पञ्चलोकपालपूजनम्/Panch Lokpal Puja Mantra Lyrics

 Panch Lokpal Puja Mantra Lyrics

पञ्चलोकपालपूजनम्

 

गणपतिम् —

ॐ गणानां त्वा गणपति गुंग हवामहे प्रियाणां त्वा प्रियपति गुंग हवामहे निधीनां त्वा निधिपति गुंग हवामहे व्वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ।

लम्बोदरं महाकायं गजवक्त्रं चतुर्भुजम् । 

मगर आवाहयाम्यहं देवं गणेशं सिद्धिदायकम् ।।

(राहोरुत्तरे) 

ॐ भूर्भुवः स्व; गणपते इहागच्छेह तिष्ठ गणपतये नमः, गणपतिमावाहयामि स्थापयामि । 

दुर्गाम् —

(शनेरुत्तरे) 

ॐ अम्बे ऽअम्बिकेऽम्बालिके न मा नयत्ति कश्चन । ससस्त्यश्वकः सुभद्रिकाँ काम्पीलवासिनीम् ।

पत्तने नगरे ग्रामे विपिने पर्वते गृहे ।

नानाजातिकुलेशानी दुर्गामावाहयाम्यहम् ।। 

ॐ भूर्भुवः स्वः दुर्गे इहागच्छेह तिष्ठ दुर्गायै नमः, दुर्गामावाहयामि स्थापयामि। 

 

 Panch Lokpal Puja Mantra Lyrics

वायुम् —

(रवेरुत्तरपार्थे) 

ॐ व्वायो जे ते सहस्रिणो रथासस्तेभिरागहि ।नियुत्त्वान्सोमपीतये।

आवाहयाम्यहं वायुं भूतानां देहधारिणम् । 

सर्वाधारं महावेगं मृगवाहनमीश्वरम् ।।

ॐ भर्भुवः स्वः वायो इहागच्छेह तिष्ठ वायवे नमः, वायुमावाहयामि स्थापयामि । 

 

आकाशम् —

(राहोदक्षिणे) 

ॐ घृतं घृतपावानः पिबत व्वसां व्वसापावानः पिबतान्त रिक्षस्य हविरसि स्वाहा । दिशः प्रदिशऽआदिशो विदिश ऽउद्दिशो दिग्भ्यः स्वाहा ।

अनाकारं शब्दगुणं द्यावाभूम्यन्तरस्थितम् ।

आवाहयाम्यहं देवमाकाशं सर्वगं शुभम् ।। 

ॐ भूर्भुवः स्वः आकाश इहागच्छेह तिष्ठ आकाशाय नमः, आकाशमावाहयामि स्थापयामि । 

 

अश्विनौ —

(केतुदक्षिणे) 

ॐ जा वां कशा मधुमत्यश्विना सूनृतावती । तथा जज्ञं मिमिक्षतम् ।

देवतानां च भैषज्ये सुकुमारौ भिषग्वरौ ।

आवाहयाम्यहं देवावश्विनौ पुष्टिवर्द्धनौ ॥ 

ॐ भूर्भुवः स्वः अश्विनौ इहागच्छतां इह तिष्ठताम्, अश्विभ्यां नमः, अश्विनौ आवाहयामि स्थापयामि ।

 

 Panch Lokpal Puja Mantra Lyrics

इति पञ्चलोकपाल पूजनम् 

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment