गणेश पूजन विधि मंत्र सहित gauri ganesh pujan vidhi

Share This Post

गणेश पूजन विधि मंत्र सहित gauri ganesh pujan vidhi

गणेश पूजन विधि मंत्र सहित gauri ganesh pujan vidhi
गणेश पूजन विधि मंत्र सहित gauri ganesh pujan vidhi

अथ देवपूजापद्धतिः प्रारम्भः

प्रात:काल स्नान सन्ध्योपासनादि नित्यकर्म के पश्चात् अथवा शुभ मुहूर्त में सपत्नीक यजमान शुद्धवस्त्र धारण कर ऊन या कुशा के आसन पर पूर्वाभिमुख बैठकर, दीप जलाकर गायत्री या इस मन्त्र से शिखा – बन्धन करे –


ॐ ऊर्ध्वकेशि विरूपाक्ष मांसशोणित भोजने । 
तिष्ठ देवि शिखामध्ये चामुण्डे चापराजिते ॥


यजमान के ललाट पर तिलक करें-

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 
स्वस्ति नस्तार्क्ष्यो Sअरिष्टनेमिः स्वस्ति नो बृहस्पतिर्द्दधातु ॥ |


 बाह्याभ्यन्तरशुद्धिः 


बायें हाथ में जल लेकर दायें हाथ से अपने ऊपर जल छिड़कते हुए निम्नलिखित मन्त्र पढ़ें-

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । 
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ 
पुण्डरीकाक्षः पुनातु–३। 
 
तीन बार आचमन करें-ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः । आचमन के बाद ॐ गोविन्दाय नमः । जल से हाथ धोकर गायत्री मन्त्र से प्राणायाम करें।

जल छिड़क कर इस मन्त्र से आसन शुद्धि करें।

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । 
त्वं च धारय मां देवि पवित्रं कुरु चासनम्॥

आसन के नीचे ॐ भूर्भुवः स्वः शक्राय नमः बोलकर जल से त्रिकोण लिखकर मस्तक पर लगावें ।

gauri ganesh pujan vidhi mantra

  पवित्रीधारणम्

दाहिनी अनामिका में दो कुश की तथा बायीं में तीन की पवित्री धारण करें –


ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः । 
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुनेतच्छकेयम् ॥

 

 स्वस्तिवाचनम् 

ॐ आनो भद्राः क्रतवो यन्तु विश्वतो दब्धासोऽअपरीतास उद्भिदः । 
देवानो यथा सदमिद्वृधेऽअसन्नप्रायुवो रक्क्षितारो दिवे दिवे ॥ 
देवानाम्भद्रा सुमतिर्ऋजूयतां देवानां गुंग रातिरभि नो निवर्त्तताम् । 
देवानां सख्यमुप सेदिमा व्वयन्देवा न आयुः प्रतिरन्तु जीवसे || 
तान्पूर्व्वया निविदा हूमहे व्वयं भगम्मित्रमदितिन्दक्क्षमस्रिधम् । 
अर्यमणं वरुणं गुंग सोममश्विना सरस्वती नः सुभगामयस्करत्॥ 
 
तन्नो व्वातो मयोभु व्वातु भेषजन्तन्माता पृथिवी तत्पिता द्यौः । 
तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतन्धिष्ण्ण्या युवम् ॥
 तमीशानञ्जगतस्तस्त्थुषस्पतिन्धियञ्जिन्वमवसे हूमहे व्वयम् । 
पूषानो यथा व्वेदसामसद्वृधे रक्क्षता पायुरदब्धः स्वस्तये || 
 
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्द्दधातु ॥ 
पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्ग्मयः । 
अग्निजिह्वा मनवः सूरचक्क्षसो विश्वे नो देवाऽअवसागमन्निह ॥ 
 
भद्रंकर्णेभिः शृणुयाम देवा भद्रम्पश्येमाक्षभिर्यजत्राः । 
स्थिरैरङ्गैस्तुष्टुवां गुंग सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ 
 
शतमिन्नुशरदोऽअन्ति देवा यत्रा नश्चक्रा जरसन्तनूनाम् । 
पुत्रासो यत्र पितरो भवन्ति मानो मद्ध्या रीरिषतायुर्गन्तोः ॥ अदितिद्यौरदितिरन्तरिक्क्षमदितिर्माता स -पिता स पुत्रः । 
विश्वेदेवाऽअदितिः पञ्च- जनाऽअदितिर्जातमदितिर्जनित्त्वम् ॥ 
 
द्यौः शान्तिरन्तरिक्क्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्ति । 
वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्व्वं गुंग शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधि ॥ 
यतो यतः समीहसे ततो नोऽअभयं कुरु । 
शन्नः कुरुप्रजाब्भ्योऽभयन्नः पशुब्भ्यः ॥ 
विश्वानि देवसवितर्दुरितानि परासुव । यद्भद्रं तन्नऽआसुव॥
ॐ सिद्धिबुद्धिसहिताय श्रीमन्महागणाधि पतये नमः ॥ ॐ लक्ष्मीनारायणाभ्यान्नमः ॥ ॐ उमामहेश्वराभ्यान्नमः ॥ ॐ वाणीहिरण्य गर्भाभ्यान्नमः ॥ ॐ शचीपुरन्दराभ्यान्नमः ॥ ॐ मातृपितृचरणकमलेभ्यो नमः ॥ ॐ इष्टदेवताभ्यो नमः ॥ ॐ ग्रामदेवताभ्यो नमः ॥ ॐ स्थानदेवताभ्यो नमः ॥ ॐ वास्तु देवताभ्यो नमः ॥ ॐ सर्वेभ्यो देवेभ्यो नमः ॥ ॐ सर्वेभ्यो ब्राह्मणेभ्यो नमः ॥ अविघ्नमस्तु ।। 
 
ॐ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । 
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥ 
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । 
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ 
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ॥ 
संग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ 
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ॥ 
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ 
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । 
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः। 
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । 
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते । 
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् । 
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः॥ 
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । 
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥ 
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः 
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ 
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्द्धरः । 
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । 
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ 
स्मृतेः सकलकल्याणं भाजनं यत्र जायते । 
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ 
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः । 
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः || 
विश्वेशं माधवं दुण्ढिं दण्डपाणिं च भैरवम् । 
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥


कर्मपात्र के नीचे चावल तथा उसके जल में गन्ध अक्षत पुष्प डालकर वरुण और गंगादि नदियों का आवाहन करें ।

gauri ganesh puja vidhi in hindi

ॐ इमम्मे वरुणश्रधि हवमद्या च मृडय । त्वामवस्युराचके ॥ 
 
ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति । 
नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ 
ॐ भूर्भुवः स्वः गङ्गादिसरिद्भ्यो नमः | आवाहयामि ।। 
 
त्रिकुश या दूर्वा के बने पवित्रक से उस जल का आलोडन करें ।

ॐ वरो वरेण्यो वरदो वराहो धरणीधरः । 
आयातु कर्मपात्रेऽस्मिन् सर्वदिक्षु भयापहम् । 
ॐ कर्मपात्रं सुसम्पन्नम् ।।इसी कर्मपात्र के जल से कुशपवित्रक के द्वारा ॐ अपवित्रः पवित्रो वा इस मन्त्र से पूजा की सभी सामग्री तथा स्थान का प्रोक्षण कर इसी जल को सङ्कल्पादि सभी पूजाकार्यों में लें ।

दाहिने हाथ में जल, चन्दन, चावल, पुष्प और दक्षिणा लेकर सङ्कल्प करें ।

budhwar ganesh puja vidhi

 सङ्कल्पः 

 
हरिः ॐ तत्सद्विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणोऽह्नि द्वितीयपरार्द्धे श्रीश्वेतवाराहकल्पे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भूर्लोके भारत वर्षे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तैकदेशे यमुनातटे इन्द्रप्रस्थे अमुकक्षेत्रे अमुकसंवत्सरे अमुक अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अद्य शुभपुण्यतिथौ अमुकगोत्रः अमुकनाम शर्माऽहं ममात्मनः सपरिवारस्य धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्ध्यर्थं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मनसेप्सितसकलकामनासंसिद्ध्यर्थं सकलदुरितोप- शमनपूर्वकम् सुखसौभाग्यसन्तत्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थम् अमुकदेवता प्रीत्यर्थम् अमुककर्म करिष्ये।


ब्राह्मण शर्माहं, क्षत्रिय वर्माहं, वैश्य गुप्तोहं इस प्रकार बोले । दूसरे के लिये किया जाये तो ( अमकनाम्नः प्रतिनिधिभूतोऽहं ) तथा ‘करिष्यामि कहें।

गौरी गणेश पूजा विधि इन हिंदी
पुनः जल लेकर कर्मांग देवताओं के पूजन का संकल्प करें-

तदङ्गत्वेन गणपतिपूजनं कलशार्चनं स्वस्तिपुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धम् आचार्यादिवरणानि अग्निस्थापनपूर्वकं सूर्यादिनवग्रहाणां स्थापनं पूजनं च करिष्ये ।

तत्रादौ दीपपूजनं शंखघण्टार्चनं दिग्रक्षणं च करिष्ये ।

  दीपपूजनम्

ॐ भो दीप ! ब्रह्मरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत्। 
यावत्कर्म समाप्तिः स्यात् तावत्त्वं सन्निधो भव ॥ 
ॐ भूर्भुवः स्वः दीपाधिष्ठातृदेवतायै नमः सकलोपचारार्थे गन्धअक्षतपुष्पाणि समर्पयामि नमस्करोमि ।।
 
प्रार्थना-

भक्त्या दीपं प्रयच्छामि देवाय परमात्मने। 
त्राहि मां निर्याद्घोराद्दीपज्योतिर्नमोस्तुते ॥


  शंखपूजनम्

त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । 
शंखे तिष्ठन्ति विप्रेन्द्र तस्माच्छंखं प्रपूजयेत् ॥

ॐ भूर्भुवः स्वः शंखस्थदेवतायै नमः आवाहयामि । सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ।।

प्रार्थना

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । 
नमितः सर्वदेवैश्च पाञ्चजन्य! नमोस्तुते ||


  घण्टापूजनम्

आगमार्थं देवानां गमनार्थं तु रक्षसाम् ।
घण्टानादं प्रकुर्वीत पश्चाद्घण्टां प्रपूजयेत् ॥ 
ॐ भूर्भुवः स्वः घण्टास्थाय गरुडाय नमः आवाहयामि । सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ।।  दिग् रक्षणम्

अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । 
ये भूता विघ्नकर्त्तारः ते नश्यन्तु शिवाज्ञया ॥ 
अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् । 
सर्वेषामविरोधेन पूजाकर्म समारभे । 
यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः । 
स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु || 
भूतानि राक्षसा वापि येन तिष्ठन्ति केचन । 
तेसर्वेऽप्यपगच्छन्तु पूजाकर्म करोम्यहम् ॥ 
ये श्लोक पढ़ते हुए चारों दिशाओं में पीली सरसों छिड़ककर दिग्रक्षण करें।

gauri ganesh pujan kaise karen

 गणपतिपूजनम्  


आवाहनम् पूगीफल ( मौली लपेटी हुई सुपारी) में- 
अक्षत पुष्प से महागणपति का आवाहन करें-
 
ॐ गणानां त्वा गणपति गुंग हवामहे प्रियाणां त्वा प्रियपतिं गुंग हवामहे निधीनां त्वा निधिपतिं गुंग हवामहे वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम् ॥ 
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय श्रीमहागणपतये नमः । महागणपतिम् आवाहयामि स्थापयामि ॥
   स्थापनम्  
( चावल हाथ में लेकर प्रतिष्ठा करें-)

ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञ गुंग समिमन्दधातु। विश्वे देवा स इह मादयन्तामों ३ प्रतिष्ठ ॥ 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । महागणपतिः वरदो भव ।। यह बोलकर चावल गणेश जी को अर्पित करें । 
 
  ध्यानम्  (हाथ में फूल लेकर)

ॐ सहस्त्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। 
स भूमि गुंग सर्वतस्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम्॥ 
गौरीसुतं सकलविघ्नविनाशकार, लम्बोदरं सुमुखभाषितमेकदन्तम्। 
नागाननं गणपतिं गजकर्णयुक्तं, वैनायकं निखिलदेववरं नमामि।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। ध्यानं समर्पयामि।।

  आसनम्   (हाथ में फूल लेकर )

ॐ पुरुषएवेद गुंग सर्व्वयद्भूतं यच्च भाव्यम् । 
उतामृतत्त्वश्येशानोयदन्नेनातिरोहति ॥ 
 
विचित्र रत्नखचितं दिव्यास्तरणसंयुतम् । 
स्वर्णसिंहासनं चारु गृह्णीष्व सुरपूजित।। 
ॐ भू० सिद्धिबुद्धि सहिताय श्रीमन्महागणपतये नमः। आसनं सम० ॥  पाद्यम्  (पात्र में जल लेकर)

ॐ एतावानस्यमहिमातोज्यायाँश्च पूरुषः । 
पादोऽस्य व्विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ 
 
सर्वतीर्थसमुद्भूतं पाद्यं गन्धादिभिर्युतम् । 
विघ्नराज गृहाणेदं भगवन् भक्तवत्सल ! । 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । पाद्यम् समर्पयामि ।। 
 

ganesh gauri pujan mantra

  अर्घ्यम्  (पात्र में जल लेकर)

ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । 
ततो विष्वव्यक्रामत्साशनानशने अभि ॥ 
 
गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणाकर। 
अर्घ्यं च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम् । । 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । अर्घ्यम् समर्पयामि ।। आचमनीयम्  (पात्र में जल लेकर )

ॐ ततो विराडजायतविराजोऽअधिपूरुषः । 
सजातोऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥

 

विनायक नमस्तुभ्यं त्रिदशैरभिवन्दित । 
गङ्गोदकेन देवेश कुरुष्वाचमनं प्रभो ।। 
ॐ भू० सिद्धिबुद्धि सहिताय श्रीमन्महागणपतये नमः। आचमनीयम् समर्पयामि ॥  स्नानम्  (पात्र में जल लेकर)

ॐ तस्माद्यज्ञात्त्सर्वहुतः सम्भृतम्पृषदाज्यम् । 
पशूंस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ 
 
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् । 
तदिदं कल्पितं देवस्नानार्थं प्रतिगृह्यताम् ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । स्नानम्, समर्पयामि।।  पश्चामृतस्नानम्   

ॐ पञ्चनद्यः सरस्वतीमपियन्ति सस्त्रोतसः । 
सरस्वती तु पञ्चधासो देशेऽभवत्सरित् ॥ 
 
पञ्चामृतं मयानीतं पयोदधिघृतं मधु । 
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । पञ्चामृतस्नानम्, समर्पयामि ।।

गौरी गणेश पूजन की विधि

 शुद्धोदकस्नानम्’


ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त Sआश्विनाः । 
श्येतः श्येताक्षोऽरुणस्तेरुद्राय पशुपतये कर्णायामाऽ
अवलिप्तारौद्रानभो रूपाः पार्ज्जन्याः ॥ 
 
कावेरी नर्मदा वेणी तुङ्गभद्रा सरस्वती । 
गङ्गा च यमुना तोयं मया स्नानार्थमर्पितम् । 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । शुद्धोदकस्नानम् समर्पयामि ॥
 
शुद्धोदक स्नान के बाद गणपति अथर्वशीर्ष से श्री महागणपति का अभिषेक करें ।

  वस्त्रम्

ॐ तस्माद्यज्ञात्सर्वहुतऋचः सामानि यज्ञिरे । 
छन्दां गुंग सि यज्ञिरे तस्माद्यजुस्तस्मादजायत ।
 
 शीतवातोष्णसन्त्राणं लज्जाया रक्षणं परम् । 
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। वस्त्रम् समर्पयामि ।।

gauri ganesh pujan

  यज्ञोपवीतम्

ॐ तस्मादश्वाऽअजायन्त ये केचोभयादतः । 
गावो ह यज्ञिरे तस्मात्तस्माज्जाताऽ अजावयः ॥ 
 
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्। 
उपवीतं मया दत्तं गृहाण परमेश्वर । । 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। यज्ञोपवीतम्, समर्पयामि ।।

  गन्धम्  


ॐ तं यज्ञम्बर्हिषि प्रौक्षन्पुरुषञ्जातमग्रतः । 
तेन देवाऽअयजन्त साध्या ऋषयश्च ये । 
 
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्। 
विलेपनं सुरश्रेष्ठ! चन्दनं प्रतिगृह्यताम् ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। गन्धं समर्पयामि ।।  अक्षताः  

ॐ अक्षन्नमीमदन्तह्यवप्रियाऽअधूषत । 
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विद्र ते हरी ॥ 
 
अक्षताश्च सुरश्रेष्ठाः कुंकुमाक्ताः सुशोभिताः । 
मया निवेदिता भक्त्या गृहाण परमेश्वर ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । अक्षतान् समर्पयामि ।।

gauri ganesh pujan mantra
  पुष्पम्

ॐ यत्पुरुषव्यदधुः कतिधा व्यकल्पयन् । 
मुखङ्किमस्यासीत्किम्बाहू किमूरू पादाऽ उच्येते ॥ 
 
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ! | 
मयाहृतानि पुष्पाणि पूजार्थं प्रति गृह्यताम् । 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। पुष्पं समर्पयामि ।।दूर्वांकुरान्

ॐ काण्डात्काण्डात्प्ररोहन्तीपरुषः परुषस्परि । 
एवानोदूर्वेप्रतनुसहस्त्रेणशतेन च ॥

 

दूर्वांकुरान्सुहरितानमृतान्मङ्गलप्रदान्। 
आनीतांस्तव पूजार्थं गृहाण गणनायक।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। दुर्वांकुरान्सम० ॥  नानापरिमलद्रव्यम्

ॐ अहिरिवभोगैः पर्येति बाहुञ्ज्याया हेतिम्परिबाधमानः। 
हस्तघ्नोव्विश्वावयुनानि विद्वान्पुमान्पुमा गुंग सम्परिपातु विश्वतः || 
 
नानापरिमलैर्द्रव्यैर्निमितं चूर्णमुत्तमम्। 
अबीर नामकं चूर्णं गन्धं चारुप्रगृह्यताम्।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । पुष्पं समर्पयामि।।  धूपम्

ॐ ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः। 
ऊरूतदस्य यद्वैश्यः पद्भ्यां गुंग  शूद्रोऽ अजायत॥ 
 
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः। 
आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम्।।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। धूपम् आघ्रापयामि ।। 

 
  दीपम्  

ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्योऽ अजायत । 
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत॥ 
 
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया। 
दीपं गृहाण देवेश ! त्रैलोक्यतिमिरापहम्।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः | दीपं दर्शयामि ।।

shri ganesh pujan vidhi

  नैवेद्यम्  


ॐ नाभ्याऽआसीदन्तरिक्षथं शीर्णोद्यौः समवर्त्तत । 
पद्भ्याम्भूमिर्द्दिश: श्रोत्रात्तथा लोकाँ२॥ऽअकल्पयन्॥ 
 
शर्कराखण्डखाद्यानि पयो दधिघृतानि च। 
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । नैवेद्यम् समर्पयामि ।।

  ऋतुफलम्

ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः। 
बृहस्पतिप्रसूतास्तानो मुञ्च न्त्वं हसः ॥ 
 
इदं फलं मया देव स्थापितं पुरतस्तव। 
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महा गणपतये नमः। ऋतुफलम् समर्पयामि।।  ताम्बूलम्

ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । 
वसन्तोस्यासीदाज्यङ्ग्रीष्मऽइध्मः शरद्धविः ॥ 
 
पूगीफलमहद्दिव्यं नागवल्लीदलैर्युतम् । 
एलादिचूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम् ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । एलालवङ्गपूगीफलसहितम् ताम्बूलम् समर्पयामि।। 
 
  दक्षिणा (प्रदक्षिणा )

ॐ सप्तास्यासन्परिधयस्त्रिः सप्तसमिध: कृताः । 
देवा यद्यज्ञन्तन्वानाऽअबध्नन्पुरुषं पशुम्॥ 
 
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः। 
अन्नतपुण्यफलदमतः शान्तिं प्रयच्छ मे ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। दक्षिणां प्रदक्षिणां च समर्पयामि ।।

  नीराजनम्

ॐ नमो गणेब्भ्यो गणपतिब्भ्यश्च वो नमो नमो व्रातेब्भ्यो व्रातपतिब्भ्यश्च वो नमो नमो गृत्सेब्भ्यो गृत्सपतिब्भ्यश्च वो नमो नमो विरूपेभ्योविश्वरूपेभ्यश्च वो नमः ॥
 
पञ्चवर्त्तिसमायुक्तं कर्पूरेण समन्वितम् । 
आरार्त्तिकमहं कुर्वे पश्य मे वरदो भव ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । कर्पूरनीराजनं समर्पयामि ।।

गणेश गौरी पूजन विधि

  मन्त्रपुष्पम्  

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। 
ते ह नाकम्महिमानः सचन्त यत्र पूर्वे साद्ध्याः सन्ति देवाः ||
नानासुगन्धिपुष्पाणि ऋतुकालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ! ॥ 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । मन्त्रपुष्पं समर्पयामि।।  विशेषार्घ्यम्  

(अर्घपात्र में जल चन्दन चावल फल फूल दूर्वा दधि द्रव्य लेकर)

रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्य रक्षक! | 
भक्तानामभयं कर्त्ता त्राताभवभवार्णवात् ॥ 
द्वैमातुरकृपासिन्धो ! षाण्मातुराग्रज प्रभो ! | 
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥ 
नेन सफलार्घ्येण सफलोऽस्तु सदा मम ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । विशेषार्घ्यं समर्पयामि ।।

  प्रार्थना  

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय । 
नागाननाय श्रुति यज्ञविभूषिताय गौरीसुताय गणनाथ ! नमो नमस्ते ॥ 
 
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय । 
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महा गणपतये नमः। प्रार्थनापूर्वकं नमस्कारान् सम० ॥ अर्पणम्अनेन कृतेन पूजनेन श्रीमन्महागणपतिः प्रीयतां न मम । तत्सत् परमेश्वरार्पणमस्तु ।।

गणेश पूजन विधि मंत्र सहित gauri ganesh pujan vidhi
गणेश पूजन विधि मंत्र सहित gauri ganesh pujan vidhi , gauri ganesh pujan vidhi, gauri ganesh pujan vidhi, gauri ganesh pujan vidhi, gauri ganesh pujan vidhi, gauri ganesh pujan vidhi, gauri ganesh pujan vidhi,gauri ganesh pujan vidhi, gauri ganesh pujan vidhi, gauri ganesh pujan vidhi, gauri ganesh pujan vidhi, gauri ganesh pujan vidhi, gauri ganesh pujan vidhi, 
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
spot_img

Related Posts

Shiv Puran Katha Notes: Essential Hindu Scripture

Shiv Puran Katha Notes: Essential Hindu Scripture शिव पुराण हिंदू...

रामायण सार- मंगलाचरण ramayan sar hindi

रामायण सार- मंगलाचरण ramayan sar hindi बंदना * नमामि भक्त वत्सलं...

भागवत कहां सिखाई जाती है bhagwat katha classes

भागवत कहां सिखाई जाती है bhagwat katha classes भागवत श्री...

भागवत सप्ताहिक कथा bhagwat saptahik katha PDF

भागवत सप्ताहिक कथा bhagwat saptahik katha PDF     भागवत सप्ताहिक कथा:...

श्री राम कथानक Ram katha Notes

श्री राम कथानक Ram katha Notes   श्री राम कथा, जिसे...

bhagwat bhajan lyrics pdf भागवत भजन माला

bhagwat bhajan lyrics pdf भागवत भजन माला   भागवत भजन माला...
- Advertisement -spot_img