Wednesday, September 18, 2024
Homekarmakand puja sikheगौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics

गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics

गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics

 
अथ पूजन विधिः
 
 

प्रात:काल नित्यक्रिया स्नानादि से निवृत्त होकर पूर्वाभिमुख शुद्ध आसन में बैठें तथा अपने दायें पत्नी को बैठाकर अपने ऊपर जल सिंचन करें।

पवित्रीकरण-

ॐ पुनन्तु मा देव जनाः पुनन्तु मनसा धियः । 
पुनन्तु विश्वाभूतानि जातवेदः पुनीहि मा ।। 
 
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । 
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः । ।
 

आचमन – (दाहिने हाथ में जल लेकर ऋषि तीर्थ से (हथेली के मूल भाग से) तीन बार जल पी लेवें)

ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः । ॐ हृषीकेशाय नमः । (हाथ शुद्ध कर लें )

पवित्रीधारण- ( दांये हाथ की अनामिका में दो कुश की तथा बायें हाथ की अनामिका में तीन कुश की पवित्री धारण करें।)

ॐ पवित्र्त्रे स्त्थो व्वैष्णव्यौ सवितुर्व्व: प्प्रसव उत्त्पुनाम्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः । तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम् ।। 

 
कुशैः निर्मितां रम्यां पवित्रां देवप्रीतिदाम् । 
प्रशमनायासुरीं शक्तिं पवित्रीं धारयाम्यहम् ।।
ॐ पुण्डरीकाक्षः पुनातु । पुण्डरीकाक्षः पुनातु । पुण्डरीकाक्षः पुनातु । ।

आसनशुद्धि-
(आसन पर जल छिड़कें अथवा आसन का दोनों हाथ से स्पर्श करें) 

ॐ स्योना पृथिविनो भवान्नृक्षरा निवेशनी । यच्छानः शर्म्म सप्प्रथाः ।।

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । 

त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।।

तिलक धारण- (रोली अक्षत से यजमान के माथे पर तिलक लगावें । ) 

 
ॐ सुचक्षा अहमक्षीभ्यां भूया स गुं सुवर्चा मुखेन । सुश्रुत्कर्णाभ्याम्भूयासम् ।।

ॐ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । 
तिलकं तु प्रयच्छन्तु धर्मकामार्थ सिद्धये ॥

उपवीत धारण- (यदि यजमान का उपनयन हुआ हो तो जोड़ा जनेऊ धारण करे) 
 
यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत् सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः । । 
 
शिखाबन्धन- (शिखा बाँधे, यदि शिखा न हो तो शिखा का स्पर्श ही कर लें। )

ॐ मानस्तोके तनये मान आयुषिमानो गोषुमानो अश्वेषुरीरिषः । 

मानोव्वीरान्नुद्र भामिनो व्वधीर्हविष्मन्तः सदमित्त्वाहवामहे ।। 
 
ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते । 
तिष्ठ देवि शिखामध्ये तेजो बृद्धिं कुरुष्व मे ।।

ग्रन्थिबन्धन- (यदि पूजन में पति-पत्नी बैठे हों तो पत्नी के उपवस्त्र (चुनरी ) में अक्षत पुष्प, द्रव्य, सुपाड़ी बाँधकर पति के अंगौछा से जोड़कर दोनों रख लें।)

स्वस्तिवाचनम् – यजमान हाथ में अक्षत पुष्प लेकर गणेशजी का ध्यान करते हुए ब्राह्मणों द्वारा किये जा रहे स्वस्ति पाठ को सुने ।

ॐ आ नो भद्राः क्रतवो यन्तु व्विश्श्वतोऽदब्धासो अपरीतास उद्भिदः । 

देवा नो यथा सदमिद् वृधेऽअसन्नप्रायुवो रक्षितारो दिवे दिवे ।। १ ।।

देवानां भद्द्द्रा सुमतिर्ऋजूयतां देवाना गुं रातिरभि नो निवर्त्तताम् । 

देवाना गुं सख्यमुपसेदिमा ळ्यं देवा न आयुः प्प्रतिरन्तु जीवसे ॥२॥

निविदा हूमहे व्वयं तान्पूर्व्वया भगम्मित्रमदितिन्दक्षमस्रिधम् । 

अर्य्यमणं व्वरुण गुं सोममश्श्विना सरस्वती नः सुभगा मयस्क्करत्।।३।।

तन्नो व्वातो मयोभु व्वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः । 

तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ।।४।

तमीशानञ्जगतस्तस्त्थुषस्पतिं धियञ्जिन्वमवसे हूमहे व्यम्। 

पूषा नो यथा व्वेद सामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ।।५।।
 
स्वस्ति न इन्द्रो व्वृद्धश्रवाः स्वस्ति नः पूषा व्विश्ववेदाः 
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बृहस्पतिर्द्दधातु ।।६

पृषदश्श्वामरुतः पृश्निमातरः शुभं य्यावानो व्विदथेषु जग्मयः । 
अग्निर्जिह्वा मनवः सूरचक्षसो व्विश्श्वे नो देवाऽअवसागमन्निह । ॥ ७ ॥ ॥

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्य्यजत्राः 

स्थिरैरङ्गैस्तुष्टटुवा गुं सस्तनूभिर्व्यशेमहि देवहितं य्यदायुः ।।८॥

शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्का जरसं तनूनाम् । 

पुत्रासो यत्र यत्र पितरो भवन्ति मा नो मद्ध्यारीरिषतायुर्गन्तोः । । ९ ।।

अदितिद्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । 

व्विश्वे देवा अदिति: पञ्चजना अदितिर्जातमदितिर्ज्जनित्वम् ।।१०।।

द्यौ: शान्तिरन्तरिक्ष गुं शान्तिः प्पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । 

व्वनस्पतयः शान्तिर्व्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व्व गुं शान्तिः 
शान्तिरेव शान्तिः सा मा शान्तिरेधि।।११।।

यतो यतः समीहसे ततो नो ऽअभयकुरु । 

शन्नः कुरु प्रजांब्भ्योऽभयन्नः पशुब्भ्यः ।। १२ ।।

विश्वानि देव सवितर्दुरितानि परासुव । यद्भद्रं३ तन्न आसुव ।। १३ ।। 

सुशान्तिर्भवतु सर्वारिष्टशान्तिर्भवतु ।।
(अक्षत पुष्प गणेश जी के सामने चढ़ा दें)

• बाएं हाथ में अक्षत लेकर दाहिने हाथ से गणेश गौरी के सामने चढ़ावें ।।


श्रीमन्महागणाधिपतये नमः । लक्ष्मी-नारायणाभ्यां नमः । उमा-महेश्वराभ्यां नमः । वाणी- हिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातृ-पितृ चरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुल देवताभ्यो नमः । ग्राम- देवताभ्यो नमः । वास्तु- देवताभ्यो नमः । स्थान- देवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । एतत् कर्मप्रधान – देवताभ्यो नमः । सिद्धि – बुद्धि- सहिताय श्रीमन्महा – गणाधिपतये नमः । । 
 
मङ्गल-श्लोकपाठः
अक्षत पुष्प लेकर मंगलपाठ पूर्वक गणेशादि देवों का स्मरण करें। 
 
ॐ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । 
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥ १ ॥ 
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । 
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ २ ॥ 
 
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । 
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते । । ३ ॥ 
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । 
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये || ४ ||

अभीप्सितार्थ-सिद्ध्यर्थं पूजितो यः सुराऽसुरैः । 
सर्वविघ्न – हरस्तस्मै गणाधिपतये नमः ॥५॥
सर्वमङ्गल-माङ्गल्ये शिवे सर्वार्थसाधिके !। 
शरण्ये त्र्यम्बके गौरि नारायणि ! नमोऽस्तु ते ॥६॥ 
 
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम्। 
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥ ७॥ 
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । 
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥८॥ 
 
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवर – श्यामो हृदयस्थो जनार्दनः॥९॥

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । 
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ १० ॥ 
 
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । 
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ११ ॥ 
स्मृतेः सकल-कल्याणं भाजनं यत्र जायते । 
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ १२ ॥ 
 
सर्वेष्वारम्भ-कार्येषु त्रयस्त्रि – भुवनेश्वराः । 
देवा दिशन्तु नः सिद्धिं ब्रह्मेशान – जनार्दनाः || १३|| 
विश्वेशं माधवं दुण्ढिं दण्डपाणिं च भैरवम् । 
न्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ।।१४।। 
 
त्रिवेणीं माधवं सोमं भरद्वाजं च वासुकीम् । 
वन्दे अक्षयवटं शेषं प्रयागं तीर्थ-नायकम् ।। १५ ।।
वक्रतुण्ड ! महाकाय ! कोटिसूर्यसमप्रभ ! |
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।। १६ ।।

श्रीमन्महागणाधिपतये नमः ।।
( अक्षत पुष्प गणेश जी में चढ़ा देवें)

अथ प्रधान सङ्कल्पः
(यजमान दाहिने हाथ में अक्षत पुष्प जल द्रव्य कुशादि लेकर संकल्प करे ।) 

 
ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्री ब्रह्मणोऽह्नि द्वितीये परार्द्धे श्रीश्वेतवाराहकल्पे वैवश्वत मन्वन्तरे अष्टाविंशतितमे युगे कलियुगे कलि- प्रथमचरणे भूर्लोके जम्बूद्वीपे भरतखण्डे भारतवर्षे आर्यावर्तैकदेशे पुण्यक्षेत्रे ( प्रयाग / काशी / क्षेत्रे ) –
 
विक्रमशके बौद्धावतारे अमुकनाम संवत्सरे अमुक अयने श्री सूर्ये अमुक – ऋतौ महामाङ्गल्यप्रद-मासोत्तमे अमुक-मासे अमुक-पक्षे अमुक-तिथौ अमुक-वासरे अमुक-राशिस्थिते चन्द्रे अमुक-राशिस्थिते श्रीसूर्ये अमुकराशिस्थिते श्रीदेवगुरौ शेषेषु ग्रहेषु यथा यथा – राशिस्थान – स्थितेषु सत्सु एवं ग्रहगुणगण – विशेषण – विशिष्टायां शुभपुण्यतिथौ अमुकगोत्र : ‘ अमुकशर्मा ( वर्मा / गुप्तः ) ऽहं श्रुति स्मृति – 
 
पुराणोक्त फल प्राप्त्यर्थं दैहिक दैविक-भौतिक- तापत्रय विनाशाय धर्मार्थकाम-मोक्ष पुरुषार्थ-चतुष्टय सिद्ध्यर्थम्, मम जन्म राशि वर्ष – गोचर दशा-अन्तर्दशा प्रत्यन्तरदशा – सूक्ष्मदशा योगिन्यादि दशा मध्ये च ये केचन् सूर्यादि अरिष्टप्रदाः ग्रहाः तेषां सकलारिष्ट वारणपूर्वकं शुभता – संसिद्ध्यर्थं, – ग्रहकृताराजकृता- शत्रुकृता च पीडा नाशार्थं सर्वविधभयापमृत्युरोगादि- दूरीकरणाय सर्वत्र सुखशान्ति प्राप्तये च, मम समस्त पापक्षयपूर्वकं दीर्घायुर्विपुल धन-धान्य – 
 
पुत्रपौत्राद्यनवच्छिन्न सन्ततिवृद्धि – स्थिरलक्ष्मी – बहुकीर्तिलाभ – शत्रु-पराजय- सदभीष्ट – सिद्धयर्थं मनोभिलषितं समस्तकामना – सिद्ध्यर्थञ्च सपरिवारस्य सर्वविध – कल्याणार्थं श्री अमुक देवता – कृपा-प्रसाद – सिद्ध्यर्थं प्रसन्नार्थञ्च ब्राह्मण द्वारा अमुक मन्त्रस्य/ स्तोत्रस्य अमुक संख्याकं जपं / पाठं कारयिष्ये तदङ्गत्वेन वास्तुयोगिनी – क्षेत्रपाल – नवग्रह- सर्वतोभद्र / लिङ्गतोभद्र मण्डल देवानां आवाहन स्थापन पूजन पूर्वकं- 
 
प्रधान-वेद्यामुपरि सुवर्ण रजत – ताम्रमयीं वा अमुक देवस्य प्रतिमां अग्न्युत्तारण प्रतिष्ठा-पूर्वकं यथोपचार पूजनं तत्रादौ च निर्विघ्नतायै गणपत्यादि-पञ्चाङ्ग-देवानां आवाहनं स्थापनं पूजनं पुण्याहवाचनं दिग्ररक्षणं साचार्यस्य ब्राह्मणानां वरणञ्च करिष्ये । (संकल्प द्रव्यादि गणेश जी के सामने रख देवें ।) 
 
भूमिपूजनम्-

ॐ स्योना पृथिविनो भवानृक्षरा निवेशिनी । यच्छानः शर्म सप्रथाः ।।
ॐ भूर्भुवः स्वः आधार शक्त्यै पृथिव्यै नमः, सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि ।

(भूमि पूजन केवल गृहारम्भ, मण्डपारम्भ, जलाशयारम्भ, देवालयारम्भ इत्यादि कार्यों में किया जाता है। किन्तु सम्प्रति सभी पूजनादि में भूमि पूजन होता है अतः उक्त मंत्र दिया गया है।)

दीपपूजनम् – (ईशान कोण में स्थापित घृत दीप का पूजन करे।) 
 
ॐ अग्ग्निज्ज्र्ज्योतिज्ज्र्ज्योतिरग्निः स्वाहा सूर्योज्ज्र्ज्योतिज्ज्र्ज्योतिः सूर्य्यः स्वाहा। 
अग्निर्व्वर्चो ज्ज्योतिर्व्वर्चः स्वाहा सूर्य्यो व्वचें ज्ज्योतिर्व्वर्चः स्वाहा । 
ज्ज्योतिः सूर्य्यः सूर्य्यो ज्ज्योतिः स्वाहा । । 
 
भो दीप देवरूपस्त्वं कर्मसाक्षी ह्याविघ्नकृत् ।
यावत् कर्म समाप्तिः स्यात् तावत् त्वं सुस्थिरो भव । ।
 
ॐ भूर्भुवः स्वः दीप देवतायै नमः। सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि । ।

अथ श्रीगणेशाऽम्बिकापूजनम्

गणेश-आवाहनम्
(हाथ में अक्षत पुष्प लेकर गणेश गौरी का आवाहन करें) 

 
ॐ गणानान्त्वा गणपति गुं हवामहे प्रियाणान्त्वा प्रियपति गुं हवामहे निधीनान्त्वा निधिपति गुं हवामहे व्वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम् ।। 
 
हे हेरम्ब त्वमेह्येहि ह्यम्बिकात्र्यम्बकात्मज ! । 
सिद्धि – बुद्धिपते त्र्यक्ष लक्ष – लाभपितुः पितः ॥ १ ।। 
नागास्यं नागहारं त्वां गणराजं चतुर्भुजम् । 
भूषितं स्वायुधैर्दिव्यैः पाशाङ्कुश – परश्वधैः ॥ २ ॥ 
आवाहयामि पूजार्थं रक्षार्थं च मम क्रतोः । 
इहाऽऽगत्य गृहाण त्वं पूजां यागं च रक्ष मे || ३ || 
ॐ भूर्भुवः स्वः श्री गणपतये नमः, गणपतिमावाहयामि स्थापयामि ।

गौरी – आवाहनम्
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन् । 

ससस्त्यश्श्वकः सुभद्रिकाङ्काम्पील-वासिनीम् ।। 
 
हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम्। 
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ।।
ॐ भूर्भुवः स्वः श्री गौर्यै नमः, गौरीमावाहयामि स्थापयामि ।

प्रतिष्ठा – ( गौरी-गणेश को स्पर्श करके अक्षत छोड़ते हुए प्रतिष्ठा करें) 

 
ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्टटं य्यज्ञ गुं समिमं दधातु । विश्श्वेदेवा स इह मादयन्तामों३ प्रतिष्ठ । ।

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । 
अस्यै देवत्वमर्चायै मामहेति च कश्चन ।।
ॐ भूर्भुवः स्वः गणेशाऽम्बिके सुप्रतिष्ठिते वरदे भवेताम्|

आसनम् – ( गणेश गौरी को आसन के लिए पुष्प समर्पित करें ) 

 
ॐ पुरुष एवेद गुं सर्व्वं व्यद्भूतं य्यच्च भाव्यम् । 
उतामृतत्त्वस्येशानो यदन्नेनातिरोहति । । 
 
विचित्र – रत्न – खचितं दिव्यास्तरण- संयुतम् । 
स्वर्णसिंहासनं चारु गृहणीष्व सुरपूजित || 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नम:, आसनं समर्पयामि । आसनार्थे पुष्पाणि समर्पयामि ।
पाद्यम् – (पाद्य के लिए एक आचमनी जल पैरों के पास छोड़ दें । ) 
 
ॐ एतावानस्य महिमातो ज्ज्यायाँश्श्च पूरुषः । 
पादोऽस्य व्विश्वा भूतानि त्रिपादस्यामृतं दिवि । । 
 
सर्वतीर्थ–समुद्भूतं पाद्यं गन्धादिभिर्युतम् । 
विघ्नराज ! गृहाणेदं जगद्धात्रि ! प्रसीद च || 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, पाद्यं समर्पयामि ।

अर्घ्यः- ( किसी पात्र में जल गन्ध अक्षत पुष्प फल लेकर अर्घ्य 

देवें)
 
ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । 
ततो व्विष्वङ् व्यक्क्रामत्साशनानशने अभि ।। 
 
गणाध्यक्ष ! नमस्तेऽस्तु गृहाण जगदम्बिके ! | 
अर्घ्यं च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम् । । 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, अर्घ्यं समर्पयामि ।

आचमनम् – (तीन आचमनी जल मुख के सामने गिरावे) 

 
ॐ ततो व्विराडजायत व्विराजो अधि पूरुषः । 
स जातो ऽअत्त्य रिच्च्यत पश्चाद् भूमिमथो पुरः । ।

विनायक नमस्तुभ्यं ! त्रिदशैरभिवन्दित! | 
गङ्गोदकेन देवेश  कुरुष्वाचमनं शिवे ! ।। 
ॐ भूर्भुवः स्वः श्रीगणेशाम्बिकाभ्यां नमः, आचमनं समर्पयामि ।

स्नानम् – (जल से स्नान करायें) –
ॐ तस्माद्यज्ञात्सर्व्वहुत: सम्भृतं पृषदाज्ज्यम् । 

पशूंस्ताँश्चक्क्रे व्वायव्या नारण्ण्या ग्ग्राम्म्याश्च्च ये ।। 
 
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् । 
तदिदं कल्पितं देव ! स्नानार्थं प्रतिगृह्यताम्।। 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, स्नानं समर्पयामि । 
 
पञ्चामृत स्नानम् – (पञ्चामृत से स्नान करावे)

ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्स्रोतसः । 

सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ।।

पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु ।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, पञ्चामृत स्नानं समर्पयामि । 

 
शुद्धोदक स्नानम् – (शुद्ध जल से स्नान करावे)

शुद्धवालः सर्व्व शुद्धवालो मणि वालस्त आश्श्विनाः 

श्येतः श्येताक्षो ऽरुणस्ते रुद्राय पशुपतये कर्णा 
यामा ऽअवलिप्ता रौद्रा नभोरूपाः पार्ज्जन्याः ।।
 
गङ्गे च यमुने चैव गोदावरि  सरस्वति ।  
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ||

ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, शुद्धोदकस्नानं समर्पयामि ।

वस्त्रम् – (वस्त्र या रक्षासूत्र चढ़ावें)

ॐ युवा सुवासाः परिवीत आगात्स उश्रेयान्भवति जायमानः । 

तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः । ।

शीत – वातोष्ण – संत्राणं लज्जाया रक्षणं परम् । 

देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ।। 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, वस्त्रं समर्पयामि । वस्त्रान्ते द्विराचमनं समर्पयामि । (वस्त्र चढ़ाने के बाद दो आचमनी जल गिरावें।)

यज्ञोपवीतम् – (गणेश जी को जनेऊ चढ़ावे) 

 
ॐ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः । 
आ वोऽर्वाची सुमतिर्ववृत्याद गुं होश्चिद्या वरिवोवित्तरा सदादित्येभ्यस्त्वा ।।

नवभिस्तन्तुभिर्युक्तं त्रिगुणं 

देवतामयम्।
उपवीतं मया दत्तं गृहाण  परमेश्वर ! ।। 
ॐ भूर्भुवः स्वः श्री गणपतये नमः, यज्ञोपवीतं समर्पयामि ।। यज्ञोपवीतान्ते द्विराचमनं समर्पयामि । जनेऊ के बाद भी दो आचमनी जल गिरावें ।

उपवस्त्रम् – (उपवस्त्र या रक्षासूत्र चढ़ावे )

ॐ सुजातो ज्ज्योतिषा सह शर्म्मा व्वरूथमासदत्त्स्वः ।
व्वासो ऽअग्ग्ने व्विश्वरूप गुं संव्ययस्व विभावसो ।। 

श्री गणेशाम्बिकाभ्यां नमः, उपवस्त्रं समर्पयामि । उपवस्त्रान्ते द्विराचनं समर्पयामि ।। उपवस्त्र के बाद दो आचमनी जल गिरावे

चन्दनम् – (चंदन या रोली (कुंकुम) चढ़ावें)

ॐ त्वां गन्धर्व्वा ऽअखनस्त्वामिन्द्रस्त्वां बृहस्पतिः । 

त्वामोषधे सोमो राजा व्विद्द्वान्त्र्यक्ष्मादमुच्च्यत ।।

श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । 

विलेपनं सुरश्रेष्ठ! चन्दनं प्रतिगृह्यताम्।। 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, गन्धं समर्पयामि ।

अक्षता: – (धुले हुए, चंदन, कुंकुम युक्त अक्षत चढ़ावे) 

 
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । 
अस्तोषत स्वभानवो व्विप्रा नविष्ठया मतीयोजान्विन्द्र ते हरी ।।

अक्षताश्च सुरश्रेष्ठाः कुङ्कुमाक्ताः सुशोभिताः । 
मया निवेदिता भक्त्या गृहाण परमेश्वर ! ।। 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि ।

पुष्पाणि ( माला) – (सुगंधित फूल तथा माला चढ़ावे।) 

 
ॐ ओषधीः प्प्रतिमोदध्वं पुष्प्पवतीः प्प्रसूवरीः । 
अश्वा ऽव सजित्त्वरीवरुधः पारयिष्ण्णवः ।। 
 
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । 
मयाऽऽहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ।। 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, पुष्पाणि पुष्पमालां च समर्पयामि ।

दूर्वा – (गणेश जी को कोमल दूर्वा के इक्कीस अंकुर चढ़ावे। गौरी जी को दूर्वा न चढ़ावें ।)

ॐ काण्डात् काण्डात् प्ररोहन्ती परुवः परुषस्परि । 

एवा नो दूर्व्वे प्रतनु सहस्त्रेण शतेन च । । 
 
दूर्वाङकुरान् सुहरितान् – अमृतान् मङ्गलप्रदान्। 
आनीतांस्तव पूजार्थं गृहाण गणनायक ! ।। 
ॐ भूर्भुवः स्वः श्री गणपतये नमः, दुर्वाङ्कुरान् समर्पयामि ।

सिन्दूरम् – ( गणेश गौरी को पीला सिन्दूर चढ़ावे ।)

ॐ सिन्धोरिव प्प्राद्ध्वने शूघनासो व्वातप्रमियः पतयन्ति यह्वाः । 

घृतस्य धारा अरुषो न व्वाजी काष्ठा भिन्दन्नूर्म्मिभिः पिन्वमानः । । 
 
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् । 
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ।। 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, सिन्दूरं समर्पयामि ।

अबीरादि परिमलद्रव्यम् – ( अबीर, गुलालादि द्रव्य चढ़ावे ।) 
 
ॐ अहिरिव भोगैः पर्य्येति बाहु ज्याया हेतिं प्परिबाधमानः । 
हस्तग्घ्नो व्विश्श्वा व्वयुनानि व्विद्वान्पुमान् पुमा गुंसं प्यरिपातु व्विश्वतः । । 
 
नाना – परिमलैर्द्रव्यैर्निर्मितं चूर्णमुत्तमम् ।
अबीरनामकं चूर्णं गन्धं चारु प्रगृह्यताम्।।
 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि । 
 
सुगन्धितद्रव्यम् – (इत्रादि सुगन्ध चढ़ावे)

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । 
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् ॥ 
 
नानासुगन्ध – पुष्पेभ्यः साररूपं समाहृतम्। 
सुगन्धितमिदं द्रव्यं गृहाण सुरसत्तम।।
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, सुगन्धितद्रव्याणि समर्पयामि ।।

धूपम् – (धूपबत्ती अथवा अगरबत्ती से धूप देवे)


ॐ धूरसि धूर्व्व धूर्व्वन्तं धूर्व्व तं य्योऽस्स्मान् धूर्व्वति तं धूर्व्वयं व्यं धूर्व्वामः । 
देवानामसि व्वह्नितम गुं सस्नितमं पप्रितमं जुष्ट्टतमं देवहूतमम् ।। 
 
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्धमुत्तमः ।
आत्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।।

ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, धूपं आध्रापयामि ।

दीपम् – (घी का दीपक दिखावे) 

 
ॐ अग्ग्निज्ज्र्ज्योतिज्ज्र्ज्योतिरग्निः स्वाहा सूर्य्योज्ज्र्ज्योतिज्ज्र्ज्योतिः सूर्य्यः स्वाहा। अग्निर्व्वर्चो ज्ज्योतिर्व्वर्चः स्वाहा सूर्यो व्वर्चो ज्ज्योतिर्व्वर्चः स्वाहा । ज्ज्योतिः सूर्य्यः सूर्य्यो ज्ज्योतिः स्वाहा । । 
 
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश ! त्रैलोक्यतिमिरापहम् ।।

ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि । (हस्तप्रक्षालनम्।)

नैवेद्यम् – (अनेक प्रकार के मिष्ठान्न निवेदित करें)

ॐ नाब्भ्या आसीदन्तरिक्ष गुं शीष्र्णो द्यौ: समवर्त्तत । 

पद्भ्यां भूमिर्द्दिशः श्रोत्र्नात्तथा लोकाँ२ऽअकल्प्पयन्।।

शर्करा – खण्ड-खाद्यानि दधि – क्षीर – घृतानि च । 
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ।। 
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि | आचमनीयं समर्पयामि मध्ये पानीयं उत्तरापोशनं समर्पयामि ।

करोद्वर्त्तनम् – (करोद्वर्त्तन के लिए चंदन छिड़कना चाहिए)

ॐ अ गुं शुना ते अ गुं शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो ऽअच्युतः । ।

चन्दनं मलयोद्भूतं 

कस्तूर्यादिसमन्वितम्।
करोद्वर्त्तनकं देव ! गृहाण परमेश्वर ! ।।
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, चन्दनेन करोद्वर्तनं समर्पयामि ।

ऋतुफलानि- (जिस ऋतु में जो फल उपलब्ध हों समर्पित करें )

ॐ याः फलिनीर्य्या ऽअफला अपुष्पा याश्च पुष्पिणीः । 

बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व गुं ह सः ।।

इदं फलं मया देव स्थापितं पुरतस्तव। 

तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि । । 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि । 
 
ताम्बूलम् – (सुपाड़ी, लौंग, इलायची सहित पान चढ़ावे)

ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत्। 
व्वसन्तोऽस्यासीदाज्ज्याङ्ग्रीष्म इध्मः शरद्धविः ।। 
 
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्। 
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ।।
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, मुखवासार्थे पूगीफल ताम्बूलं समर्पयामि |

दक्षिणा – ( दक्षिणा में प्रचलित मुद्रा यथाशक्ति समर्पित करें ) 

 
ॐ हिरण्ण्यगब्र्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । 
स दाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा विधेम || 
 
हिरण्यगर्भ-गर्भस्थं हेमबीजं विभावसो । 
अनन्त – पुण्यफलदमतः शान्तिं प्रयच्छ मे ।। 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, दक्षिणां समर्पयामि । 
 
प्रदक्षिणा – ( “ एकाचण्ड्याः रवेः सप्त तिस्रो दद्याद् विनायके” – के अनुसार गणेश जी की तीन परिक्रमा की जाती है।

ॐ ये तीर्थानि प्प्रचरन्ति सृकाहस्ता निषङ्गिणः । 

तेषा गुं सहस्त्र – योजनेऽव धन्नवानि तन्नमसि । । 
 
पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादि – फलं ददाति । 
तां सर्वपापक्षय-हेतुभूतां प्रदक्षिणां ते परितः करोमि । । 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि ।

पुष्पाञ्जलिः – (हाथ में पुष्प लेकर मंत्र पढ़कर पुष्पाञ्जलि देवें ।) 

 
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । 
ते ह नाकं महिमानः सचन्त यत्र पूर्व्वे साद्ध्याः सन्ति देवाः । । 
 
नाना सुगन्धि पुष्पाणि यथाकालोद्भवानि च। 
पुष्पाञ्जलिर्मया दत्त गृहाण परमेश्वर ! ।। . 
ॐ भूर्भुवः स्वः श्री गणेशाम्बिकाभ्यां नमः, पुष्पाञ्जलिं समर्पयामि ।

विशेषार्घ्यम् – (विशेषार्घ्य मात्र गणेश जी को देने की परम्परा प्रचलित है, जबकि गौरी जी को भी दिया जा सकता है। ताम्रपात्र में जल चंदन, गंध, अक्षत, पुष्प, फल, दूब तथा दक्षिणा डालकर अंजलि में अर्घ्यपात्र लेकर मंत्र पढ़ते हुए विशेषार्घ्य प्रदान करें। )

ॐ रक्ष रक्ष गणाध्यक्ष ! रक्ष त्रैलोक्यरक्षक ! 

भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥ | १ | 
द्वैमातुर ! कृपासिन्धो षाण्मातुराग्रज प्रभो ! | 
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद !|
अनेन सफलार्घ्येण फलदोऽस्तु सदा मम ||२||

ॐ भूर्भुवः स्वः श्री मन्महागणाधिपतये नमः, विशेषार्घ्यं समर्पयामि ।

गणेश प्रार्थना – (अक्षत पुष्प लेकर हाथ जोड़कर प्रार्थना करें)

विघ्नेश्वराय वरदाय 

सुरप्रियाय,
लम्बोदराय सकलाय 
जगद्धिताय ।
नागाननाय 
श्रुति-यज्ञ – विभूषिताय,

गौरीसुताय गणनाथ ! नमो नमस्ते ॥ १ ॥

भक्तार्ति-नाशनपराय 

गणेश्वराय,
सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय 
च वामनाय,

भक्त – प्रसन्न – वरदाय नमो नमस्ते ॥२॥

नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः। 

नमस्ते रुद्ररूपाय करिरूपाय ते नमः ॥३॥

विश्वरूप – स्वरूपाय नमस्ते ब्रह्मचारिणे । 

भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥ ४ ॥

लम्बोदर ! नमस्तुभ्यं सततं मोदकप्रिय ! |
निर्विघ्नं कुरु मे देव! सर्वकार्येषु 

सर्वदा ॥ ५ ॥

त्वां विघ्न – शत्रु-दलनेति च 
सुन्दरेति,
भक्तप्रियेति सुखदेत 
फलप्रदेति ।
विद्या- प्रदेत्यघ- हरेति च 
ये स्तुवन्ति,
तेभ्यो गणेश! वरदो भव नित्यमेव ॥ ६॥

गौरी प्रार्थना


याः श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः, 
पापात्मनां कृतधियां हृदयेषु बुद्धिः । 
श्रद्धा सतां कुलजन – प्रभवस्य लज्जा, 
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ १ ॥ 
 
मेधासि देवि विदिताखिल शास्त्रसारा, 
दुर्गासि दुर्ग भवसागर नौर सङ्गा । 
श्रीः कौटभारि हृदयैक – कृताधिवासा, 
गौरी त्वमेव शशिमौलि – कृतप्रतिष्ठा ॥ २ ॥

मुखे ते ताम्बूलं नयनयुगले कज्जल-कला,

ललाटे काश्मीरं विलसति गले मौक्तिक-लता । 
स्फुरत्काची शाटी पृथु-कटितटे हाटकमयी, 
भजामि त्वां गौरीं नगपति किशोरीमविरतम् ॥२॥ 
( इति श्रीगणेशाम्बिकापूजनम् सम्पूर्णम्)
 

गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics

gauri-ganesh-pujan
गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics , गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,गौरी गणेश पूजन वैदिक मंत्र gauri ganesh pujan vidhi lyrics ,
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

BRAHAM DEV SINGH on Bhagwat katha PDF book
Bolbam Jha on Bhagwat katha PDF book
Ganesh manikrao sadawarte on bhagwat katha drishtant
Ganesh manikrao sadawarte on shikshaprad acchi kahaniyan