क्षेत्राधिपतेर्दशदिक्पालानाम् पूजनम्/ Dash Dikpal Pujan Mantra

Dash Dikpal Pujan Mantra

वास्तोष्पतिम् — (गुरुत्तरे) 

ॐ वास्तोष्पते प्रतिजानीह्यस्मानस्वावेशो ऽ अनमीवो भवानः । यत्त्वेमहे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे ।

वास्तोष्पतिं विदिक्कार्यं भूशय्याभिरतं प्रभुम् ।

आवाहयाम्यहं देवं सर्वकर्मफलप्रदम् ।। 

ॐ भूर्भुवः स्वः वास्तोष्पते इहागच्छेह तिष्ठ वास्तोष्पतये नमः, वास्तोप्पतिमावाहयामि स्थापयामि ।

 

क्षेत्राधिपतिम् — (गुरोरुत्तरे) 

ॐ न हि स्प्पशमविदन्नन्यव मस्माद्वैश्वानरात्पुरऽ एतारमग्नेः। एमेनमवृधन्नमृता ऽ अमर्त्यं वैश्वानरं क्षैत्रजित्त्याय देवाः ।

ॐ भूर्भुवः स्वः क्षेत्रधिपतये नमः, क्षेत्राधिपतिमावाहयामि स्थापयामि |

(मण्डलाद्वहि: पूर्वस्याम्) 

ॐ त्रातारमिन्द्रमवितारमिन्द्र गुंग हवे हवे सुहव गुंग शूरमिन्द्रम् । ह्वयामि शक्क्रं पुरुहूतमिन्द्र गुंग स्वस्ति नो मघवा धात्विन्द्रः ।

इन्द्रं सुरपति श्रेष्ठं वज्रहस्तं महाबलम् ।

आवाहये यज्ञसिद्ध्यै शतयज्ञाधिपं प्रमुम् ।। 

ॐ भूर्भुवः स्वः इन्द्र इहागच्छ इह तिष्ठ इन्द्राय नमः, इन्द्रमावाहयामि स्थापयामि । 

 

Dash Dikpal Pujan Mantra

अग्निम् – (मण्डलाद्वहिः आग्नेय्याम्) 

ॐ त्वं न्नो अग्ने तव देव पायुभिर्म्मघोनो रक्क्ष तन्नवश्श्च व्वन्द्य । त्राता तोकस्य तनये गवामस्यनिमेष गुंग रक्षमाणस्तवव्रते।

त्रिपादं सप्तहस्तं च द्विमूर्द्धानं द्विनासिकम् ।

षण्नेत्रं च चतुः श्रोत्रमग्निमावाहयाम्यहम् ।। 

ॐ भूर्भुवः स्वः अग्ने इहागच्छेह तिष्ठ अग्नये नमः, अग्निमा० स्थाप० । 

 

यमम् — (मण्डलाद्वहिः दक्षिणस्याम्) 

ॐ जमाय त्त्वाङ्गिरस्वते पितृमते स्वाहा । स्वाहा घर्माय स्वाहा धर्म: पित्रे ।

महामहिषमारूढं दण्डहस्तं महाबलम् ।

यज्ञसंरक्षणार्थाय यममावाहयाम्यहम् ॥ 

 

ॐ भूर्भुवः स्वः यमेहागच्छेह तिष्ठ यमाय नमः, यममावाहयामि स्थापयामि।

 

Dash Dikpal Pujan Mantra

निर्ऋतिम्- (मण्डलाहि: नेर्ऋत्याम्) 

ॐ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यामन्न्विहि  तस्क्करस्य । अन्न्यमस्मदिच्छ सा त ऽ इत्यानमो देवि निर्ऋते तुभ्यमस्तु |

सर्वप्रेताधिपं देवं निर्ऋतिं नीलविग्रहम् ।

आवाहये यज्ञसिद्ध्यै नरारूढं वरप्रदम् ।। 

ॐ भूर्भुवः स्वः निर्ऋते इहागच्छेह तिष्ठ निर्ऋतये नमः, निर्ऋतिमावाहयामि स्थाप०।

 

वरुणम्-  (ग्रहमण्डलाद्वहिः पश्चिमायाम) 

ॐ तत्त्वा जामि ब्रह्मणा व्वन्दमानस्तदाशास्ते य

जजमानो हविर्ब्भिः । अहेडमानो व्वरुणेह बोध्युरुश गुंग समान आयुः प्रमोषीः ।

शुद्ध- स्फटिक–संकाशं जलेशं यादशां पतिम् ।

आवाहये प्रतीचीशं वरुणं सर्वकामदम् ।। 

ॐ भूर्भुवः स्वः वरुण इहागच्छेह तिष्ठ वरुणाय नमः, वरुणमा० स्थाप०॥

 

Dash Dikpal Pujan Mantra

वायुम् –  (मण्डलाद्वहिः वायव्याम्) 

ॐ आ नो नियुद्भिः शतिनीभिरध्वर गुंग सहस्रिणीभिरुपयाहि यज्ञम् । व्वायो ऽ अस्मिन्नसवने मादयस्व जूयं पात स्वस्तिभिः सदा नः ।

मनोजवं महातेजं सर्वतश्चारिणं शुभम् ।

यज्ञसंरक्षणार्थाय वायुमावाहयाम्यहम् ॥ 

ॐ भूर्भुवः स्वः वायो इहागच्छेह तिष्ठ वायवे नमः, वायुमा० स्थाप० ।

 

सोमम् – (मण्डलाद्वहिः उत्तरस्याम्) 

ॐ व्वय गुंग सोम व्रते तव मनस्तनुषु बिभ्रतः । प्रजावन्तः सचेमहि ।

आवाहयामि देवेशं धनदं यक्षपूजितम् । 

महाबलं दिव्यदेहं नरयानगतिं विभुम् ।।

ॐ भूर्भुवः स्वः सोमेहागच्छेह तिष्ठ सोमाय नमः, सोममावा० स्थाप० । 

 

ईशानम्- (ग्रहमण्डलाद्वहिः ईशान्याम्):–

ॐ तमीशानं जगतस्तस्थुषस्प्पतिं धियंजिन्वमवसे हूमहे व्वयम् । पूषा नो यथा व्वेदसामसदवृधे रक्षिता पायुरदब्धः स्वस्तये ।

सर्वाधिपं महादेवं भूतानां पतिमव्ययम् ।

आवाहये तमीशानं लोकानामभयप्रदम् ॥ 

ॐ भूर्भुवः स्वः ईशानेहागच्छेह तिष्ठ ईशानाय नमः, ईशानमावा• स्थाप० ।

 

ब्रह्माणम्- (ईशानपूर्वयोर्मध्ये) :– 

ॐ अस्म्मे रुद्रा मेहना पर्व्वतासो वृत्रहत्ये भरहूतौ सजोषाः । जः श गुंग सते स्तुवते धायि पज्ज्र ऽइन्द्रज्ज्येषेठा ऽअम्माँ २। ऽअवन्तु देवाः ।

पद्मयोनिं चतुर्मूर्तिं वेदगर्भं पितामहम् ।

आवाहयामि ब्रह्माणं यज्ञसंसिद्धिहेतवे ॥ 

ॐ भूर्भुवः स्वः ब्रह्मन् इहागच्छेह तिष्ठ ब्रह्मणे नमः, ब्रह्माणमावाहयामि स्थापयामि ।

 

अनन्तम्- (नैऋत्यपश्चिमयोर्मध्ये) :– 

ॐ स्योना पृथिवि नो भवान्नृक्षरा निवेशनी । जच्छा नः शर्म सप्रथाः ।

अनन्तं सर्वनागानामधिपं विश्वरूपिणम् ।

जगतां शान्तिकर्तारं मण्डले स्थापयाम्यहम् ।। 

ॐ भूर्भुवः स्वः अनन्तेहागच्छेह तिष्ठ अनन्ताय नमः, अनन्तमा० स्थाप० ।

 

Dash Dikpal Pujan Mantra

प्राणप्रतिष्ठा- (हस्ते अक्षतान् गृहीत्वा) :– 

ॐ मनो जूतिर्ज्जुषतामाज्जस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ गुंग समिमं दधातु । विश्वेदेवास ऽइह मादयन्तामो ३ प्रतिष्ठ ।

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।

अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥ 

ॐ भूर्भुवः स्वः आदित्यादिनवग्रहाः साङ्गाः सवाहनाः सपरिवारा अधिदेवता प्रत्यधिदेवताविनायकादि पञ्चलोकपालवास्तोपतक्षेत्राधिपतीन्द्रादिदशदिक्पालसहिताः सुप्रतिष्ठिता वरदा भवन्तु । इत्यक्षतान् क्षिपेत् ।

 

