संकल्प मंत्र इन हिंदी puja sankalp mantra
संकल्प – यजमान जला- ऽक्षत-द्रव्यं चादाय सङ्कल्पं कुर्यात् ।
- सङ्कल्पः– यजमानः दाहिने हाथ में जल, अक्षत तथा द्रव्य लेकर ‘ॐ विष्णुर्विष्णुर्विष्णुः’ से ‘ग्रहशान्तिमहं करिष्ये
ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्त मानस्य अद्य श्रीब्रह्मणोऽह्नि द्वितीये परार्द्ध विष्णुपदे श्री श्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे युगे कलियुगे कलिप्रथमचरणे भूलोंके जम्बूद्वीपे भारतवर्षे भरतखण्डे आर्यावर्तकदेशे (अविमुक्तवाराणसी क्षेत्रे आनन्दवने महाश्मशाने गौरीमुखे त्रिकण्टकविराजिते भागीरथ्याः पश्चिमे भागे )
विक्रमशके बौद्धावतारे अमुकनामसंवत्सरे श्रीसूर्ये अमुकायने अमुकऋतौ महामाङ्गल्यप्रद-मासोत्तमे मासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते श्रीसूर्ये अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथा – राशिस्थान- स्थितेषु सत्सु एवं ग्रह-गुणगण-विशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्रः अमुकशर्मा ( वर्मा, गुप्तः, दासः ) ऽहं मम आत्मनः श्रुति-स्मृति-पुराणोक्त फलप्राप्त्यर्थं कायिक-वाचिक-मानसिकसांसर्गिक-चतुर्विधपातक-दुरितक्षयार्थं, धर्मा- ऽर्थ-काम-मोक्ष- चतुर्विध पुरुषार्थप्राप्त्यर्थं श्रीपरमेश्वरप्रीत्यर्थं च ग्रहशान्तिमहं (अमुकशान्तिं वा) करिष्ये । संकल्प मंत्र इन हिंदी puja sankalp mantra
पुनर्जलं गृहीत्वां, तदङ्गत्वेन स्वस्ति-पुण्याहवाचनं मातृकापूजनं वसोर्द्धारापूजनम् आयुष्यमन्त्रजपं साङ्कल्पिकेन विधिना नान्दीश्राद्धमाचार्यादिवरणानि च करिष्ये ।
पुनर्जलं गृहीत्वा तत्राssदौ निर्विघ्नता-सिद्धयर्थं गणेशाऽम्बिकयोः पूजनं करिष्ये । इति सङ्कल्पं पठित्वा भूमौ जलं त्यजेत
भूमि पर जल छोड़ दे । पुनः हाथ में जल लेकर ‘तदङ्गत्वेन’ से ‘आचार्यादि-चरणानि च करिष्ये’ तक संकल्प पढ़कर भूमि पर जल छोड़ दे। फिर हाथ में जल लेकर ‘तत्रादौ ० ‘ से ‘पूजनं करिष्ये’ पर्यन्त संकल्प – वाक्य पढ़ कर पृथ्वी पर जल छोड़े….