Homeभजन संग्रहmadhurashtakam lyrics in hindi pdf मधुराष्टकं इन हिंदी पीडीएफ

madhurashtakam lyrics in hindi pdf मधुराष्टकं इन हिंदी पीडीएफ

madhurashtakam lyrics in hindi pdf मधुराष्टकं इन हिंदी पीडीएफ

अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरम्।

हृदयं मधुरं गमनं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥१॥

वचनं मधुरं चरितं मधुरं, वसनं मधुरं वलितं मधुरम् ।

चलितं मधुरं भ्रमितं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥२॥

वेणुमंधुरो रेणुर्मधुरो, पाणिर्मधुरो पादौ मधुरौ ।

नृत्यं मधुरं सख्यं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥३॥

गीतं मधुरं पीतं मधुरं, भुक्तं मधुरं सुप्तं मधुरम्।

रूपं मधुरं तिलकं मधुरं, मधुराधिपते रखिलं मधुरम् ॥४॥

करणं मधुरं तरूणं मधुरं, हरणं मधुरं स्मरणं मधुरम्।

वमितं मधुरं शमितं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥५॥

गुंजा मधुरा माला मधुरा, यमुना मधुरा वीथी मधुरा ।

सलिलं मधुरं कलिलं मधुरं, मधुराधिपतेरखिलं मधुरम्॥६॥

गोपी मधुरा लीला मधुरा, युक्तं मधुरं भुक्तं मधुरं ।

दृष्टं मधुरं शिष्टं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥७॥

वृन्दा मधुरा गावो मधुरा, यष्टिर्मधुरा सृष्टिर्म धुरा ।

दलितं मधुरं फलितं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥८॥ ॥

इति मधुराष्टकम् ॥

www.bhagwatkathanak.in // www.kathahindi.com

भक्ति भाव के सर्वश्रेष्ठ भजनों की लिस्ट देखने के लिए नीचे लिंक पर क्लिक करेंभक्ति भाव के सर्वश्रेष्ठ भजनों का संग्रह

madhurashtakam lyrics in hindi pdf मधुराष्टकं इन हिंदी पीडीएफ

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Must Read

spot_img