pratah smaran mantra in hindi प्रात: स्मरणीय वन्दना
प्रात: स्मरणीय वन्दना
. वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
- सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे ।
तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः ॥
pratah smaran mantra in hindi प्रात: स्मरणीय वन्दना
ध्येयं सदा परिभवघ्नमभीष्टदोहम्,
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्तिहं प्रणतपाल भवाब्धिपोतम्,
वन्दे महापुरुष ते चरणारविन्दम् ॥
pratah smaran mantra in hindi प्रात: स्मरणीय वन्दना
- वंशीविभूषितकरान्नवनीरदाभात्,
पीताम्बरादरुणबिम्बफलाधरोष्ठात् ।
पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्,
कृष्णात्परं किमपि तत्वमहं न जाने ॥
www.bhagwatkathanak.in // www.kathahindi.com