नाममन्त्रा :– 

ॐ आदित्याय नमः । ॐ सोमाय नमः । ॐ भौमाय नमः । ॐ बुधाय नमः । ॐ बृहस्पतये नमः । ॐ शक्राय नमः । ॐ शनैश्चराय नमः । ॐ राहवे नमः । ॐ केतवे नमः ॥९॥

ॐ ईश्वराय नमः । ॐ उमायै नमः । ॐ स्कन्दाय नमः । ॐ विष्णवे नमः | ॐ बह्मणे नमः । ॐ इन्द्राय नमः । ॐ यमाय नमः । ॐ कालाय नमः | ॐ चित्रगुप्ताय नमः ।।९।।

ॐ अग्नये नमः । ॐ अद्भयो नमः । ॐ भूम्यै नमः । ॐ विष्णवे ॐ इन्द्राय नमः । ॐ इन्द्राण्यै नमः । ॐ प्रजापतये नमः । ॐ भ्यो नमः । ॐ ब्रह्मणे नमः ।।९।।

ॐ विनायकाय नमः । ॐ दुर्गायै नमः । ॐ वायवे नमः । ॐ आकाशाय नमः । ॐ अश्विभ्यां नमः ।।५।।

ॐ वास्तोप्पतये नमः । ॐ क्षेत्राधिपतये नमः ।।२।।

ॐ इन्द्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ निर्ऋतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ कुबेराय नमः । ॐ ईशानाय नमः । ॐ ब्रह्मणे नमः । ॐ अनन्ताय नमः ।।१०।। कलशे ॐ वरुणाय नमः ।

इति नाममन्त्रैर्वा आवाहनासनपाद्यार्घस्नानाचमन वस्त्रयज्ञोपवीत गन्धाक्षतधूपदीप नैवेद्यफलताम्वूलभूषण नीराजनान्तोपचारैर्यथासम्भवं सम्पूजयेत् ।

ॐ भूर्भुवः स्वः सांगेभ्यः सपरिवारेभ्य: सायुधेभ्यः सशक्तिकेभ्यः अधिदेवता-प्रत्यधिदेवता – विनायकादिपञ्चलोकपाल – वास्तोष्पतिक्षेत्राधिपती – न्द्रादिदशदिक्पालसहितेभ्यो नवग्रहेभ्यो नमः आसनार्थे पुष्पाक्षतान् समर्पयामि । 

Dash Dikpal Pujan Mantra

 अनयैव रीत्या —

 ॐ भूर्भुवः स्वः सांगेभ्यः पादयो पाद्यं समर्पयामि । हस्तयोर्ध्य समर्पयामि । सो स्नानं समर्पयामि । वस्त्रं समर्पयामि । यज्ञोपवीतं समामि । गन्धं समर्पयामि । अक्षतं समर्पयामि । पुष्पं समर्पयामि । दूर्वाङ्कुरान् समर्पयामि । धूपमाध्रापयामि । दीपं दर्शयामि । नैवेद्यं निवेदयामि । हस्तप्रक्षालनम् । आचमनम् । फलम् । ताम्बूलम । दक्षिणाद्रव्यम् । नीराजनं समर्पयामि । 

 

पुष्पाञ्जलि :–

ॐ ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च । 

गुरुश्च शुक्रश्च शनिश्च राहुः केतुश्च सर्वे प्रदिशन्तु शं मे ।।

सूर्यं शौर्यमथेन्दुरुञ्चपदवी सन्मङ्गलं मङ्गलः

सबुद्धिञ्च बुधो गुरुश्च गुरुतां शुक्रः सुखं शं शनिः । 

राहुर्वाहुबलं करोतु सततं केतुः कुलस्योन्नतिम् 

नित्यं प्रीतिकरा भवन्तु मम ते सर्वेऽनुकूला ग्रहाः।

आयुश्च वित्तञ्च तथा सुखं च धर्मार्थलाभौ वहुपुत्रतां च |

शत्रुक्षयं राजसु पूज्यतां च तुष्टा ग्रहाः क्षेमकरा भवन्तु  ।। 

जलं गृहीत्वा — 

ॐ अनेन नवग्रहमण्डलस्थसूर्यादिदेवानां पूजनेन

ग्रहमण्डलस्थाः सर्वे सूर्यादिदेवताः प्रीयन्तां न मम ।

इति वास्तोष्पतेः क्षेत्राधिपतेर्दशदिक्पालानाम् च पूजनम्

 

Dash Dikpal Pujan Mantra

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment