Monday, March 17, 2025
Homeध्यान मंत्रप्रातः स्मरण मंत्र अर्थ सहित pratah smaran shlok mantra arth sahit

प्रातः स्मरण मंत्र अर्थ सहित pratah smaran shlok mantra arth sahit

प्रातः स्मरण मंत्र अर्थ सहित pratah smaran shlok mantra arth sahit

प्रातः स्मरणीय श्लोक
निम्नलिखित श्लोकोंका प्रातः काल पाठ करनेसे बहुत कल्याण होता है, जैसे- 

१ – दिन अच्छा बीतता है, 
२ – दुःस्वप्न, कलिदोष, शत्रु, पाप और भवके भयका नाश होता है, 
३ विषका भय नहीं होता, 
४धर्मकी वृद्धि होती है, अज्ञानीको ज्ञान प्राप्त होता है, 
५ – रोग नहीं होता, 
६- पूरी आयु मिलती है, 
७ – विजय प्राप्त होती है, 
८-निर्धन धनी होता है, 
९ भूख-प्यास और कामकी बाधा नहीं होती तथा 
१० – सभी बाधाओंसे छुटकारा मिलता है इत्यादि । –

निष्कामकर्मियोंको भी केवल भगवत्प्रीत्यर्थ इन श्लोकोंका पाठ करना चाहिये – –
प्रातः स्मरण मंत्र अर्थ सहित pratah smaran shlok mantra arth sahit
प्रातः स्मरण मंत्र अर्थ सहित pratah smaran shlok mantra arth sahit


प्रातः स्मरणीय श्लोक
 

प्रातः स्मरण मंत्र अर्थ सहित pratah smaran shlok mantra arth sahit

 
गणेशस्मरण –

प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्डमाखण्डलादिसुरनायकवृन्दवन्द्यम् ॥

‘अनाथके बन्धु, सिन्दूरसे शोभायमान दोनों गण्डस्थलवाले, प्रबल विघ्नका नाश करनेमें समर्थ एवं इन्द्रादि देवोंसे नमस्कृत श्रीगणेशका मैं प्रातःकाल स्मरण करता हूँ।

विष्णुस्मरण

प्रातः स्मरामि भवभीतिमहार्तिनाशं

नारायणं गरुडवाहनमब्जनाभम् ।

ग्राहाभिभूतवरवारणमुक्तिहेतुं

चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥

‘संसारके भयरूपी महान् दुःखको नष्ट करनेवाले, ग्राहसे गजराजको मुक्त करनेवाले, चक्रधारी एवं नवीन कमलदलके समान नेत्रवाले, पद्मनाभ गरुडवाहन भगवान् श्रीनारायणका मैं प्रातःकाल स्मरण करता हूँ ।



शिवस्मरण-

प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्बिकेशम् । खट्वाङ्गशूलवरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम् ॥

‘संसारके भयको नष्ट करनेवाले, देवेश, गङ्गाधर, वृषभवाहन, पार्वतीपति, हाथमें खट्वाङ्ग एवं त्रिशूल लिये और संसाररूपी रोगका नाश करनेके लिये अद्वितीय औषध-स्वरूप, अभय एवं वरद मुद्रायुक्त हस्तवाले भगवान् शिवका मैं प्रातः काल स्मरण करता हूँ।’



देवीस्मरण –

प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां सद्रलवन्मकरकुण्डलहारभूषाम् । दिव्यायुधोर्जितसुनीलसहस्रहस्तां रक्तोत्पलाभचरणां भवतीं परेशाम् ॥

‘शरत्कालीन चन्द्रमाके समान उज्ज्वल आभावाली, उत्तम रत्नोंसे जटित मकरकुण्डलों तथा हारोंसे सुशोभित, दिव्यायुधोंसे दीप्त सुन्दर नीले हजारों हाथोंवाली, लाल कमलकी आभायुक्त चरणोंवाली भगवती दुर्गादेवीका मैं प्रातःकाल स्मरण करता हूँ।’



सूर्यस्मरण

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि ।

सामानि यस्य किरणाः प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥


‘सूर्यका वह प्रशस्त रूप जिसका मण्डल ऋग्वेद, कलेवर यजुर्वेद तथा किरणें सामवेद हैं । जो सृष्टि आदिके कारण हैं, ब्रह्मा और शिवके स्वरूप हैं तथा जिनका रूप अचिन्त्य और अलक्ष्य है, प्रातः काल मैं उनका स्मरण करता हूँ।’

प्रातः स्मरण मंत्र अर्थ सहित pratah smaran shlok mantra arth sahit

 

त्रिदेवोंके साथ नवग्रहस्मरण

मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।

गुरुश्च शुक्र: शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥


(मार्क० स्मृ० पृ० ३२)

ब्रह्मा, विष्णु, शिव, सूर्य, चन्द्रमा, मंगल, बुध, बृहस्पति, शुक्र, शनि, राहु और केतु – ये सभी मेरे प्रातः कालको मंगलमय करें ।’


ऋषिस्मरण-

भृगुर्वसिष्ठः क्रतुर‌ङ्गिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः ।

रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम् ॥


(वामनपु० १४।३३)

” भृगु, वसिष्ठ, क्रतु, अंगिरा, मनु, पुलस्त्य, पुलह, गौतम, रैभ्य, मरीचि, च्यवन और दक्ष – ये समस्त मुनिगण मेरे प्रातः कालको मंगलमय करें ।’


सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च ।

सप्त स्वराः सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम् ॥

सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त |

भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥


(वामनपु० १४ । २४, २७)

‘सनत्कुमार, सनक, सनन्दन, सनातन, आसुरि और पिंगल – ये ऋषिगण; षड्ज, ऋषभ, गान्धार, मध्यम, पंचम, धैवत तथा निषादये सप्त स्वर; अतल, वितल, सुतल, तलातल, महातल, रसातल तथा पाताल – ये सात अधोलोक सभी मेरे प्रातः कालको मंगलमय करें । सातों समुद्र, सातों कुलपर्वत, सप्तर्षिगण, सातों वन तथा सातों द्वीप, भूर्लोक, भुवर्लोक आदि सातों लोक सभी मेरे प्रातः कालको मंगलमय करें ।’ –

प्रातः स्मरण मंत्र अर्थ सहित pratah smaran shlok mantra arth sahit

 

— प्रकृतिस्मरण –

पृथ्वी सगन्धा सरसास्तथापः स्पर्शी च वायुर्ज्वलितं च तेजः ।

नभः सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्रभातम् ॥

(वामनपु० १४ । २६ )

‘गन्धयुक्त पृथ्वी, रसयुक्त जल, स्पर्शयुक्त वायु, प्रज्वलित तेज, शब्दसहित आकाश एवं महत्तत्त्व – ये सभी मेरे प्रातः कालको मंगलमय करें ।’



इत्थं प्रभाते परमं पवित्रं पठेत् स्मरेद्वा शृणुयाच्च भक्त्या |

दुःस्वप्ननाशस्त्विह सुप्रभातं भवेच्च नित्यं भगवत्प्रसादात् ॥

(वामनपु० १४।२८ )

‘इस प्रकार उपर्युक्त इन प्रातः स्मरणीय परम पवित्र श्लोकोंका जो मनुष्य भक्तिपूर्वक प्रातःकाल पाठ करता है, स्मरण करता है अथवा सुनता है, भगवद्दयासे उसके दुःस्वप्नका नाश हो जाता है और उसका प्रभात मङ्गलमय होता है । ‘


प्रातः स्मरण मंत्र अर्थ सहित pratah smaran shlok mantra arth sahit

 
पुण्यश्लोकोंका स्मरण

पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः ।

पुण्यश्लोका च वैदेही पुण्यश्लोको युधिष्ठिरः ॥

अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः ।

कृपः परशुरामश्च सप्तैते चिरजीविनः ॥

(पद्मपु० ५१ । ६-७)

सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।

जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः ॥ (आचारेन्दु, पृ० २२)



कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ।

ऋतुपर्णस्य राजर्षे: कीर्तनं कलिनाशनम् ॥

(मार्क० स्मृ०, पृ० ३२)

प्रह्लादनारदपराशरपुण्डरीकव्यासाम्बरीषशुकशौनकभीष्मदाल्भ्यान् । रुक्माङ्गदार्जुनवसिष्ठविभीषणादीन् पुण्यानिमान् परमभागवतान् नमामि ॥

धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन ।

शत्रुर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः ॥

वाराणस्यां भैरवो देवः संसारभयनाशनः ।

अनेकजन्मकृतं पापं स्मरणेन विनश्यति ॥

वाराणस्यां पूर्वभागे व्यासो नारायणः स्वयम् ।

तस्य स्मरणमात्रेण अज्ञानी ज्ञानवान् भवेत् ॥

वाराणस्यां पश्चिमे भागे भीमचण्डी महासती ।

तस्याः स्मरणमात्रेण सर्वदा विजयी भवेत् ॥

वाराणस्यामुत्तरे भागे सुमन्तुर्नाम वै द्विजः ।

तस्य स्मरणमात्रेण निर्धनो धनवान् भवेत् ॥

वाराणस्यां दक्षिणे भागे कुक्कुटो नाम ब्राह्मणः ।

तस्य स्मरणमात्रेण दुःस्वप्नः सुस्वप्नो भवेत् ॥

उमा उषा च वैदेही रमा गङ्गेति पञ्चकम् ।

प्रातरेव पठेन्नित्यं सौभाग्यं वर्धते सदा ॥

सोमनाथो वैद्यनाथो धन्वन्तरिरथाश्विनौ ।

पञ्चैतान् यः स्मरेन्नित्यं व्याधिस्तस्य न जायते ॥

कपिला कालियोऽनन्तो वासुकिस्तक्षकस्तथा ।

पञ्चैतान् स्मरतो नित्यं विषबाधा न जायते ॥

हरं हरिं हरिश्चन्द्रं हनूमन्तं हलायुधम् ।

पञ्चकं वै स्मरेन्नित्यं घोरसंकटनाशनम् ॥

आदित्यश्च उपेन्द्रश्च चक्रपाणिर्महेश्वरः । ।

दण्डपाणि: प्रतापी स्यात् क्षुत्तृड्बाधा न बाधते ॥

वसुर्वरुणसोमौ च सरस्वती च सागरः ।

पञ्चैतान् संस्मरेद् यस्तु तृषा तस्य न बाधते ॥ 
सनत्कुमारदेवर्षिशुकभीष्मप्लवङ्गमाः

पञ्चैतान् स्मरतो नित्यं कामस्तस्य न बाधते ॥

रामलक्ष्मणौ सीता च सुग्रीवो हनुमान् कपिः ।

पञ्चैतान् स्मरतो नित्यं महाबाधा प्रमुच्यते ॥

विश्वेशं माधवं दुपिंढ दण्डपाणिं च भैरवम् ।

वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥

(पद्मपुराण)

महर्षिर्भगवान् व्यासः कृत्वेमां संहितां पुरा ।

श्लोकैश्चतुर्भिर्धर्मात्मा पुत्रमध्यापयच्छुकम् ॥

मातापितृसहस्राणि पुत्रदाराशतानि च ।

संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥

हर्षस्थानसहस्त्राणि भयस्थानशतानि च।

दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।

धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥
 
प्रातः स्मरण मंत्र अर्थ सहित pratah smaran shlok mantra arth sahit

न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः ।

धर्मो नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥

इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् ।

स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ (आचारेन्दु, पृ० २२में व्यासवचन)


सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।

उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥

केदारं हिमवत्पृष्ठे डाकिन्यां भीमशङ्करम् ।

वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥

वैद्यनाथं चिताभूमौ नागेशं दारुकावने ।

सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ॥

द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।

सर्वपापविनिर्मुक्तः सर्वसिद्धिफलो भवेत् ॥

(आचारभूषण, पृ० १० में शिवपुराणका वचन)
प्रातः स्मरण मंत्र अर्थ सहित pratah smaran shlok mantra arth sahit
 

दैनिक कृत्य-सूची – निर्धारण – इसी समय दिन-रातके कार्योंकी तैयार कर लें। आज धर्मके कौन-कौनसे कार्य करने हैं ? धनके लिये क्या करना है ? शरीरमें कोई कष्ट तो नहीं है ? यदि है तो उसके कारण क्या हैं और उनका प्रतीकार क्या है ? प्रातः स्मरण मंत्र अर्थ सहित pratah smaran shlok mantra arth sahit
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

BRAHAM DEV SINGH on Bhagwat katha PDF book
Bolbam Jha on Bhagwat katha PDF book
Ganesh manikrao sadawarte on bhagwat katha drishtant
Ganesh manikrao sadawarte on shikshaprad acchi kahaniyan