शीतलाष्टक स्तोत्र shitlastak stotra pdf download

शीतलाष्टक स्तोत्र shitlastak stotra pdf download

शीतलाष्टकम् ।

श्रीगणेशाय नमः ॥

अस्य श्रीशीतलाष्टकस्तोत्रस्य महादेव ऋषिः, अनुष्टुप् छंदः, शीतला देवता, लक्ष्मीबजम्, भवानी शक्तिः, सर्वविस्फोटक निवृत्तये जपे विनियोगः ॥

ईश्वर उवाच ॥

वंदेऽहं शीतलां देवीं रासभस्थां दिगंबराम् ।

मार्जनीकलशोपेतां शूर्पालंकृतमस्तकाम् ॥ १ ॥

वंदेऽहं शीतलां देवीं सर्वरोगभयापहाम् ।

यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥

शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः ।

विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥

यस्त्वामुदकमध्ये तु धृत्वा पूजयते नरः ।

विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ ४ ॥

शीतले ज्वरदग्धस्य पूतिगंधयुतस्य च ।

प्रनष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् ॥ ५ ॥

शीतलाष्टक स्तोत्र shitlastak stotra pdf download

शीतलाष्टक स्तोत्र shitlastak stotra pdf download
शीतलाष्टक स्तोत्र shitlastak stotra pdf download

शीतले तनुजान्रोगान्नृणां हरसि दुस्त्यजान् ।

विस्फोटकविदीर्णानां त्वमेकामृतवर्षिणी ॥ ६ ॥

गलगंडग्रहा रोगा ये चान्ये दारुणा नृणाम् |

त्वदनुध्यानमात्रेण शीतले यांति संक्षयम् ॥ ७ ॥

न मंत्रो नौषधं तस्य पापरोगस्य विद्यते ।

त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८ ॥

मृणालतंतुसदशीं नाभिहन्मध्यसंस्थिताम् ।

यस्त्वां संचिंतये हे वि तस्य मृत्युर्न जायते ॥ ९ ॥

अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा ।

विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ १० ॥

श्रोतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः ।

उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ ११ ॥

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ।

शीतले त्वं जगद्वात्री शीतलायै नमो नमः ॥ १२ ॥

रासभो गर्दभश्चैव खरो वैशाखनंदनः ।

शीतलावाहनश्चैव दूर्वाकंदनिकृंतनः ॥ १३ ॥

एतानि खरनामानि शीतलाग्रे तु यः पठेत् ।

तस्य गेहे शिशूनां च शीतलारुङ् न जायते ॥ १४ ॥

शीतलाष्टकमेवेदं न देयं यस्यकस्यचित् ।

दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥ १५ ॥

इति श्रीस्कंदपुराणे शीतलाष्टकस्तोत्रं संपूर्णम् ॥

( श्री राम देशिक प्रशिक्षण केंद्र )
भागवत-कथा,शिव-कथा, राम-कथा सीखने के लिए अभी आवेदन करें-
शीतलाष्टक स्तोत्र shitlastak stotra pdf download
शीतलाष्टक स्तोत्र shitlastak stotra pdf download
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment