टतमम् । 

इक्षुसारसमुद्भूतः शर्करा पुष्टि कारिका ।

मला पहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् ।।

(शर्करा चढ़ावें, पुनः जल-स्नान करायें।) 

पञ्चामृतस्नानम् :-

ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशे ऽभवत्सरित् ।। 

पयो दधि घृतं चैव शर्करामधुसंयुतम् । 

पञ्चामृतं मयानीतं स्नानार्थ प्रतिगृह्यताम् ।। 

गणेशाम्विकाभ्यां नमः पञ्चामृतस्नानं समर्पयामि ।

(पञ्चामृत से स्नान करायें पुनः जल-स्नान करायें ।) 

गन्धोदकस्नानम् :–

ॐ गन्धर्वस्त्वाविश्वावसुः परिदधातु विश्वस्यारिष्ट्यैयजमानस्य परिधिरस्यग्निरिडऽईडितः ।।

मलयाचलसम्भूतं चन्दनागरुसंयुतम् । 

चन्दनं च मया दत्तं स्नानार्थ प्रतिगृह्यताम् ।।

(गन्धोदक से स्नान कराने के पश्चात् शुद्धोदक से स्नान करायें ।) 

शुद्धोदकस्नानम् :– 

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त ऽआश्विनाः । श्श्येतः | श्येताक्क्षोरुणस्ते रुद्राय पशुपतये कर्ण्र्णा यामाऽ अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ।।

स्नानार्थ तव देवेश पवित्रं तोयमुत्तमम् । 

तीर्थेभ्यश्च समानीतं गृहाण परमेश्वर ॥ 

गणेशाम्बिकाभ्यां नमः शुद्धोदकस्नानं समर्पयामि ।

(शुद्ध जल से स्नान करावें ।) 

वस्त्रम् :–

ॐ सुजातो ज्योतिषा सह शर्म व्वरूधमासदत्तस्वः ।। व्वासो ऽअग्गने विश्वरूप गुंग संव्ययस्व विभावसो ॥

 सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे । 

मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम् ।।

(वस्त्र अर्पण करें, पुनः जल छोड़ें ।) 

यज्ञोपवीतम् :–

यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । 

आयुष्ममग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।।

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । 

उपवीतं मया दत्तं गृहाण परमेश्वर ॥ 

गणेशाय नमः यज्ञोपवीतं समर्पयामि ।

(जनेऊ अर्पण कर आचमन करायें ।) 

गन्धम् (चन्दनम्) :–

ॐ त्वांगन्धर्वा ऽअखनस्त्वामिन्द्रस्त्वां बृहस्पतिः । त्वामोषधे सोमो राजा विद्वान्यक्क्ष्मादमुच्च्यत ।। 

श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । 

विलेपनं सुरश्रेष्ठ गृहाण परमेश्वर ॥ 

गणेशाम्बिकाभ्यां नमः चन्दनं समर्पयामि ।

(चन्दन चढ़ायें ।)

अक्षता:-

ॐ अक्षन्नमीमदन्त ह्य्यवप्रिया ऽअधूषत । अस्त्तोषत स्वभानवो विप्रा नविष्ठ्ठया मती योजान्न्विन्द्र ते हरी ।।

अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभनाः । 

मया निवेदिता भक्त्या गृहाण परमेश्वर ।। 

गणेशाम्बिकाभ्यां नमः अक्षतान् समर्पयामि ।

(चावल चढ़ावें ।) 

पुष्पाणि :–

ॐ ओषधीः प्रतिमोदद्ध्व्वं पुष्पवतीः प्रसूवरीः । अश्श्वा ऽइव सजित्त्वरीर्वीरुधः पारयिष्ण्ण्वः ।।

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । 

मयाऽऽनीतानि पुष्पाणि पूजार्थ प्रतिगृह्यताम् ।। 

गणेशाम्बिकाभ्यां नमः पूष्पं समर्पयामि ।

(पुष्प चढ़ावें।)

दूर्वाङ्कुरान् :- 

ॐ काण्डात् काण्डात्प्ररोहन्ती परुषः परुषस्प्परि । एवा नो दूर्वे प्रतनु सहस्रेण शतेन च । 

दूर्वे ह्यमृतसम्पन्ने शतमूले शताड्कुरे । 

शतं पातक-संहन्त्री शतमायुष्यवर्धिनी ॥ 

विष्णुवादिसर्वदेवानां दूर्वे त्वं प्रीतिदा सदा । 

क्षीरसागरसम्भूते वंशवृद्धिकरी भव ॥ 

गणेशाम्बिकाभ्यां नमः दूर्वांकुरान् समर्पयामि ।

(दूर्वा चढ़ावें ।) 

बिल्वपत्रम् :-

ॐ नमो बिल्मिने च कवचिने च नमो व्वर्मिणे च वरूथिने च नमः । श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे ।

त्रिशाखैर्विल्वपत्रैश्च अछिद्रैः कोमलैः शुभै । 

तव पूजां करिष्यामि गृहाण परमेश्वर ।।

(बेलपत्र चढ़ायें।)

कुङ्कमम् :–

कुङ्कुमं कामनादिव्यं कामनाकामसम्भवम् । 

कुङ्कुमेनार्चितो देव गृहाण परमेश्वर ।।

गणेशाम्बिकाभ्यां नमः कुकुमम् समर्पयामि । 

(रोली चढ़ावें ।) 

सिन्दूरम् :–

ॐ सिन्धोरिष प्राद्ध्वने शुघनासो व्वातप्रमियः पतयन्ति यह्ववाः घृतस्व धाराऽअरुषो न व्वाजी काष्ट्ठा भिन्दन्नूर्मिमिः पिवमानः ।

सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् । 

शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ।। 

गणेशाम्बिकाभ्यां नमः सिन्दूरम् समर्पयामि 

(सिन्दूर चढ़ावें ।)

अबीरंगुलालम् :–

अबीरं च गुलालञ्च चोवा चन्दनमेव च । 

अवीरेणार्चितो देव ! अतः शान्ति प्रयच्छ मे ।। 

गणेशाम्बिकाभ्यां नमः अवीर-गुलालं समर्पयामि ।

(अबीर-गुलाल चढ़ावें।) 

सुगन्धितद्रव्याणिः —

ॐ अ गुंग शुना ते अ गुंग शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसोऽअच्च्युतः ॥ 

चम्पकाशोकवकुल्मालतीमोगरादिभिः |

वासितं स्निग्धाहेतु तैलं चारु प्रगृह्यताम् ।। 

गणेशाम्विकाम्भ्यां नमः सुगन्धितद्रव्यम् समर्पयामि ।

(इत्र-अतर चढ़ायें ।) 

धूपम् :–

ॐ धूरसि धूर्वधूर्व॑न्तं धूर्वतँय्योसम्माम्धूर्वति तन्धूर्व्वयं व्वयं धूर्वामः । देवानामसि व्वन्हितम् गुंग सस्त्रितमं पप्रितमं जुष्टतमं देवहूतमम् ।

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध-उत्तमः । 

आधेय सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।।

गणेशाम्बिकाभ्यां नमः धूपमाघ्रापयामि । 

(धूप अर्पण करें।) 

दीपम् :–

ॐ अग्निर्ज्योतिर्जोतिरग्निः स्वाहा सूर्यो ज्योतिज्र्जोतिः सूर्यः स्वाहा । अग्निवर्चो ज्योतिर्वर्चः स्वाहा सूर्योव्वर्च्यो ज्योतिवर्चः स्वाहा । ज्योतिः सूर्यः सूर्योज्योति स्वाहा ।

(साज्य) साज्यञ्च वर्तिसंयुक्तं वहिना योजितं मया। 

दीपं गृहाण देवेश त्रैलोक्यतिमिरापह ।। 

गणेशाम्बिकाभ्यां नमः दीपं दर्शयामि ।

(दीपक की ओर चावल छोड़कर हस्त प्रक्षालण करें ।)

नैवेद्यम् :-

ॐ नाम्या ऽआसीदन्तरिक्ष गुंग शीर्ष्ण्णो द्यौः समवर्त्तत । पदभ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ऽअकल्पयन् ।। 

शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।

आहारं भक्ष्यभोज्यञ्च नैवेद्यं प्रतिगृह्यताम् ।। 

(प्रसाद अर्पण करें।) 

गणेशाम्बिकाभ्यां नमः नैवेद्यं समर्पयामि । धेनुमुद्रयाऽमृतीकृत्य ग्रास मुद्राः प्रदर्शयत् । 

ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । 

आचमनीयं समर्पयामि । मध्ये पानीयम् :–

अतितृप्तिकरं तोयं सुगन्धि च पिवेच्छया । 

त्वयि तृप्ते जगत्तृप्तं नित्यतृप्ते महात्मनि ।।

गणेशाम्बिकाभ्यां नमः मध्ये पानीयं समर्पयामि (जल चढ़ावें ।) 

ऋतुफलम् :–

ॐ याः फलिनीर्य्या ऽअफला ऽअपुष्पायाश्च पुष्पिणीः । वृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व गुंग हसः ।। 

इदं फलं मया देव स्थापितं पुरतस्तव । 

तेन में सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥

गणेशाम्बिकाभ्यां नमः अखण्डऋतुफलं समर्पयामि ।।(फल चढ़ावें ।) 

मुखवासार्थे ताम्बूलम् :–

ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । व्वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ।। 

पूगीफलं महदिव्यं नागवल्लीदलैर्युतम् |

एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् || 

गणेशाम्बिकाभ्यां नमः मुखवासार्थे पूगीफल-ताम्बूलं समर्पयामि ।

(पान-सुपारी अर्पण करें ।)

 दक्षिणाम् :-

हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेकऽआसीत् । सदाधार पृथिवी द्यामुतेमां कस्म्मै देवाय हविषा विधेम ।।

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।

अनन्तपुष्यफलदमतः शान्तिं प्रयच्छ में ।। 

गणेशाम्बिकाभ्यां नमः कृतायाः पूजयाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि ।

(दक्षिणा अर्पण करें।) 

कर्पूरारार्तिक्यम् :–

ॐ आरात्रिपार्थिव गुंग रजः पितुरप्रायिधामभिः । दिवः सदा गुंग सिबृहतीव्वितिष्ठस ऽआत्त्वेषव्वर्त्तते तमः ।। 

ॐ अग्निर्देवता व्वातोदेवता सूर्योदेवता चन्द्रमादेवता व्वसवोदेवता रुद्रादेवता दित्त्यादेवता मरुतोदेवता विश्वे देवा देवता वृहस्पतिर्देवतेन्द्रोदेवता वरुणोदेवता ।

गणेशाम्बिकाभ्यां नमः कर्पूरनीराजनमं समर्पयामि ।। (आरती करें।) 

पौराणिक कथाएं

gauri ganesh pujan mantra lyrics

पुष्पाञ्जलि :–

नाना-सुगन्धि-पुष्पाणि यथाकालोद्भवानि च ।

पुष्पाञ्जलिर्मया दत्त गृहाण परमेश्वर ॥ 

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साद्ध्याः सन्ति देवाः ।।

ॐ राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान् कामकामाय मह्यं । कामेश्वरो वैश्रवणो ददातु । कुवेराय वैश्रवणाय महाराजाय नमः । 

ॐ स्वस्ति । साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ट्य राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्, सार्वभौमः सार्वायुषऽआन्तादापरार्धात् । पृथिव्यै समुद्रपर्यन्ताया एकराडिति । तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्याऽऽवसन्गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति । 

ॐ विश्वतश्चक्षुरुत विश्वतो मुखोव्विश्वतो बाहुरुतविश्वतस्पात् । सम्बाहुभ्यां धमति सम्पतत्रैवाभूमीजनयन्देवऽएकः ।।

जानामि पूजनमहं नहि शास्त्रसिद्धं 

शक्तिस्तु ते परिचिता मम सर्वतश्च ।  

पुष्पाञ्जलिर्भगवतश्चरणाब्जयोस्ते 

सन्दीयते परिगृहाण विसृज्य दोषान ।। 

गणेशाम्विकाभ्यां नमः मन्त्रपुष्पाञ्जलि समर्पयामि। 

(पुष्पाञ्जलि चढ़ावें।)

प्रदक्षिणा :-

यानि कानि च पापानि ज्ञाताऽज्ञात- कृतानि च। 

तानि सर्वाणि नश्यन्ति प्रदक्षिणां पदे पदे । 

पदे पदे वा परिपूजकेभ्यः यद्योऽश्वमेधादिफलं ददाति । 

तां सर्वपापक्षयहेतुभूतां प्रदक्षिणां ते परितः करोमि ।। 

ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषां गुंग सहस्रयोजनेव धन्न्वानि तन्न्मसि ।।

गणेशाम्बिकाभ्यां नमः प्रदक्षिणां समर्पयामि ।

विशेषार्ध :–

जल-गन्धाऽक्षत — फल — पुष्प दूर्वा-दक्षिणाः ताम्रपात्रे प्रक्षिप्य अवनिकृतजानुमण्डलं कृत्वा, अर्धपात्रमजलिना गृहीत्वा श्लोकान् पठेत् ।

रक्ष रक्ष गणाध्यक्ष ! रक्ष त्रैलोक्यरक्षकः । 

भक्तानामभयं कर्ता त्राता भव भवार्णवात् ।। 

द्वैमातुर ! कृपासिन्धो ! षाण्मातुराग्रज प्रभो ! 

वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद । 

अनेन सफलार्घ्रेण सफलोस्तु सदा मम ।।

गणेशाम्बिकाभ्यां नमः विशेषायं समर्पयामि । 

प्रार्थना :– 

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय । 

नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ ! नमो नमस्ते ।। 

भक्तार्तिनाशनपराय गणेश्वराय

सर्वेश्वराय शुभदाय सुरेश्वराय ।

विद्याधराय विकटाय च वामनाय

भक्तप्रसन्नवरदाय नमो नमस्ते ।।

 नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः ।

नमस्ते रुद्ररूपाय करिरूपाय ते नमः ।। 

विश्वरूप-स्वरूपाय नमस्ते ब्रह्मचारिणे ।

भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ।।

 लम्बोदर ! नमस्तुभ्यं सततं मोदकप्रिय ! 

निर्विघ्नं कुरु मे देव ! सर्वकार्येषु सर्वदा ।। 

त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति । 

विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्योगणेश ! वरदो भव नित्यमेव ।। 

गणेशपूजने कर्म यन्यूनमधिकं कृतम् । 

तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ।।

अनया पूजया गणेशाम्बिके प्रीयेतां न मम ।। 

गौरी गणेश पूजन मंत्र लिरिक्स व विधि सहित / gauri ganesh pujan mantra lyrics vidhi sahit

षड़विनायक पूजनम् :–

मोदश्चैव प्रमोदश्च सुमुखो दुर्मुखस्तथा ।

अविघ्नो विघ्नहर्ता च षडेते विघ्ननायकाः ।। 

ॐ भूर्भुवः स्वः मोद ! इहागच्छ, इहतिष्ठ । मोदाय नमः । 

ॐ भूर्भुवः स्वः प्रमोद ! इहागच्छ, इहतिष्ठ । प्रमोदाय नमः । 

ॐ भूर्भुवः स्वः सुमुख ! इहागच्छ, इहतिष्ठ । सुमुखाय नमः । 

ॐ भूर्भुवः स्वः दुर्मुख ! इहागच्छ, इहतिष्ठ । दुर्मुखाय नमः । 

ॐ भूर्भुवः स्वः अविघ्न ! इहागच्छ, इहतिष्ठ । अविघ्नाय नमः । 

ॐ भूर्भुवः स्वः विघ्नहर्तार ! इहागच्छ, इहतिष्ठ । विघ्नहर्त्रे नमः । 

ॐ मोदादि पविनायके यो नमः पूजयामि ।

(पोडशोपचार पूजन करें ।) त्रिकालसंध्या   ,  गौरी-गणेश-पूजन  ,  कलश-पूजन  ,  षोडषमातृका-पूजन ,  नवग्रह-पूजन ,  अधिदेवतानां-पूजन  ,  प्रत्यधिदेवता-पूजन , दशदिक्पाल-पूजन 

gauri ganesh pujan mantra lyrics
नीचे दिए गए लिंक पर क्लिक करके पूजन संग्रह की लिस्ट [सूची] देखें-

पौराणिक कथाएं

 गौरी गणेश पूजन को वीडिओ में देखें और मन्त्रों का उच्चारण सीखें-

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment