सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

विशिष्ट पूजा-प्रकरण

किसी भी यज्ञादि महोत्सवों, पूजा- अनुष्ठानों अथवा नवरात्र – पूजन, शिवरात्रिमें शिव-पूजन, पार्थिव-पूजन, रुद्राभिषेक, सत्यनारायण – पूजन, दीपावली – पूजन आदि कर्मोंमें प्रारम्भमें स्वस्तिवाचन, पुण्याहवाचन, गणेश-कलश-नवग्रह तथा रक्षा-विधान आदि कर्म सम्पन्न किये जाते हैं, इसके अनन्तर प्रधान- पूजा की जाती है। अतः यहाँ भी वह पूजाविधान दिया गया है। नान्दीमुख श्राद्ध तथा विशेष अनुष्ठानोंके प्रधान देवताका पूजन-विधान यहाँ नहीं दिया गया है, अन्य पद्धतियोंको देखकर करना चाहिये ।
देव-पूजनमें वेद-मन्त्र, फिर आगम-मन्त्र और बादमें नाम-मन्त्रका उच्चारण किया जाता है। यहाँ इसी क्रमका आधार लिया गया है । जिन्हें वेद-मन्त्र न आता हो, उन्हें आगम- मन्त्रोंका प्रयोग करना चाहिये और जो इनका भी शुद्ध उच्चारण न कर सकें, उनको नाममन्त्रोंसे पूजन करना चाहिये ।
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra
पूजासे पहले पात्रोंको क्रमसे यथास्थान रखकर पूर्व दिशाकी ओर मुख करके आसनपर बैठकर तीन बार आचमन करना चाहिये-
ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः । आचमनके पश्चात् दाहिने हाथके अँगूठेके मूलभागसे ‘ॐ हृषीकेशाय नमः, ॐ गोविन्दाय नमः’ कहकर ओठोंको पोंछकर हाथ धो लेना चाहिये ।
तत्पश्चात् निम्नलिखित मन्त्रसे पवित्री धारण करे-
‘पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः।
तस्य ते पवित्रपते पवित्रपूतस्य यत्काम:पुने तच्छकेयम्।
पवित्री धारण करनेके पश्चात् प्राणायामकरे। इसके बाद बायें हाथमें जल लेकर दाहिने हाथसे अपने ऊपर और पूजा-सामग्रीपर छिड़कना चाहिये–
ॐ अपवित्रःपवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥
ॐ •पुण्डरीकाक्षः पुनातु, ॐ पुण्डरीकाक्षः पुनातु, ॐ पुण्डरीकाक्षः पुनातु ।
तदनन्तर पात्रमें अष्टदल कमल बनाकर यदि गणेश- अम्बिकाकी मूर्ति न हो तो सुपारीमें मौली लपेटकर अक्षतपर स्थापित कर देनेके बाद हाथमें अक्षत और पुष्प लेकर स्वस्त्ययन पढ़ना चाहिये ।
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

स्वस्त्ययन

ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥
देवानां भद्रा सुमतिर्ऋजूयतां देवाना रातिरभि नो निवर्तताम् ।
देवानांऽ सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ।
तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्त्रिधम् ।
अर्यमणं वरुणऽ सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥
तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।
तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥
तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।
पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः ।
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह ॥
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा – सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
अदितिर्द्यौ रदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ।।
द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ।
वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ।।
यतो यतः समीहसे ततो नो अभयं कुरु । शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ सुशान्तिर्भवतु ।।
ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव॥
ॐ गणानां त्वा गणपति ग्वँग् हवामहे प्रियाणां त्वा प्रियपति ग्वँग् हवामहे
निधीनां त्वा निधीपति ग्वँग् हवामहे वसो मम।
आहमजानि गर्भधमा त्वमजासि गर्भधम्॥
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम्॥
श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमा महेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातृ-पितृ-चरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः ।
श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमामहेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातृपितृचरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । ॐ सिद्धिबुद्धिसहिताय श्रीमन्महागणाधिपतये नमः ।
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं देवं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥
सर्वमङ्गलमाङ्गल्ये! शिवे! सर्वार्थसाधिके।
शरण्ये त्र्यम्बके! गौरि नारायणि नमोऽस्तु ते ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं देवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिध्रुवा नीतिर्मतिर्मम ॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
स्मृतेः सकलकल्याणं भाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामिशरणं हरिम् ॥
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥
विश्वेशं माधवं दुण्ढिं दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
गणेशाम्बिकाभ्यां नमः ॥
हाथमें लिये अक्षत-पुष्पको गणेशाम्बिकापर चढ़ा दे । इसके बाद दाहिने हाथमें जल, अक्षत और द्रव्य लेकर संकल्प करे ।

निष्काम संकल्प

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य ब्रह्मणोऽह्नि द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भारतवर्षे आर्यावर्तेकदेशे…. नगरे /ग्रामे / क्षेत्रे (अविमुक्तवाराणसीक्षेत्रे आनन्दवने महाश्मशाने गौरीमुखे त्रिकण्टकविराजिते …… वैक्रमाब्दे…संवत्सरे…मासे… शुक्ल / कृष्णपक्षे… तिथौ…वासरे…प्रातः/ सायंकाले…. गोत्र….. शर्मा/ वर्मा/ गुप्तः अहं ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ… देवस्य पूजनं करिष्ये ।

सकाम संकल्प

यदि सकाम पूजा करनी हो तो कामना- विशेषका नाम लेना चाहिये – या निम्नलिखित संकल्प करना चाहिये –
.…… अहं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मम सकुटुम्बस्य सपरिवारस्य क्षेमस्थैर्यायुरारोग्यैश्वर्याभि वृद्ध्यर्थमाधि भौतिकाधिदैविकाध्यात्मिक त्रिविधतापशमनार्थं धर्मार्थकाममोक्ष फलप्राप्त्यर्थं नित्यकल्याणलाभाय भगवत्प्रीत्यर्थं… देवस्य पूजनं करिष्ये ।

न्यास-

संकल्पके पश्चात् न्यास करे । मन्त्र बोलते हुए दाहिने हाथसे कोष्ठमें निर्दिष्ट अंगोंका स्पर्श करे।
अङ्गन्यास ‘
सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्रपात् ।
स भूमि सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ (बायाँ हाथ )
पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ ( दाहिना हाथ )
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ (बायाँ पैर )
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ (दाहिना पैर
ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ (वाम जानु)
तस्माद्यज्ञात्सर्वहुतः सम्भृतं `पृषदाज्यम्।
पशूंस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ (दक्षिण जानु )
तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दा सि जज्ञिरे तस्माद् जुस्तस्मादजायत ॥(वाम कटिभाग)
तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ (दक्षिण कटिभाग)
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ (नाभि)
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥ (हृदय)
ब्राह्मणोऽस्य मुखमासीबाहू राजन्य: कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्या शूद्रो अजायत ॥ (वाम बाहु)
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ (दक्षिण बाहु)
नाभ्या आसीदन्तरिक्ष शीर्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ अकल्पयन् ॥ (कण्ठ)
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ (मुख)
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ (आँख)
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ (मूर्धा )
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra
पञ्चाङ्गन्यास
अद्भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्रे ।
तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥
(हृदय)
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।
तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ||
(सिर)
प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा वि जायते ।
तस्य योनिं परि पश्यन्ति धीरास्तस्मिन् ह तस्थुर्भुवनानि विश्वा ॥
(शिखा)
यो देवेभ्य आतपति यो देवानां पुरोहितः ।
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥
( कवचाय हुम्, दोनों कंधोंका स्पर्श करे )
रुचं ब्राह्मं जनयन्तो देवा अग्रे तदब्रुवन् ।
यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन् वशे ॥
(अस्त्राय फट्, बायीं हथेलीपर ताली बजाये)
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra
करन्यास
ब्राह्मणोऽस्य मुखमासीबाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्या शूद्रो अजायत ||
अङ्गुष्ठाभ्यां नमः । (दोनों अंगूठोंका स्पर्श करे )
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥
तर्जनीभ्यां नमः। (दोनों तर्जनियोंका,,)
नाभ्यां आसीदन्तरिक्ष शीर्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ अकल्पयन् ॥
मध्यमाभ्यां नमः । (दोनों मध्यमाओंका,,)
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
अनामिकाभ्यां नमः । (दोनों अनामिकाओंका,)
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥
कनिष्ठिकाभ्यां नमः। (दोनों कनिष्ठिकाओंका,,)
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
करतलकरपृष्ठाभ्यां नमः । (दोनों करतल और करपृष्ठोंका स्पर्श करे )
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

गणपति और गौरीकी पूजा

( पूजामें जो वस्तु विद्यमान न हो उसके लिये ‘मनसा परिकल्प्य समर्पयामि’ कहे। जैसे, आभूषणके लिये ‘आभूषणं मनसा परिकल्प्य समर्पयामि ।)
हाथमें अक्षत लेकर ध्यान करे-

भगवान् गणेशका ध्यान-

गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम् ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥

भगवती गौरीका ध्यान –

नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
श्रीगणेशाम्बिकाभ्यां नमः, ध्यानं समर्पयामि ।

भगवान् गणेशका आवाहन-

ॐ गणानां त्वा गणपति गुंग हवामहे प्रियाणां त्वा प्रियपति गुंग हवामहे
निधीनां त्वा निधिपति गुंग हवामहे वसो मम ।
आहमजानि गर्भधमा त्वमजासि गर्भधम्॥ (यजुर्वेद २३ । १९)
एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशद ।
माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते ॥
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च ।
हाथके अक्षत गणेशजीपर चढ़ा दे । सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra  फिर अक्षत लेकर गणेशजीकी दाहिनी ओर गौरीजीका आवाहन करे ।

भगवती गौरीका आवाहन –

ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
(शु० य० २३ | १८ )
हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः गौर्यै नमः, गौरीमावाहयामि, स्थापयामि, पूजयामि च ।

– प्रतिष्ठा –

ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु । विश्वे देवास इह मादयन्तामो३ प्रतिष्ठ ||
( यजुर्वेद २ | १३)
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥
गणेशाम्बिके! सुप्रतिष्ठिते वरदे भवेताम् ।
प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः ।
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra
(आसनके लिये अक्षत समर्पित करे ।)
पाद्य, अर्घ्य, आचमनीय, स्नानीय, पुनराचमनीय |
ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । (यजु० १ । १०) }
एतानि पाद्यार्थ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि गणेशाम्बिकाभ्यां नमः । ( इतना कहकर जल चढ़ा दे।)
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

स्नान

– दुग्धस्नान —
ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः | पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
(यजुर्वेद १८। ३६)
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयःस्नानार्थमर्पितम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पयः स्नानं समर्पयामि । (दूधसे स्नान कराये ।)
– दधिस्नान –
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयू gung षि तारिषत् ॥
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥
(यजु० २३ । ३२)
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दधिस्नानं समर्पयामि । सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra  (दधिसे स्नान कराये ) ।
घृतस्नान-
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
(यजु० १७। ८८)
नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ॥
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, घृतस्नानं समर्पयामि । (घृतसे स्नान कराये ) |
– मधुस्नान –
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिव रजः । मधु द्यौरस्तु नः पिता ॥
(यजु० १३ । २७-२८)
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मधुस्नानं समर्पयामि । (मधुसे स्नान कराये ।)
शर्करास्नान —
ॐ अपा gung रसमुद्वयसः gung सूर्ये सन्त gung समाहितम् । अपा gung – रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥ ( यजु० ९ । ३)
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् ।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शर्करास्नानं समर्पयामि ।सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra ( शर्करासे स्नान कराये ।)
पञ्चामृतस्नान —
ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
(यजु० ३४ ११)
पञ्चामृतं मयानीतं पयो दधि घृतं मधु ।
शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पञ्चामृतस्नानं समर्पयामि । (पञ्चामृतसे स्नान कराये ।)
-गन्धोदकस्नान –
ॐ अgu शुना ते अःgu शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥ (यजु० २०।२७)
मलयाचलसम्भूतचन्दनेन विनिःसृतम् ।
इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, गन्धोदकस्नानं समर्पयामि । (गन्धोदकसे स्नान कराये ।)
शुद्धोदकस्नान-
ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥ (यजु० २४।३)
गङ्गा च यमुना चैव गोदावरी सरस्वती ।
नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शुद्धोदकस्नानं समर्पयामि । ( शुद्ध जलसे स्नान कराये ।)
आचमन – शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

-वस्त्र –

ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः ॥ (ऋग्० ३। ८ । ४)
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, वस्त्रं समर्पयामि ।
( वस्त्र समर्पित करे ।) सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra
आचमन – वस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल दे ।)
उपवस्त्र —
ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः । वासो अग्ने विश्वरूपःgu सं व्ययस्व विभावसो ॥ ( यजु० ११ । ४०)
यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति ।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं ( उपवस्त्राभावे रक्तसूत्रम् समर्पयामि ) । (उपवस्त्र समर्पित करे ।)
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra
आचमन – उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल दे )

– यज्ञोपवीत –

ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दत्तं गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, यज्ञोपवीतं समर्पयामि । (यज्ञोपवीत समर्पित करे ।)
आचमन – यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

चन्दन –

ॐ त्वां गन्धर्वा – अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ॥
(यजु० १२।९८)
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ! चन्दनं चन्दनं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, चन्दनानुलेपनं समर्पयामि। सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra  (चन्दन अर्पित करे ।)
अक्षत
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥ (यजु० ३। ५१ )
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ता: सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि । (अक्षत चढ़ाये ।)
– पुष्पमाला –
ॐ ओषधीः प्रति मोदध्वं पुष्पवती: प्रसूवरीः । अश्वा इव सजित्वरीवरुधः पारयिष्णवः ॥ (यजु० १२। ७७)
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पमालां समर्पयामि । (पुष्पमाला समर्पित करे ।)
दूर्वा –
ॐ -काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥
(यजु० १३ | २०)
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् ।
आनीतांस्तव पूजार्थं गृहाण गणनायक ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाङ्कुरान् समर्पयामि । ( दूर्वाङ्कर चढ़ाये ।)
सिन्दूर —
ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥ (यजु० १७। ९५)
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् ।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सिन्दूरं समर्पयामि । (सिन्दूर अर्पित करे ।)
अबीर-गुलाल आदि नाना परिमल द्रव्य |
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः | हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा सं परि पातु विश्वतः ॥
( यजु० २९ । ५१)
अबीरं च गुलालं च हरिद्रादिसमन्वितम् ।
नाना परिमलं द्रव्यं गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि। (अबीर आदि चढ़ाये । )
सुगन्धिद्रव्य –
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः | हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा सं परि पातु विश्वतः ॥
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् ।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं समर्पयामि । ( सुगन्धित द्रव्य अर्पण करे ।)
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

धूप –

ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः । देवानामसि वह्नितम सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥ (यजु० १। ८)
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि । धूप दिखाये ।)

दीप —

ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा। अग्निर्वच ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा ॥ ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥ (यजु० ३। ९)
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि । (दीप दिखाये ।)
हस्तप्रक्षालन – ॐ हृषीकेशाय नमः’ कहकर हाथ धो ले।
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

– नैवेद्य –

नैवेद्यको प्रोक्षित कर गन्ध- पुष्पसे आच्छादित करे | तदनन्तर जलसे चतुष्कोण घेरा लगाकर भगवान्‌के आगे रखे ।
ॐ नाभ्या आसीदन्तरिक्ष gu शीर्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन् ॥ (यजु० ३१ | १३)
ॐ अमृतोपस्तरणमसि स्वाहा । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ समानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ अमृतापिधानमसि स्वाहा ।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि | (नैवेद्य निवेदित करे ।)
नैवेद्यान्ते आचमनीयं जलं समर्पयामि । (जल समर्पित करे ।)
ऋतुफल —
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हसः ॥ (यजु० १२। ८९)
इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि। (ऋतुफल अर्पित करे । )
फलान्ते आचमनीयं जलं समर्पयामि । (आचमनीय जल अर्पित करे ।)
उत्तरापोऽशन – उत्तरापोऽशनार्थे गणेशाम्बिकाभ्यां नमः । (जल दे ।) जलं समर्पयामि ।
करोद्वर्तन —
ॐ अgu शुना ते अः gu शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः॥ (यजु० २० । २७)
चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम् ।
करोद्वर्तनकं देव गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, करोद्वर्तनकं चन्दनं समर्पयामि। सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra  (मलयचन्दन समर्पित करे ।)
– ताम्बूल —
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
(यजु० ३१ । १४)
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम् एलालवंग – पूगीफलसहितं ताम्बूलं समर्पयामि । (इलायची, लौंग-सुपारीके साथ ताम्बूल अर्पित करे ।)
दक्षिणा –
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
(यजु० १३ । ४)
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, कृताया: पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि। (द्रव्य दक्षिणा समर्पित करे ।)
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

आरती –

ॐ इद हविः प्रजननं मे अस्तु दशवीर सर्वगण स्वस्तये । – आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ।।
ॐ आ रात्रि पार्थिव: रजः पितुरप्रायि धामभिः । दिवः सदा सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥ (यजु० १९। ४८) (यजु० ३४ ३२)
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, आरार्तिकं समर्पयामि । कर्पूरकी आरती करे, आरतीके बाद जल गिरा दे | )
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

पुष्पाञ्जलि –

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
(यजु० ३१ । १६)
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ||
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पाञ्जलिं समर्पयामि । (पुष्पाञ्जलि अर्पित करे ।)

प्रदक्षिणा –

ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । –
तेषा gu सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥
(यजु० १६ । ६१)
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि । ( प्रदक्षिणा करे ।)
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

– विशेषार्घ्य –

ताम्रपात्रमें जल, चन्दन, अक्षत, फल, फूल, दूर्वा और दक्षिणा रखकर अर्घ्यपात्रको हाथमें लेकर निम्नलिखित मन्त्र पढ़े-
रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥
अनेन सफलार्घ्येण वरदोऽस्तु सदा मम ।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, विशेषार्घ्यं समर्पयामि । (विशेषार्घ्य दे ।)
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

प्रार्थना —

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः
नमस्ते रुद्ररूपाय करिरूपाय ते नमः ।
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे
भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥
त्वां विघ्नशत्रुदलनेति च सुन्दरेति
भक्तप्रियेति सुखदेति फलप्रदेति ।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति
तेभ्यो गणेश वरदो भव नित्यमेव ॥
त्वं वैष्णवी शक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत्
त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।
(साष्टाङ्ग नमस्कार करे ।)
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra
गणेशपूजने कर्म यन्यूनमधिकं कृतम् ।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥
अनया पूजया गणेशाम्बिके प्रीयेताम्, न मम । ( ऐसा कहकर समस्त पूजनकर्म भगवान्‌को समर्पित कर दे)
तथा पुनः नमस्कार करे ।
सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra
* अचल प्रतिमाका विसर्जन नहीं किया जाता, किंतु आवाहित एवं प्रतिष्ठित देवप्रतिमाओंका विसर्जन करना चाहिये ।

सम्पूर्ण गौरी गणेश पूजन मंत्रों सहित। gauri ganesh pujan vidhi mantra

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment