सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf

Share This Post

सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf

सर्वदेव पूजा पद्धति

विषयानुक्रमणिका

१. भूमिका
२. अथ देवपूजापद्धति: प्रारम्भः
३. स्वस्तिवाचनम्
४. सङ्कल्पः
५. गणपतिपूजनम्
६. वरुणकलशपूजनम्
७. षोडशमातृकापूजनम् 

८. सप्तघृतमातृकापूजनम् 
९. आचार्यादिवरणम्
१०. नवग्रहस्थापनम् 
११. अथ होमप्रकरणम् 
अथ परिशिष्टम् 
१२. गणेशाथर्वशीर्षम्
१३. पुण्याहवाचनम्
१४. आयुष्यमन्त्रजपम्
१५. नान्दीमुखश्राद्धम्
१६. अधिप्रत्यधिदेवतालोकपालदिक्पालवास्तुक्षेत्रपालाद्यावाहनपूजनम्
१७. प्रधानदेवतापूजनम्
१८. बलिदानम्
१९. नौ ग्रहों का ध्यान
२०. श्रीनवग्रह-स्तोत्रम्
२१. नवग्रह – कवच
२२. आरती

अथ देवपूजापद्धतिः प्रारम्भः

प्रात:काल स्नान सन्ध्योपासनादि नित्यकर्म के पश्चात् अथवा शुभ मुहूर्त में सपत्नीक यजमान शुद्धवस्त्र धारण कर ऊन या कुशा के आसन पर पूर्वाभिमुख बैठकर, दीप जलाकर गायत्री या इस मन्त्र से शिखा – बन्धन करे –


ॐ ऊर्ध्वकेशि विरूपाक्ष मांसशोणित भोजने । 
तिष्ठ देवि शिखामध्ये चामुण्डे चापराजिते ॥


यजमान के ललाट पर तिलक करें-

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 
स्वस्ति नस्तार्क्ष्यो Sअरिष्टनेमिः स्वस्ति नो बृहस्पतिर्द्दधातु ॥ |


 बाह्याभ्यन्तरशुद्धिः 


बायें हाथ में जल लेकर दायें हाथ से अपने ऊपर जल छिड़कते हुए निम्नलिखित मन्त्र पढ़ें-

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । 
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ 
पुण्डरीकाक्षः पुनातु–३। 
 
तीन बार आचमन करें-

ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः । आचमन के बाद ॐ गोविन्दाय नमः । जल से हाथ धोकर गायत्री मन्त्र से प्राणायाम करें।

जल छिड़क कर इस मन्त्र से आसन शुद्धि करें।

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । 
त्वं च धारय मां देवि पवित्रं कुरु चासनम्॥

आसन के नीचे ॐ भूर्भुवः स्वः शक्राय नमः बोलकर जल से त्रिकोण लिखकर मस्तक पर लगावें ।

  पवित्रीधारणम्

दाहिनी अनामिका में दो कुश की तथा बायीं में तीन की पवित्री धारण करें –


ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः । 
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुनेतच्छकेयम् ॥


 स्वस्तिवाचनम् 

ॐ आनो भद्राः क्रतवो यन्तु विश्वतो दब्धासोऽअपरीतास उद्भिदः । 
देवानो यथा सदमिद्वृधेऽअसन्नप्रायुवो रक्क्षितारो दिवे दिवे ॥ 
देवानाम्भद्रा सुमतिर्ऋजूयतां देवानां गुंग रातिरभि नो निवर्त्तताम् । 
देवानां सख्यमुप सेदिमा व्वयन्देवा न आयुः प्रतिरन्तु जीवसे || 
तान्पूर्व्वया निविदा हूमहे व्वयं भगम्मित्रमदितिन्दक्क्षमस्रिधम् । 
अर्यमणं वरुणं गुंग सोममश्विना सरस्वती नः सुभगामयस्करत्॥ 
 
तन्नो व्वातो मयोभु व्वातु भेषजन्तन्माता पृथिवी तत्पिता द्यौः । 
तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतन्धिष्ण्ण्या युवम् ॥
 तमीशानञ्जगतस्तस्त्थुषस्पतिन्धियञ्जिन्वमवसे हूमहे व्वयम् । 
पूषानो यथा व्वेदसामसद्वृधे रक्क्षता पायुरदब्धः स्वस्तये || 
 
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । 
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्द्दधातु ॥ 
पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्ग्मयः । 
अग्निजिह्वा मनवः सूरचक्क्षसो विश्वे नो देवाऽअवसागमन्निह ॥ 
 
भद्रंकर्णेभिः शृणुयाम देवा भद्रम्पश्येमाक्षभिर्यजत्राः । 
स्थिरैरङ्गैस्तुष्टुवां गुंग सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ 
 
शतमिन्नुशरदोऽअन्ति देवा यत्रा नश्चक्रा जरसन्तनूनाम् । 
पुत्रासो यत्र पितरो भवन्ति मानो मद्ध्या रीरिषतायुर्गन्तोः ॥ अदितिद्यौरदितिरन्तरिक्क्षमदितिर्माता स –पिता स पुत्रः । 
विश्वेदेवाऽअदितिः पञ्च- जनाऽअदितिर्जातमदितिर्जनित्त्वम् ॥ 
 
द्यौः शान्तिरन्तरिक्क्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्ति । 
वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्व्वं गुंग शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधि ॥ 
यतो यतः समीहसे ततो नोऽअभयं कुरु । 
शन्नः कुरुप्रजाब्भ्योऽभयन्नः पशुब्भ्यः ॥ 
विश्वानि देवसवितर्दुरितानि परासुव । यद्भद्रं तन्नऽआसुव॥
ॐ सिद्धिबुद्धिसहिताय श्रीमन्महागणाधि पतये नमः ॥ ॐ लक्ष्मीनारायणाभ्यान्नमः ॥ ॐ उमामहेश्वराभ्यान्नमः ॥ ॐ वाणीहिरण्य गर्भाभ्यान्नमः ॥ ॐ शचीपुरन्दराभ्यान्नमः ॥ ॐ मातृपितृचरणकमलेभ्यो नमः ॥ ॐ इष्टदेवताभ्यो नमः ॥ ॐ ग्रामदेवताभ्यो नमः ॥ ॐ स्थानदेवताभ्यो नमः ॥ ॐ वास्तु देवताभ्यो नमः ॥ ॐ सर्वेभ्यो देवेभ्यो नमः ॥ ॐ सर्वेभ्यो ब्राह्मणेभ्यो नमः ॥ अविघ्नमस्तु ।। 
 
ॐ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । 
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥ 
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । 
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ 
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ॥ 
संग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ 
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ॥ 
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ 
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । 
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः। 
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । 
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते । 
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् । 
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः॥ 
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । 
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥ 
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः 
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ 
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्द्धरः । 
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । 
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ 
स्मृतेः सकलकल्याणं भाजनं यत्र जायते । 
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ 
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः । 
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः || 
विश्वेशं माधवं दुण्ढिं दण्डपाणिं च भैरवम् । 
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥


कर्मपात्र के नीचे चावल तथा उसके जल में गन्ध अक्षत पुष्प डालकर वरुण और गंगादि नदियों का आवाहन करें ।

ॐ इमम्मे वरुणश्रधि हवमद्या च मृडय । त्वामवस्युराचके ॥ 
 
ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति । 
नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ 
ॐ भूर्भुवः स्वः गङ्गादिसरिद्भ्यो नमः | आवाहयामि ।। 
 
त्रिकुश या दूर्वा के बने पवित्रक से उस जल का आलोडन करें ।

ॐ वरो वरेण्यो वरदो वराहो धरणीधरः । 
आयातु कर्मपात्रेऽस्मिन् सर्वदिक्षु भयापहम् । 
ॐ कर्मपात्रं सुसम्पन्नम् ।।

इसी कर्मपात्र के जल से कुशपवित्रक के द्वारा ॐ अपवित्रः पवित्रो वा इस मन्त्र से पूजा की सभी सामग्री तथा स्थान का प्रोक्षण कर इसी जल को सङ्कल्पादि सभी पूजाकार्यों में लें ।

दाहिने हाथ में जल, चन्दन, चावल, पुष्प और दक्षिणा लेकर सङ्कल्प करें ।

 सङ्कल्पः 

 
हरिः ॐ तत्सद्विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणोऽह्नि द्वितीयपरार्द्धे श्रीश्वेतवाराहकल्पे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भूर्लोके भारत वर्षे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तैकदेशे यमुनातटे इन्द्रप्रस्थे अमुकक्षेत्रे अमुकसंवत्सरे अमुक अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अद्य शुभपुण्यतिथौ अमुकगोत्रः अमुकनाम शर्माऽहं ममात्मनः सपरिवारस्य धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्ध्यर्थं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मनसेप्सितसकलकामनासंसिद्ध्यर्थं सकलदुरितोप- शमनपूर्वकम् सुखसौभाग्यसन्तत्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थम् अमुकदेवता प्रीत्यर्थम् अमुककर्म करिष्ये।


ब्राह्मण शर्माहं, क्षत्रिय वर्माहं, वैश्य गुप्तोहं इस प्रकार बोले । दूसरे के लिये किया जाये तो ( अमकनाम्नः प्रतिनिधिभूतोऽहं ) तथा ‘करिष्यामि कहें।


पुनः जल लेकर कर्मांग देवताओं के पूजन का संकल्प करें-

तदङ्गत्वेन गणपतिपूजनं कलशार्चनं स्वस्तिपुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धम् आचार्यादिवरणानि अग्निस्थापनपूर्वकं सूर्यादिनवग्रहाणां स्थापनं पूजनं च करिष्ये ।

तत्रादौ दीपपूजनं शंखघण्टार्चनं दिग्रक्षणं च करिष्ये ।

  दीपपूजनम्

ॐ भो दीप ! ब्रह्मरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत्। 
यावत्कर्म समाप्तिः स्यात् तावत्त्वं सन्निधो भव ॥ 
ॐ भूर्भुवः स्वः दीपाधिष्ठातृदेवतायै नमः सकलोपचारार्थे गन्धअक्षतपुष्पाणि समर्पयामि नमस्करोमि ।। 
 
प्रार्थना-

भक्त्या दीपं प्रयच्छामि देवाय परमात्मने। 
त्राहि मां निर्याद्घोराद्दीपज्योतिर्नमोस्तुते ॥


  शंखपूजनम्

त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । 
शंखे तिष्ठन्ति विप्रेन्द्र तस्माच्छंखं प्रपूजयेत् ॥

ॐ भूर्भुवः स्वः शंखस्थदेवतायै नमः आवाहयामि । सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ।।

प्रार्थना

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । 
नमितः सर्वदेवैश्च पाञ्चजन्य! नमोस्तुते ||


  घण्टापूजनम्

आगमार्थं देवानां गमनार्थं तु रक्षसाम् ।
घण्टानादं प्रकुर्वीत पश्चाद्घण्टां प्रपूजयेत् ॥ 
ॐ भूर्भुवः स्वः घण्टास्थाय गरुडाय नमः आवाहयामि । सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ।।

  दिग् रक्षणम्

अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । 
ये भूता विघ्नकर्त्तारः ते नश्यन्तु शिवाज्ञया ॥ 
अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् । 
सर्वेषामविरोधेन पूजाकर्म समारभे । 
यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः । 
स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु || 
भूतानि राक्षसा वापि येन तिष्ठन्ति केचन । 
तेसर्वेऽप्यपगच्छन्तु पूजाकर्म करोम्यहम् ॥ 
ये श्लोक पढ़ते हुए चारों दिशाओं में पीली सरसों छिड़ककर दिग्रक्षण करें।

 गणपतिपूजनम्  


आवाहनम् पूगीफल ( मौली लपेटी हुई सुपारी) में- 
अक्षत पुष्प से महागणपति का आवाहन करें-
 
ॐ गणानां त्वा गणपति गुंग हवामहे प्रियाणां त्वा प्रियपतिं गुंग हवामहे निधीनां त्वा निधिपतिं गुंग हवामहे वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम् ॥ 
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय श्रीमहागणपतये नमः । महागणपतिम् आवाहयामि स्थापयामि ॥
 
   स्थापनम्  
( चावल हाथ में लेकर प्रतिष्ठा करें-)

ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञ गुंग समिमन्दधातु। विश्वे देवा स इह मादयन्तामों ३ प्रतिष्ठ ॥ 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । महागणपतिः वरदो भव ।। यह बोलकर चावल गणेश जी को अर्पित करें । 
 
  ध्यानम्  (हाथ में फूल लेकर)

ॐ सहस्त्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। 
स भूमि गुंग सर्वतस्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम्॥ 
 
गौरीसुतं सकलविघ्नविनाशकार, लम्बोदरं सुमुखभाषितमेकदन्तम्। 
नागाननं गणपतिं गजकर्णयुक्तं, वैनायकं निखिलदेववरं नमामि।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। ध्यानं समर्पयामि।।

  आसनम्   (हाथ में फूल लेकर )

ॐ पुरुषएवेद गुंग सर्व्वयद्भूतं यच्च भाव्यम् । 
उतामृतत्त्वश्येशानोयदन्नेनातिरोहति ॥ 
 
विचित्र रत्नखचितं दिव्यास्तरणसंयुतम् । 
स्वर्णसिंहासनं चारु गृह्णीष्व सुरपूजित।। 
ॐ भू० सिद्धिबुद्धि सहिताय श्रीमन्महागणपतये नमः। आसनं सम० ॥

  पाद्यम्  (पात्र में जल लेकर)

ॐ एतावानस्यमहिमातोज्यायाँश्च पूरुषः । 
पादोऽस्य व्विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ 
 
सर्वतीर्थसमुद्भूतं पाद्यं गन्धादिभिर्युतम् । 
विघ्नराज गृहाणेदं भगवन् भक्तवत्सल ! । 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । पाद्यम् समर्पयामि ।। 
 
  अर्घ्यम्  (पात्र में जल लेकर)

ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । 
ततो विष्वव्यक्रामत्साशनानशने अभि ॥ 
 
गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणाकर। 
अर्घ्यं च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम् । । 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । अर्घ्यम् समर्पयामि ।।

 आचमनीयम्  (पात्र में जल लेकर )

ॐ ततो विराडजायतविराजोऽअधिपूरुषः । 
सजातोऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥


विनायक नमस्तुभ्यं त्रिदशैरभिवन्दित । 
गङ्गोदकेन देवेश कुरुष्वाचमनं प्रभो ।। 
ॐ भू० सिद्धिबुद्धि सहिताय श्रीमन्महागणपतये नमः। आचमनीयम् समर्पयामि ॥

  स्नानम्  (पात्र में जल लेकर)

ॐ तस्माद्यज्ञात्त्सर्वहुतः सम्भृतम्पृषदाज्यम् । 
पशूंस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ 
 
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् । 
तदिदं कल्पितं देवस्नानार्थं प्रतिगृह्यताम् ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । स्नानम्, समर्पयामि।।

  पश्चामृतस्नानम्   

 
ॐ पञ्चनद्यः सरस्वतीमपियन्ति सस्त्रोतसः । 
सरस्वती तु पञ्चधासो देशेऽभवत्सरित् ॥ 
 
पञ्चामृतं मयानीतं पयोदधिघृतं मधु । 
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । पञ्चामृतस्नानम्, समर्पयामि ।।

 शुद्धोदकस्नानम्’


ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त Sआश्विनाः । 
श्येतः श्येताक्षोऽरुणस्तेरुद्राय पशुपतये कर्णायामाऽ
अवलिप्तारौद्रानभो रूपाः पार्ज्जन्याः ॥ 
 
कावेरी नर्मदा वेणी तुङ्गभद्रा सरस्वती । 
गङ्गा च यमुना तोयं मया स्नानार्थमर्पितम् । 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । शुद्धोदकस्नानम् समर्पयामि ॥
 
शुद्धोदक स्नान के बाद गणपति अथर्वशीर्ष से श्री महागणपति का अभिषेक करें । 

  वस्त्रम्

ॐ तस्माद्यज्ञात्सर्वहुतऋचः सामानि यज्ञिरे । 
छन्दां गुंग सि यज्ञिरे तस्माद्यजुस्तस्मादजायत ।
 
 शीतवातोष्णसन्त्राणं लज्जाया रक्षणं परम् । 
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। वस्त्रम् समर्पयामि ।।

  यज्ञोपवीतम्

ॐ तस्मादश्वाऽअजायन्त ये केचोभयादतः । 
गावो ह यज्ञिरे तस्मात्तस्माज्जाताऽ अजावयः ॥ 
 
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्। 
उपवीतं मया दत्तं गृहाण परमेश्वर । । 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। यज्ञोपवीतम्, समर्पयामि ।।

  गन्धम्  


ॐ तं यज्ञम्बर्हिषि प्रौक्षन्पुरुषञ्जातमग्रतः । 
तेन देवाऽअयजन्त साध्या ऋषयश्च ये । 
 
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्। 
विलेपनं सुरश्रेष्ठ! चन्दनं प्रतिगृह्यताम् ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। गन्धं समर्पयामि ।।

  अक्षताः  

ॐ अक्षन्नमीमदन्तह्यवप्रियाऽअधूषत । 
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विद्र ते हरी ॥ 
 
अक्षताश्च सुरश्रेष्ठाः कुंकुमाक्ताः सुशोभिताः । 
मया निवेदिता भक्त्या गृहाण परमेश्वर ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । अक्षतान् समर्पयामि ।।

  पुष्पम्

ॐ यत्पुरुषव्यदधुः कतिधा व्यकल्पयन् । 
मुखङ्किमस्यासीत्किम्बाहू किमूरू पादाऽ उच्येते ॥ 
 
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ! | 
मयाहृतानि पुष्पाणि पूजार्थं प्रति गृह्यताम् । 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। पुष्पं समर्पयामि ।।

  दूर्वांकुरान्

 
ॐ काण्डात्काण्डात्प्ररोहन्तीपरुषः परुषस्परि । 
एवानोदूर्वेप्रतनुसहस्त्रेणशतेन च ॥


दूर्वांकुरान्सुहरितानमृतान्मङ्गलप्रदान्। 
आनीतांस्तव पूजार्थं गृहाण गणनायक।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। दुर्वांकुरान्सम० ॥

  नानापरिमलद्रव्यम्

ॐ अहिरिवभोगैः पर्येति बाहुञ्ज्याया हेतिम्परिबाधमानः। 
हस्तघ्नोव्विश्वावयुनानि विद्वान्पुमान्पुमा गुंग सम्परिपातु विश्वतः || 
 
नानापरिमलैर्द्रव्यैर्निमितं चूर्णमुत्तमम्। 
अबीर नामकं चूर्णं गन्धं चारुप्रगृह्यताम्।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । पुष्पं समर्पयामि।।

  धूपम्

ॐ ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः। 
ऊरूतदस्य यद्वैश्यः पद्भ्यां गुंग  शूद्रोऽ अजायत॥ 
 
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः। 
आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम्।।

ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। धूपम् आघ्रापयामि ।। 

 
  दीपम्  

ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्योऽ अजायत । 
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत॥ 
 
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया। 
दीपं गृहाण देवेश ! त्रैलोक्यतिमिरापहम्।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः | दीपं दर्शयामि ।।

  नैवेद्यम्  


ॐ नाभ्याऽआसीदन्तरिक्षथं शीर्णोद्यौः समवर्त्तत । 
पद्भ्याम्भूमिर्द्दिश: श्रोत्रात्तथा लोकाँ२॥ऽअकल्पयन्॥ 
 
शर्कराखण्डखाद्यानि पयो दधिघृतानि च। 
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । नैवेद्यम् समर्पयामि ।।

  ऋतुफलम्

ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः। 
बृहस्पतिप्रसूतास्तानो मुञ्च न्त्वं हसः ॥ 
 
इदं फलं मया देव स्थापितं पुरतस्तव। 
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महा गणपतये नमः। ऋतुफलम् समर्पयामि।।

  ताम्बूलम्

ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । 
वसन्तोस्यासीदाज्यङ्ग्रीष्मऽइध्मः शरद्धविः ॥ 
 
पूगीफलमहद्दिव्यं नागवल्लीदलैर्युतम् । 
एलादिचूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम् ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । एलालवङ्गपूगीफलसहितम् ताम्बूलम् समर्पयामि।। 
 
  दक्षिणा (प्रदक्षिणा )

ॐ सप्तास्यासन्परिधयस्त्रिः सप्तसमिध: कृताः । 
देवा यद्यज्ञन्तन्वानाऽअबध्नन्पुरुषं पशुम्॥ 
 
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः। 
अन्नतपुण्यफलदमतः शान्तिं प्रयच्छ मे ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः। दक्षिणां प्रदक्षिणां च समर्पयामि ।।

  नीराजनम्

ॐ नमो गणेब्भ्यो गणपतिब्भ्यश्च वो नमो नमो व्रातेब्भ्यो व्रातपतिब्भ्यश्च वो नमो नमो गृत्सेब्भ्यो गृत्सपतिब्भ्यश्च वो नमो नमो विरूपेभ्योविश्वरूपेभ्यश्च वो नमः ॥
 
पञ्चवर्त्तिसमायुक्तं कर्पूरेण समन्वितम् । 
आरार्त्तिकमहं कुर्वे पश्य मे वरदो भव ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । कर्पूरनीराजनं समर्पयामि ।।

  मन्त्रपुष्पम्  

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। 
ते ह नाकम्महिमानः सचन्त यत्र पूर्वे साद्ध्याः सन्ति देवाः ||
नानासुगन्धिपुष्पाणि ऋतुकालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ! ॥ 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । मन्त्रपुष्पं समर्पयामि।।

  विशेषार्घ्यम्  

(अर्घपात्र में जल चन्दन चावल फल फूल दूर्वा दधि द्रव्य लेकर)

रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्य रक्षक! | 
भक्तानामभयं कर्त्ता त्राताभवभवार्णवात् ॥ 
द्वैमातुरकृपासिन्धो ! षाण्मातुराग्रज प्रभो ! | 
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥ 
नेन सफलार्घ्येण सफलोऽस्तु सदा मम ।। 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । विशेषार्घ्यं समर्पयामि ।।

  प्रार्थना  

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय । 
नागाननाय श्रुति यज्ञविभूषिताय गौरीसुताय गणनाथ ! नमो नमस्ते ॥ 
 
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय । 
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ 
ॐ भू० सिद्धिबुद्धिसहिताय श्रीमन्महा गणपतये नमः। प्रार्थनापूर्वकं नमस्कारान् सम० ॥ अर्पणम्

अनेन कृतेन पूजनेन श्रीमन्महागणपतिः प्रीयतां न मम । तत्सत् परमेश्वरार्पणमस्तु ।।

वरुणकलशपूजनम्

दाएं हाथ से कलश का स्पर्श करें-

ॐ महीद्यौः पृथिवी च न ऽइमं यज्ञं मिमिक्षताम् । पिपृतान्नो भरीमभिः ||

  सप्तधान्य

ॐ ओषधयः समवदन्त सोमेन सह राज्ञा । 
यस्मै कृणोति ब्राह्मणस्तर्वं राजन् पारयामसि ॥


  कलशस्थापन

ॐ आजिघ्रकलशम्मह्यात्वाविशन्त्विन्दवः । 
पुनरूर्जानिवर्त्तस्वसानः सहस्त्रन्धुक्ष्वोरुधारा पयस्वती पुनर्माविशताद्रयिः ॥


  कलश में जल

ॐ व्वरुणस्योत्तम्भनमसि व्वरुणस्यस्कम्भसर्जनी स्थोव्वरुणस्यऽ ऋतसदन्यसि व्वरुणस्यऽऋतसदनमसि व्वरुणस्य ऋत सदनमासीद ॥

  कलश में चन्दन

ॐ त्वाङ्गन्धर्वाऽअखनस्त्वामिन्द्रस्त्वाम्बूहस्पतिः । 
त्वामोषधेसोमो राजाविद्वान्यक्ष्माद- मुच्यत ॥


  कलश में सर्वोषधि

ॐ याऽओषधीः पूर्वाजाता देवेभ्य स्त्रियुगं पुरा । 
मनैनुबभ्रूणामह शतन्धामानि सप्त च ॥


  कलश में दूर्वा

ॐ काण्डात्काण्डात्प्ररोहन्तीपरुषः परुषस्परि । 
एवानोदूर्वेप्रतनुसहस्त्रेणशतेन च ॥


  कलश में पश्चपल्लव

ॐ अश्वत्थेवोनिषदनम्पर्णेवोव्वसतिष्कृता । 
गोभाजइत्किलासथयत्सनवथपूरुषम्॥


  कलश में सप्तमृत्तिका

ॐ स्योनापृथिवीनोभवानृक्षरानिवेशनी । यच्छानः शर्म्मसप्रथाः ॥

 कलश में सुपारी

ॐ याः फलिनीर्याऽअफला अपुष्पायाश्च पुष्पिणीः । 
बृहस्पतिप्रसूतास्तानो मुञ्चन्त्व गुंग हसः ॥


  कलश में पश्चरत्न

ॐ परिवाजपतिः कविरग्निर्हव्यान्यक्रमीत्। दधद्रत्नानिदाशुषे ॥


  कलश में स्वर्ण  

 
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । 
सदाधार पृथिवींद्यामुतेमां कस्मै देवाय हविषा विधेम ॥


 कलश में वस्त्र 


ॐ सुजातोज्योतिषासहशर्म्मव्वरूथमा सदत्स्वः। 
व्वासोऽअग्नेव्विश्वरूपं गुंग संव्ययस्व विभावसो ॥


 कलश में नारियल सहित पूर्णपात्र

ॐ पूर्णादर्व्विपरापतसुपूर्णापुनरापत। 
वस्नेवविक्रीणावहाऽइषमूर्जं गुंग शतक्रतो |

 वरुण का आवाहन

ॐ तत्त्वायामिब्रह्मणाव्वन्दमानस्तदाशास्ते यजमानोहविर्भिः । 
अहेडमानो वरुणेह बोध्युरुश गुंग समान आयुः प्रमोषीः ॥ 
वरुणाय नमः। वरुणमावाहयामि स्थापयामि ||

कलश में देवता, नदियों तथा तीर्थों का आवाहन करें- 

 
कलशस्य मुखेविष्णुः कण्ठे रुद्रः समाश्रितः । 
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ 
कुक्षौ तु सागरा सप्त सप्तद्वीपा वसुन्धरा । 
अर्जुनी गोमती चैव चन्द्रभागा सरस्वती ॥ 
कावेरी कृष्णवेणा च गङ्गा चैव महानदी । 
तापी गोदावरी चैव माहेन्द्री नर्मदा तथा ॥ 
नदाश्च विविधा जाता नद्यः सर्वास्तथा पराः । 
पृथिव्यां यानि तीर्थानि कलशस्थानि तानि वै ॥ 
सर्वे समुद्राः सरितः तीर्थानि जलदा नदाः । 
आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ॥ 
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः । 
अद्वैश्च सहिताः सर्वे कलशन्तु समाश्रिताः ॥ 
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा । 
आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ॥


आवाहन के पश्चात् हाथ में चावल लेकर वरुण की प्रतिष्ठा करें-

ॐ मनोजूति०॥ कलशे वरुणाय नमः। वरुणः सुप्रतिष्ठितो वरदो भव।। वरुण का पूर्वोक्त विधि के अनुसार षोडशोपचार या पंचोपचार’ पूजन कर प्रार्थना करें-

देवदानवसंवादे मथ्यमानेमहोदधौ। 
उत्पन्नो ऽसि तदा कुम्भ विधुतो विष्णुना स्वयम् ॥ 
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः । 
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ 
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः। 
आदित्या वसवो रुद्रा विश्वे देवाः सपैतृकाः॥ 
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः । 
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव | 
सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा ॥ 
नमो नमस्ते स्फटिक प्रभाय सुश्वेतहाराय सुमङ्गलाय । 
सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते ॥

गन्धपुष्पे धूपदीपौ नैवेद्यं तथैव च । 

गन्ध, पुष्प, धूप, दीप और नैवेद्य अर्पण कर प्रार्थना करना ही पंचोपचार है।

  अर्पणम्

अनेन कृतेन पूजनेन कलशस्थश्रीवरुणः प्रीयतां न मम ।

षोडशमातृकापूजनम्

१६अक्षत पुञ्जों में एक-एक चावल छोड़ते हुए नाम मन्त्र से गणपति पूर्वक गौरी आदि १६ मातृकाओं का आवाहन एवं स्थापन करें।

 आवाहनम्

ॐ गणपतये नमः गणपतिमावाहयामि । 

ॐ गौर्यै नमः गौरीमावा० । 
पद्मायै नमः पद्मामावा०। 
ॐ शच्यै नमः शचीमावा० । 
ॐ मेधायै नमः मेधामावा० । 
ॐ सावित्र्यै नमः सावित्रीमावा० । 
ॐ विजयायै नमः विजयामावा० । 
ॐ जयायै नमः जयामावा० ।
ॐ देवसेनायै नमः देवसेनामावा० । 
ॐ स्वधायै नमः स्वधामावा० । 
ॐ स्वाहायै नमः स्वाहामावा०। 
ॐ मातृभ्यो नमः मातृः आवा०। 
ॐ लोकमातृभ्यो नमः लोकमातृः आवा० । 
ॐ हृष्ट्यै नमः हृष्टिमावा० । 
ॐ पुष्ट्यै नमः पुष्टिमावा० । 
ॐ तुष्ट्यै नमः तुष्टिमावा०। 
ॐ आत्मनः कुलदेवतायै नमः आत्मनः कुलदेवतामावाहयामि ।।

यथाशक्ति पंचोपचार या षोडशोपचार पूजन के पश्चात् पुष्प लेकर प्रार्थना करें।

ॐ गौरी पद्मा शची मेधा सावित्री विजया जया। 
देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ 
हृष्टिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता ॥ 
गणेशेनाधिका ह्येता वृद्धौ पूज्याश्च षोडश ॥ 
गणेशपूर्वक गौर्यादिषोडशमातृकाभ्यो नमः । प्रार्थनापूर्वकं नमस्कारान् समर्पयामि ।।

  अर्पणम्  
(जल लेकर भूमि पर छोड़ें) 
अनेन कृतेन पूजनेन गणेशपूर्वकगौर्यादिषोडशमातरः प्रीयन्तां न मम ।

सप्तघृतमातृकापूजनम्

  आवाहनम्

ॐ श्रियै नमः श्रियमावाहयामि स्थापयामि । 

ॐ लक्ष्म्यै नमः लक्ष्मीमावा० । 
ॐ धृत्यै नमः धृतिमावा० । 
ॐ मेधायै नमः मेधामावा० । 
ॐ स्वाहायै नमः स्वाहामावा० । 
ॐ प्रज्ञायै नमः प्रज्ञामावा०। 
ॐ सरस्वत्यै नमः सरस्वतीमावाहयामि ।।

यथाशक्ति पंचोपचार या षोडशोपचार पूजन कर प्रार्थना करें-

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषुबुद्धिः । 
श्रद्धा सतां कुलजनप्रभवस्य लज्जा 
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ 
श्रियादिसप्तघृतमातृभ्यो नमः । प्रार्थनापूर्वक नमस्कारान् समर्पयामि।।

 अर्पणम्  (जल लेकर भूमि पर छोड़ें )

अनेन कृतेन पूजनेन श्रियादिसप्तघृतमातरः प्रीयन्तां न मम ।।

आचार्यादिवरणम्

जलाक्षतदक्षिणावस्त्रादि लेकर आचार्यादि ब्राह्मणों का वरण संकल्प करें-

अमुकगोत्रः अमुकशर्मा यजमानः अस्मिन् अमुककर्मणि एभिः वरणद्रव्यैः आचार्यत्वेन (ब्रह्मत्वेन, ऋत्विक्त्वेन…… ) त्वामहं वृणे । वृतोऽस्मि ॥

यजमान ब्राह्मणों की गन्धाक्षतपुष्प से पूजा कर वरण करे-

ॐ बृहस्पतेऽअतियदर्योऽअर्हाद्दुमद्विभाति क्रतुमज्जनेषु । 
यद्दीदयच्छवसऽ ऋत प्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥ 
 
नमोऽस्त्वन्नताय सहस्रमूर्तये सहस्रपादाक्षि-शिरोरुबाहवे । 
सहस्रानाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः । 
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । 
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ।।


ब्राह्मणों के हाथ में इस मन्त्र से मौली बाँधें-

ॐ व्रतेन दीक्षामाप्नोति दीक्षयाऽऽप्नोति दक्षिणाम् । 
दक्षिणा श्रद्धामाप्नोति श्रद्धया सत्यमाप्यते ॥


आचार्य यजमान का इस मन्त्र से रक्षाबन्धन करें-

येन बद्धो बली राजा दानवेन्द्रो महाबलः । 
तेन त्वामनुबध्नामि रक्षे मा चल मा चल ।


  अग्निस्थापनम्

तीन कुशाओं से हवन वेदी पर मार्जनकर ईशान में छोड़ दें। गोमय और जल से वेदी का लेपन करें । स्रुवा से तीन रेखा करें। रेखा के ऊपर की मिट्टी उठाकर ईशान में छोड़ दें। तीनों रेखाओं के ऊपर जल छोड़ें। पञ्चभूसंस्कार पूर्वक अग्नि का स्थापन करें-

ॐ अग्निदूतं पुरोदधे हव्यवाहमुपब्रुवे । 
देवाँऽआसादयादिह ॥ 
वरदनामाग्नये नमः आवाहयामि स्थापयामि । सकलोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि।।

नवग्रहस्थापनम्

  सूर्यस्यावाहनम्  


ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यश्च । 
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्॥ 
 
जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् । 
तमोऽरिं सर्वपापघ्नं सूर्यमावाहयाम्यहम्। 
सूर्याय नमः सूर्यमावाहयामि, स्थापयामि ।।

  चन्द्रावाहनम्  


ॐ इमन्देवाअसपत्नं गुंग सुवध्वम्महतेक्षत्राय महते 
ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय । 
इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी 
राजा सोमो ऽस्माकं ब्राह्मणाना गुंग राजा । 
 
दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम् । 
नमामि शशिनं सोमं चन्द्रमावाहयाम्यहम्।। 
चन्द्रमसे नमः। चन्द्रमसमावाहयामि ।।

  मङ्गलावाहनम्

ॐ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या ऽअयम् । 
अपा गुंग  रेता गुंग सि जिन्न्वती॥ 
 
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् । 
कुमारं शक्तिहस्तं च भौममावाहयाम्यहम् ।। 
भौमाय नमः। भौममावाहयामि ।।

  बुधावाहनम्

ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते स गुंग सृजेथामयञ्च । 
अस्मिन्त्सधस्थेऽ अध्युत्तरस्मिन्विश्वेदेवा यजमानश्च सीदत ॥ 
 
प्रियङ्गकलिकाश्यामं रूपेणाप्रतिमं बुधम् । 
सौम्यं सौम्यगुणोपेतं बुधमावाहयाम्यहम् || 
बुधाय नमः। बुधमावाहयामि ।।

  बृहस्पत्यावाहनम्

ॐ बृहस्पतेऽअतियदर्योऽअर्हादद्युमद्विभाति क्रतुमज्जनेषु । 
यद्दीदयच्छवसऽऋत प्रजाततदस्मासु द्रविणं धेहि चित्रम् ॥ 
 
देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्। 
बुद्धिभूतं त्रिलोकेशं गुरुमावाहयाम्यहम् ।। 
गुरवे नमः । गुरुमावाहयामि ।।

  शुक्रस्यावाहनम्

ॐ अन्नात्परिस्स्रुतो रसं ब्रह्मणा व्यपिबत्क्षत्रं पयः सोमं प्रजापतिः । 
ऋतेन सत्त्यमिन्द्रियं विपानं शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयो ऽमृतं मधु ॥ 
 
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्। 
सर्वशास्त्रप्रवक्तारं शुक्रमावाहयाम्यहम्।। 
शुक्राय नमः | शुक्रमावाहयामि ।।


  शनैश्चरावाहनम्  


ॐ शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये | 
शंयोरभिस्स्रवन्तु नः ॥ 
 
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् । 
छायामार्तण्डसम्भूतं शनिमावाहयाम्यहम्।। 
शनैश्चराय नमः । शनैश्चरमावाहयामि ||

  राहोरावाहनम्

ॐ कया नश्चित्र आभुवदूती सदा वृधः सखा । कया शचिष्ठयावृता ॥ 
 
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्। 
सिंहिकागर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ।। 
राहवे नमः । राहुमावाहयामि ।।

  केतोरावाहनम्

ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे । 
समुषद्भिरजायथाः ॥ 
 
पालाशपुष्पसङ्काशं तारकाग्रहमस्तकम्। 
रौद्रं रौद्रात्मकं घोरं केतुमावाहयाम्यहम्।। 
केतवे नमः। केतुमावाहयामि ।।

  प्रतिष्ठापनम् ‘

ॐ मनोजूति० सूर्यादिनवग्रहेभ्यो नमः । सूर्यादिनवग्रहाः सुप्रतिष्ठिता वरदा भवन्तु ।। सूर्यादिनवग्रहपूजा कर प्रार्थना करें-

  प्रार्थना

ॐ ब्रह्मामुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च । 
गुरुश्च शुक्रः शनिराहु- केतवः सर्वे ग्रहाः शान्तिकरा भवन्तु ॥ 
सूर्यादि नवग्रहेभ्यो नमः । प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।।

  अर्पणम्

अनेन कृतेन पूजनेन सूर्यादिनवग्रहाः प्रीयन्ताम् ।।

अथ होमप्रकरणम्

हवन सामग्री – हवन के लिए सबसे अधिक तिल, तिल से आधे चावल, चावल से आधे जौ, जौ से आधी शक्कर और घी इतना होवे कि सब सामग्री , उसमें मिल जावे । मेवा यथाशक्ति लें।
 

  कुशकण्डिका

यजमान या आचार्य अग्नि (होम वेदी) के दक्षिण में ब्रह्मा को आसन पर बैठाकर त्वं ब्रह्मा भव ऐसा कहे तथा ब्रह्मा भवामि कहे । 

 
उत्तर में प्रथम कुशपत्र के आसन पर प्रणीता पात्र रखकर ब्रह्मा की आज्ञा से उसमें जल भरकर कुशा से ढक दे। फिर ब्रह्मा का मुख देखकर द्वितीय आसन पर रखें। 
 
अग्नि के चारों ओर एक-एक कुशा बिछाकर उत्तर दिशा में होम के लिए उपयोगी सभी सामग्री क्रमशः रख लें।

जैसे – कुशा पवित्रछेदनार्थ, प्रोक्षणीपात्र, आज्यस्थाली (घृतपात्र), चरुस्थाली’ पाँच सम्मार्जन कुशा, सात उपयमन कुशा, तीन समिधाएँ, स्रुवा, घी, पूर्णपात्र, नवग्रहसमिधा और हवनसामग्री आदि उपयोगी वस्तुएँ। 

 
दो कुशाओं के ऊपर तीन कुशा रखकर दो कुशाओं को जड़ से घुमाकर अनामिका और अंगुष्ठ से तीन कुशाओं को तोड़कर त्याग दें तथा दो को ग्रहण कर प्रणीता से जल लेकर तीन बार प्रोक्षणी में डालें। 
 
उस जल को कुशपवित्र से तीन बार उछालें। प्रोक्षणी को बायें हाथ में लेकर दाहिने से उस प्रोक्षणी जल को ऊपर उछालें। प्रणीता जल से प्रोक्षणी का प्रोक्षण करें। फिर प्रोक्षणी जल से सभी वस्तुओं का प्रोक्षण करें। 
 
प्रोक्षण के पश्चात् प्रोक्षणी को असञ्चर स्थान (प्रणीता और अग्नि के बीच) में रखें। घृतपात्र में घी डालकर अग्नि पर चढ़ावें । जलती हुई लकड़ी को हवन वेदी के चारों ओर सीधा घुमाकर पुनः उलटा घुमावें।

तत्पश्चात् अधो मुख स्रुवा को अनि में तपाकर सम्मार्जन कुशा के अग्रभाग से मुख का तथा मूल से बाहरी भाग का मार्जन कर प्रणीता जल से प्रोक्षण करें तथा संमार्जन कुशा अग्नि में छोड़ दें। 

 
अग्नि से घृतपात्र को उतार कर घी को कुशा से उछालें तथा उसमें देखें कि कुछ गिरा हो तो निकाल कर कुशा से प्रोक्षणी जल को उछालें। सात उपयमन कुशा बायें हाथ में ले खड़े होकर दाहिने हाथ से घी में भीगी हुई तीन समिधाएँ मन से अग्नि में छोड़ें। 
 
दाहिने हाथ में प्रोक्षणी लेकर जल छोड़ते हुए अग्नि के चारों ओर सीधा घुमाकर पुनः उल्टा घुमावें । कुश पवित्र को प्रणीता में रख दाहिना घुटना झुकाकर, ब्रह्मा से कुशा या मौली से संबन्ध कर, जलती हुई अग्नि में निम्नलिखित मन्त्रों से घी की आहुति दें । आहुति से बचे हुए घी का बिन्दु इदं न मम कहकर प्रोक्षणी में डालें-

ॐ प्रजापतये स्वाहा ( मन में बोलकर), इदं प्रजापतये न मम ॥
ॐ इन्द्राय स्वाहा । इदमिन्द्राय न मम ॥ 

ॐ अग्नये स्वाहा । इदमग्नये न मम ॥ 
ॐ सोमायस्वाहा । इदं सोमाय न मम । इत्याघाराज्यभागौ ॥

गणेश जी को एक आहुति दें-

ॐ गणानान्त्वा० स्वाहा ॥

नवग्रहों को नवग्रह समिधाओं से आहुति दें। 

ॐ आ कृष्णेन० स्वाहा ॥ 
ॐ इमन्देवा० स्वाहा॥ 
ॐ अग्निर्मूर्द्धा० स्वाहा ॥
ॐ उद्बुध्यस्वाग्ने० स्वाहा॥
ॐ बृहस्पते० स्वाहा॥ 
ॐ अन्नात्परिस्स्रुतो० स्वाहा ॥ 
ॐ शन्नो देवी० स्वाहा ॥ 
ॐ कया नश्चित्र० स्वाहा ||
ॐ केतुं कृण्वन्न० स्वाहा ॥

तत्पश्चात् आवाहित देवों तथा प्रधान देव की आहुति देकर, अग्नि पूजन करके स्विष्टकृद् होम तथा प्रायश्चित्त नवाहुति करें-

ॐ अग्नये स्विष्टकृते स्वाहा । इदं अग्नये स्विष्टकृते न मम ।।
ॐ भूः स्वाहा। इदमग्नये न मम ।। 

ॐ भुवः स्वाहा । इदं वायवे न मम ।। 
ॐ स्वः स्वाहा। इदं सूर्याय न मम ।।

ॐ त्वन्नोऽअग्ने वरुणस्य विद्वान्देवस्यहेडो ऽअवयासिसीष्ठाः । 
यजिष्ठो वह्नितमः शोशुचानो विश्वाद्वेषा गुंग सि प्रमुमुग्ध्यस्मत् स्वाहा ॥ 
इदमग्नीवरुणाभ्यां न मम ।।

ॐ सत्वन्नोऽअग्नेऽवमोभवोतीनेदिष्ठोऽ अस्याऽउषसो व्युष्टौ । 
अवयवनो वरुण गुंग रराणोवीहिमृडीक गुंग सुहवोन एधि स्वाहा || 
इदमग्नीवरुणाभ्यां न मम ।।

ॐ अयाश्चाग्नेऽस्यनभिशस्तिपाश्च सत्वमित्वमयाऽअसि । 
अयानो यज्ञं वहास्ययानो धेहि भेषज गुंग स्वाहा ॥ 
इदमग्नये असे न मम ।।

ॐ ये ते शतं वरुण ये सहस्त्रं यज्ञियाः पाशा विततामहान्तः । 
तेभिन्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा ॥ 
इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च न मम ।।

ॐ उदुत्तमं वरुणपाशमस्मदवाधमं विमध्यमं श्रथाय । 
अथावयमादित्यव्रते तवानागसोऽअदितये स्याम स्वाहा ॥ 
इदं वरुणायादित्यायादितये च न मम ।।

ॐ प्रजापतये स्वाहा। इदं प्रजापतये न मम ॥

  पूर्णाहुतिहोम:

स्रुचि (पात्र) में घी और सामग्री से युक्त नारियल या सुपारी लेकर पूर्णाहुति करें-

ॐ मूर्द्धानन्दिवोऽअरतिंपृथिव्या वैश्वानरमृतऽआजातमग्निम्। 
कवि गुंग सम्म्राजमतिथिं जनानामासन्नापात्रञ्जनयन्तदेवाः॥ 
 
पूर्णादर्व्वि परापत सुपूर्णा पुनरापत । 
व्वस्नेव विक्रीणावहाऽइषमूर्जं गुंग शतक्रतो स्वाहा || 
इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यः शतक्रतवे सप्तवते अग्नये अद्भ्यश्च न मम।।

ॐ वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्त्रधारम् । 
देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा कामधुक्षः स्वाहा॥ 
इदमग्नये वैश्वानराय न मम।।

  भस्मधारणम्

ॐ त्र्यायुषं जमदग्नेः ललाट में। 

कश्यपस्य त्र्यायुषम् ग्रीवा में । 
यद्देवेषु त्र्यायुषम् दक्षिण और वाम भुजा में। 
तन्नोऽअस्तुत्र्यायुषम् हृदय में।

प्रोक्षणी पात्र में रखा हुआ घी यजमान को खिलाकर आचमन करायें । तत्पश्चात् ब्रह्मा के लिए पूर्णपात्र दान निम्न संकल्प बोलकर करें-

अद्य कृतस्य… कर्मणः सांगतासिद्धये तत्सम्पूर्ण फलप्राप्तये च इदं पूर्णपात्रं. सदक्षिणाकं ब्रह्मणे तुभ्यमहं संप्रददे । द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृह्णातु ||

इसके बाद प्रणीता को भूमि पर उलटा कर उपयमन कुशाओं से प्रणीता जल को यजमान के शिर पर छिड़कें-

ॐ आपः शिवा शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषजम् ॥
 

उपयमन कुशाओं को अग्नि में छोड़ दें। यजमान दक्षिणा संकल्प करे-

अद्य कृतस्य अमुककर्मणः साङ्गतासिद्ध्यर्थं तत्सम्पूर्णफलप्राप्त्यर्थं च आचार्यादिभ्यः मनसोद्दिष्टां दक्षिणां दातुमहमुत्सृजे ॥

  ब्राह्मणभोजनसंकल्पः  

अद्य कृतस्य अमुककर्मणः साङ्गतासिद्ध्यर्थं यथोपन्नेन अन्नेन यथासंख्यकान् ब्राह्मणान् भोजयिष्ये ॥

  क्षमा प्रार्थना

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ! | 
यत्पूजितं मया देव ! परिपूर्णं तदस्तु मे || 
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । 
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ! ॥ 
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्नयूनमधिकं कृतम् ।
विपरीतं तु तत्सर्वं क्षमस्व परमेश्वर ! |
अन्यथा शरणं नास्ति त्वमेव शरणं मम । 
तस्मात् कारुण्यभावेन रक्ष त्वं परमेश्वर ॥ 
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । 
स्मरणादेवतद्विष्णोः संपूर्ण स्यादिति श्रुतिः ॥ 
यस्य स्मृत्या च नामोक्त्या तपो यज्ञक्रियादिषु । 
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥


आचार्य यजमान को निम्नलिखित मन्त्रों से तिलकाशीर्वाद देकर देवताओं का विसर्जन करे।

  तिलकाशीर्वाद:

मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः । 
शत्रूणां बुद्धिनाशोऽस्तु मित्राणामुदयस्तव || 
 
  विसर्जनम्  

यान्तु देवगणाः सर्वे पूजामादाय मामकीम्।
इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ॥ 
गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ! | 
यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशनः ॥

गणेशाथर्वशीर्षम्

ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्त्तासि । 

त्वमेव केवलं धर्त्तासि। त्वमेव केवलं हर्त्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि। 
त्वं साक्षादात्मासि नित्यम् । ऋतं वच्मि । सत्यं वच्मि । अवत्वं माम् । 
अव वक्तारम् । अवश्रोतारम्। अवदातारम् । अवधातारम्। 
अवानूचानमवशिष्यम्। अवपश्चात्तात्। अवपुरस्तात् । अवोत्तरात्तात् । 
अवदक्षिणात्तात् । अवचोर्ध्वात्तात् । अवाधरात्तात् । सर्वतो मां पाहि पाहि समन्तात् । 
त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानन्दाद्वितीयोऽसि। 
त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि । सर्वं जगदिदं त्वत्तो जायते । 
सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । 
त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि । त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम्।
 त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं
 रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम् ॥
गणादीन् पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् । 
तारेण रुद्धम्। एतत्तव मनुस्वरूपम्। गकार: पूर्वरूपम्। अकारो मध्यमरूपम् ।
 अनुस्वारश्चान्त्यरूपम्। बिन्दुरुत्तररूपम्। नादः सन्धानम् । संहिता सन्धिः । सैषा गणेशविद्या । गणक ऋषिः । निचृद् गायत्री छन्दः । गणपति र्देवता। ॐ गं गणपतये नमः । 
 
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात। 
एकदन्तं चतुर्हस्तं पाशमङ्कशधारिणम् । 
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्। 
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । 
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् । 
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्। 
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्। 
एवं ध्यायति यो नित्यं स योगी योगिनां वरः । 
 
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्त्तये नमः। एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते । स सर्वविघ्नैर्न बाध्यते स सर्वत्र गुणमेधते । स पञ्चमहापापात्प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो भवति । सर्वत्राधीयानोऽअपविघ्नो भवति । धर्मार्थकाममोक्षं च विन्दति । इदमथर्वशीर्षमशिष्याय न देयम्। यो यदि मोहाद्दास्यति स पापीयान् भवति । 
 
सहस्रावर्तनाद्यं यं काममधीते । तं तमनेन साधयेत्। अनेन गणपति मभिषिञ्चति । स वाग्मी भवति । चतुर्थ्यामनश्नञ्जपति । स विद्यावान् भवति। इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति । यो दूर्वाङ्करैर्यजति । स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान् भवति । स मेधावान् भवति । यो मोदकसहस्रेण यजति । 
 
स वाञ्छितफलमवाप्नोति । यः साज्यसमिद्भिर्यजति । स सर्वं लभते स सर्वं लभते । अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति ।

महाविघ्नात् प्रमुच्यते । महादोषात्प्रमुच्यते । महाप्रत्यवायात्प्रमुच्यते । स सर्वविद्भवति स सर्वविद्भवति । य एवं वेद । इत्युपनिषत् ॥ सहनाववतु । सहनौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ।। ।। ॐ शान्तिः शान्तिः शान्तिः ।। ॥ इति गणेशाथर्वशीर्षम् ॥

pooja kitne prakar ki hoti hai ? पूजा के प्रकार | पूजा के उपचार 
सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, 

पुण्याहवाचनम्

  वरुण प्रार्थना

पाशपाणे नमस्तुभ्यं पद्मिनी जीवनायक । 
पुण्याहवाचनं यावत् तावत्त्वं सन्निधो भव ॥


उक्त मन्त्र से वरुण की प्रार्थना कर यजमान भूमि पर दोनों घुटने रखकर कमल के समान अञ्जलि बनाकर शिर के समीप रखे। आचार्य या उपाचार्य उस वरुण कलश को यजमान की अञ्जलि में रखे तथा यजमान निम्न मन्त्र बोलकर ब्राह्मणों से आशीर्वाद के लिए प्रार्थना करे-

ॐ दीर्घानागानद्यो गिरयस्त्रीणि विष्णुपदानि च। 
तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ॥ 
यजमान की प्रार्थना के पश्चात् ब्राह्मण अस्तु दीर्घमायुः ॥ बोलकर आशीर्वाद दें ।
यजमान पुनः आशीर्वाद हेतु यह मन्त्र बोले-

ॐ त्रीणिपदाविचक्रमेविष्णुर्गोपाऽअदाभ्यः । 
अतो धर्माणिधारयन् ॥ 
तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु इति भवन्तो ब्रुवन्तु ।


ब्राह्मण:- अस्तु दीर्घमायुः । बोलकर आशीर्वाद दें तथा शिरपर अंजलि में धारण किये कलश को यथा स्थान रख दें। इसी विधि से यजमान दो बार और आशीर्वाद ग्रहण करे । इसके बाद यजमान निम्नलिखित मन्त्रों से ब्राह्मणों के हाथ में जल गन्ध अक्षत पुष्प आदि वस्तुएँ दे ।


अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम्। 
ब्राह्मणानां करे न्यस्ताः शिवा आपो भवन्तु नः ॥ 
ॐ शिवा आपः सन्तु । यह बोलकर यजमान ब्राह्मणों के हाथ में जल दे।
ब्राह्मणाः- सन्तु शिवा आपः ॥
यजमानः- 
ॐ लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे । 
सा मे वसतु वै नित्यं सौमनस्यं सदास्तु मे ॥ 
ॐ सौमनस्यमस्तु । यह बोलकर ब्राह्मणों के हाथ में पुष्प दे। 
ब्राह्मण:- अस्तु सौमनस्यम् ॥
यजमानः- 
ॐ अक्षतं चास्तु मे पुण्यं दीर्घमायुर्यशो बलम् । 
यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम। 
अक्षतं चारिष्टं चास्तु । यह बोलकर यजमान ब्राह्मणों को चावल दे। 
ब्राह्मणाः- अस्त्वक्षतमरिष्टं च ॥
यजमानः- गन्धाः (चन्दन) पान्तु ।
ब्राह्मण:- सौमंगल्यं चास्तु ॥
यजमानः- ॐ अक्षता: (चावल) पान्तु ।
ब्राह्मणः- आयुष्यमस्तु ॥
यजमान:- पुष्पाणि (फूल) पान्तु ।
ब्राह्मण:- सौश्रियमस्तु ॥
यजमानः- सफलताम्बूलानि ( पान-सुपारी) पान्तु।
ब्राह्मण:- सौमंगल्यं चास्तु ॥
यजमानः- दक्षिणा: ( चन्दन) पान्तु ।
ब्राह्मण:- बहुदेयं चास्तु ॥
यजमान:- पुनः आपः (जल) पान्तु।
ब्राह्मण:- स्वर्चितमस्तु ॥
यजमानः- दीर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं चायुष्यं चास्तु ॥
ब्राह्मणाः- तथास्तु ॥
यजमानः- यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते तमहमोङ्कारादिं कृत्वा यजुराशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये ।
ब्राह्मणाः- ॐ वाच्यताम् ॥

ॐ द्रविणोदाः पिपीषतिजुहोतप्रचतिष्ठत नेष्ट्रादृतुभिरिष्यतः ॥ 
सवितात्वासवाना गुंग सुवतामग्निगृहपतीना गुंग सोमो वनस्पतीनाम् ।
बृहस्पतिर्वाचऽइन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्योवरुणोधर्मपतीनाम् ॥ 
नतद्रक्षा गुंग सि न पिशाचास्तरन्ति देवानामोजः प्रथमज गुंग ह्येतत् । 
यो बिभर्ति दाक्षायण गुंग हिरण्य गुंग सदेवेषु कृणुते दीर्घमायुः समनुष्येषु कृणुते दीर्घमायुः ॥ उच्चाते जातमन्धसो दिवि सद्भूम्याददे। उग्र गुंग शर्ममहिश्रवः ॥ उपास्मै गायतानरः पवमानायेन्दवे। अभिदेवाँ २ ॥ इयक्षते ॥ 

यजमान:- व्रतजपनियमतपः स्वाध्यायक्रतुशमदमदयादानविशिष्टानां सर्वेषां ब्राह्मणानां मनः समाधीयताम्।
ब्राह्मणाः- समाहितमनसः स्मः ॥ 

यजमान :- प्रसीदन्तु भवन्तः । 
ब्राह्मणा:- प्रसन्नाः स्मः ॥

ॐ शान्तिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । शिवमस्तु । शिवंकर्मास्तु । कर्मसमृद्धिरस्तु । धर्मसमृद्धिरस्तु । वेदसमृद्धिरस्तु । शास्त्रसमृद्धिरस्तु । धनधान्यसमृद्धिरस्तु । पुत्रपौत्रसमृद्धिरस्तु । इष्टसम्पदस्तु ॥ 
 
बहि:- अरिष्टनिरसनमस्तु । यत्पापं रोग- मशुभमकल्याणं तद्दूरे प्रतिहतमस्तु ॥ 
 
अन्तः- यच्छ्रेयस्तदस्तु | उत्तरे कर्मणि निर्विघ्नमस्तु । उत्तरोत्तरमहरहरभिवृद्धिरस्तु । उत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यन्ताम्। तिथिकरणमुहूर्तनक्षत्र ग्रहलग्न सम्पदस्तु | तिथिकरणसुमुहूर्तनक्षत्रग्रहलग्नाधिदेवताः प्रीयन्ताम् । तिथिकरणे सुमुहूर्ते सनक्षत्रे सग्रहे सलग्ने साधिदेवते प्रीयेताम् | दुर्गापाञ्चाल्यौ प्रीयेताम् | अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम् । इन्द्रपुरोगाः मरुद्गणाः प्रीयन्ताम् । ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम् । माहेश्वरी पुरोगाः उमामातरः प्रीयन्ताम्। वसिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् । अरुन्धतीपुरोगा एकपल्यः प्रीयन्ताम्। ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् । श्रीसरस्वत्यौ प्रीयेताम् । श्रद्धामेधे प्रीयेताम् । भगवती कात्यायनी प्रीयताम् । भगवती माहेश्वरी प्रीयताम् । भगवती पुष्टिकरी प्रीयताम् । भगवती तुष्टिकरी प्रीयताम् । भगवती ऋद्धिकरी प्रीयताम् । भगवती वृद्धिकरी प्रीयताम् । भगवन्तौ विघ्नविनायकौ प्रीयेताम्। सर्वाः कुलदेवताः प्रीयन्ताम् । सर्वाः ग्रामदेवताः प्रीयन्ताम् । सर्वाः इष्टदेवताः प्रीयन्ताम् ॥

बहि:- हताश्च ब्रह्मद्विषः । हताश्च परिपन्थिनः। हताश्च विघ्नकर्तारः । शत्रवः पराभवं यान्तु। शाम्यन्तु घोराणि । शाम्यन्तु पापानि । शाम्यन्त्वीतयः । शाम्यन्तु उपद्रवाः ।

अन्तः- शुभानि वर्द्धन्ताम् । शिवा आपः सन्तु । शिवा ऋतवः सन्तु । शिवा अग्नयः सन्तु । शिवा ओषधयः सन्तु । शिवा अतिथयः सन्तु । अहोरात्रे शिवे स्याताम् । 
 
ॐ निकामेनिकामेनः पर्जन्योवर्षतु फलवत्यो नऽओषधयः पच्यन्तां योगक्षेमोनः कल्पताम्।
 
 शुक्राङ्गारकबुधबृहस्पति शनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् । भगवान्नारायणः प्रीयताम् । भगवान् पर्जन्यः प्रीयताम् । भगवान् स्वामी महासेनः प्रीयताम् । पुरोऽनुवाक्यया यत्पुण्यं तदस्तु । याज्यया यत्पुण्यं तदस्तु । वषट्कारेण यत्पुण्यं तदस्तु । प्रातः सूर्योदये यत्पुण्यं तदस्तु । एतत्कल्याणयुक्तं पुण्यं पुण्याहं वाचयिष्ये इति यजमानः।

ब्राह्मणाः- वाच्यताम्॥

ब्राह्मं पुण्यमहर्यच्च सृष्ट्युत्पादनकारकम् ।
वेदवृक्षोद्भवं नित्यं तत्पुण्याहं भवन्तु नः ॥
भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे अमुक’ कर्मणः पुण्याहं भवन्तो ब्रुवन्तु । ब्राह्मणा:- पुण्याहम् ॥ ( तीन बार बोलें )

ॐ पुनन्तु मा देवजना: पुनन्तु मनसा धियः । 
पुनन्तु विश्वाभूतानि जातवेदः पुनीहिमा ||
पुथिव्यामुद्धृतायान्तु यत्कल्याणं पुरा कृतम् ।
ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः ॥


भो ब्राह्मणाः! मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु ॥ 

ब्राह्मणाः- कल्याणम्॥ (तीन बार बोलें) 
ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः। 
ब्रह्मराजन्याभ्याथं शूद्रायचार्याय च स्वाय चारणाय च ॥ 
प्रियो देवानां दक्षिणायै दातुरिहभूयासमयम्मे काम: समृद्ध्यतामुपमादो नमतु॥

सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृता । 
संपूर्णा सुप्रभावा च तां च ऋद्धिं ब्रुवन्तु नः ॥


भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु । ब्राह्मणाः- कर्मऋद्ध्यताम्॥ (तीन बार बोलें) 

 
ॐ सत्रस्य ऋद्धिरस्यगन्मज्योतिरमृता- अभूम|| 
दिवं पृथिव्याऽअध्यारुहामाविदामदेवान्त्स्वर्ज्योतिः ॥

स्वस्तिस्तु या विनाशाख्या पुण्यकल्याणवृद्धिदा । 
विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ॥


भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः स्वस्ति भवन्तो ब्रुवन्तु । ब्राह्मणाः- आयुष्मते स्वस्ति ॥ (तीन बार बोलें)

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः । 
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बृहस्पतिर्दधातु ॥


समुद्रमथनाज्जाता जगदानन्दकारिका । 
हरिप्रिया च मांगल्या तां श्रियं च ब्रुवन्तु नः ॥

भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः श्रीरस्त्विति भवन्तो ब्रुवन्तु ।
ब्राह्मणाः – अस्तु श्रीः॥ (तीन बार बोलें)

ॐ श्रीश्च ते लक्ष्मीश्च पल्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम्। 
इष्णन्निषाणामुम्म ऽइषाण सर्वलोकं मऽइषाण ॥


मृकण्डसूनोरायुर्ध्रुवलोमशयोस्तथा । 
आयुषा तेन संयुक्ता जीवेम शरदः शतम् ॥ 
शतं जीवन्तु भवन्तः ॥

ॐ शतमिन्नुशरदोऽअन्ति देवा यत्रा नश्चक्रा जरसन्तनूनाम् । 
पुत्रासो यत्र पितरो भवन्ति मानो मध्यारीरिषतायुर्गन्तोः ॥


शिवगौरीविवाहे या या श्रीरामे नृपात्मजे । 
धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ॥ 
ब्राह्मणाः – अस्तु श्रीः॥

ॐ मनसः काममाकूतिं वाचः सत्यमशीमहि । 
पशूना रूपन्नस्यरसो यशः श्रीः श्रयतां मयि स्वाहा ॥ 
 
प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट्। 
भगवाञ्छाश्वतो नित्यं नो वै रक्षतु सर्वतः ॥


प्रजापते न त्वदेतान्नयन्नयो विश्वा रूपाणि परिता बभूव । 
यत्कामास्ते जुहुमस्तन्नोऽअस्तु वय स्याम पतयोरयीणाम् || 
 
आयुष्मते स्वस्तिमते यजमानाय दाशुषे । 
श्रिये दत्ताशिषः सन्तु ऋत्विग्भिवर्वेदपारगैः ॥

ब्राह्मणाः- आयुष्मते स्वस्ति ॥

ॐ प्रतिपन्थामपद्महि स्वस्ति गामनेहसम् । 
येन विश्वाः परिद्विषो वृणक्ति विन्दते वस॥

ब्राह्मणाः- स्वस्तिवाचनसमृद्धिरस्तु ॥ 

कृतस्य स्वस्तिवाचनकर्मणः समृद्ध्यर्थं स्वस्तिवाचकेभ्यो ब्राह्मणेभ्यो मनसोद्दिष्टां दक्षिणां विभज्य दातुमहमुत्सृजे ।

  अभिषेकः  
अविधुर ब्राह्मण कलश के जल से निम्नलिखित मन्त्र बोलकर यजमान का अभिषेक करें-

ॐ द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्ति रापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधि ॥ 
 
ॐ व्विश्वानि देवसवित र्दुरितानि परासुव । यद्भद्भन्तन्नऽआसुव॥
॥ इति स्वस्तिपुण्याहवाचनम् ॥


 आयुष्यमन्त्रजपम्

ॐ आयुष्यं वर्चस्य गुंग रायस्पोषमौद्भिदम् । 
इद गुंग हिरण्यं वर्चस्वज्जैत्रायाविशतादुमाम्॥ 
नतद्रक्षा गुंग सि न पिशाचास्तरन्ति देवानामोजः प्रथमजह्येतत्। 
यो बिभर्तिदाक्षायणाहिरण्य गुंग सदेवेषु कृणुते दीर्घमायुः 
समनुष्येषु कृणुते दीर्घमायुः ॥ 
यदाबध्नन्दाक्षा यणाहिरण्य गुंग शतानीकाय सुमनस्यमानाः । 
तन्मऽ आबध्नामि शतशारदायायुष्माञ्जरदष्टिर्यथासम् ॥
॥ इत्यायुष्यमन्त्रजपम् ॥
 

नान्दीमुख श्राद्धम्


  पादप्रक्षालनम्

सत्यवसुसंज्ञका विश्वेदेवा नान्दीमुखा 

भूर्भुवः स्वः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः । 
 
मातृपितामहीप्रपितामह्यो नान्दीमुख्यः 
भूर्भुवः स्वः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः । 
 
पितृपितामहप्रपितामहा नान्दीमुखा 
भूर्भुवः स्वः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः । 
 
मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखा 
भूर्भुवः स्वः इदं वः पाद्यं पादावनेजनं पादप्रक्षालनं वृद्धिः ।

  आसनदानम्

सत्यवसुसंज्ञका विश्वेदेवा नान्दीमुखा 

भूर्भुवः स्वः इमे आसने वो नमः । 
 
मातृपिता- महीप्रपितामह्यो नान्दी मुख्यः 
भूर्भुवः स्वः इमे आसने वो नमः ।
 
पितृपितामह प्रपितामहा नान्दीमुखा 
भूर्भुव: स्व: इमे आसने वो नमः ।
 
मातामहप्रमातामहवृद्धप्रमातामहाः सप- नीकाः नान्दीमुखा 
भूर्भुव: स्व: इमे आसने वो नमः ।

  गन्धादिदानम्

सत्यवसुसंज्ञका विश्वेदेवा नान्दीमुखा 

भूर्भुवः स्वः इदं गन्धाद्यर्चनं स्वाहा सम्पद्यतां वृद्धिः । 
 
मातृपितामहीप्रपितामह्यो नान्दीमुख्यः 
भूर्भुवः स्वः इदं गन्धाद्यर्चनं स्वाहा सम्पद्यतां वृद्धिः । 
 
पितृपितामहप्रपितामहा नान्दीमुखा 
भूर्भुवः स्वः इदं गन्धाद्यर्चनं स्वाहा सम्पद्यतां वृद्धिः । 
 
मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखा 
भूर्भुवः स्वः इदं गन्धाद्यर्चनं स्वाहा सम्पद्यतां वृद्धिः ।

  भोजननिष्क्रयदानम्  


सत्यवसुसंज्ञका विश्वेदेवा नान्दीमुखा 
भूर्भुवः स्वः इदं युग्मब्राह्मणभोजनपर्याप्तामान्ननिष्क्रयभूतं द्रव्यममृतरूपेण स्वाहा सम्पद्यतां वृद्धिः।
 
मातृपितामहीप्रपितामह्यो नान्दीमुख्यः भूर्भुवः स्वः इदं युग्मब्राह्मणभोजनपर्याप्तामान्ननिष्क्रयभूतं द्रव्य ममृतरूपेण स्वाहा सम्पद्यतां वृद्धिः ।
 
पितृपिता महप्रपितामहाः नान्दीमुखा भूर्भुवः स्वः इदं युग्म ब्राह्मणभोजनपर्याप्तामान्ननिष्क्रयभूतं द्रव्यममृतरूपेण स्वाहा सम्पद्यतां वृद्धिः । 
 
मातामहप्रमातामह वृद्धप्रमाता महाः सपनीकाः नान्दीमुखा भूर्भुवः स्वः इदं युग्म ब्राह्मणभोजन पर्याप्तामान्ननिष्क्रयभूतं द्रव्यममृतरूपेण स्वाहा सम्पद्यतां वृद्धिः ।

  सक्षीरयवकुशजलदानम्

सत्यवसुसंज्ञका विश्वेदेवा नान्दीमुखा प्रीयन्ताम् । 
 
मातृपितामहीप्रपितामह्यो नान्दीमुख्यः प्रीयन्ताम् । 
 
पितृपितामहप्रपितामहा नान्दीमुखा प्रीयन्ताम् । 
 
मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखा प्रीयन्ताम् ।

  प्रार्थना

गोत्रन्नो वर्द्धतां दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च। 
श्रद्धा च नो मा व्यगमद् बहुदेयं च नोऽस्तु अन्नं च नो बहुभवेद् अतिथींश्च लभेमहि ।
 
याचितारश्च नः सन्तु । मा च याचिष्म काश्चन। एताः सत्या आशिषः सन्तु । सन्त्वेताः सत्या आशिषः ।

  दक्षिणादानम्

सत्यवसुसंज्ञका विश्वेदेवा नान्दीमुखा भूर्भुवः स्वः कृतस्याभ्युदयिक श्राद्धस्य फलप्रतिष्ठासिद्ध्यर्थं द्राक्षाऽमलकयव- मूलनिष्क्रयिणीं दक्षिणां दातुमहमुत्सृज्ये । 

 
मातृपितामहीप्रपितामह्यो नान्दीमुख्यः भूर्भुवः स्वः कृतस्याभ्युदयिक श्राद्धस्य फलप्रतिष्ठासिद्ध्यर्थं द्राक्षाऽमलकयवमूलनिष्क्रयिणीं दक्षिणां दातुमहमुत्सृज्ये। 
 
पितृपितामहप्रपितामहा नान्दीमुखा भूर्भुवः स्वः कृतस्याभ्युदयिकश्राद्धस्य फलप्रतिष्ठा- सिद्ध्यर्थं द्राक्षामलकयवमूलनिष्क्रयिणीं दक्षिणां दातुमहमुत्सृज्ये । 
 
मातामहप्रमातामहवृद्धप्रमातामहाः सपत्नीकाः नान्दीमुखा भूर्भुवः स्वः कृतस्याभ्युदयिक श्राद्धस्य फल प्रतिष्ठा सिद्ध्यर्थं द्राक्षामलकयवमूलनिष्क्रयिणीं दक्षिणां दातुमहमुत्सृज्ये । 
 
नान्दीश्राद्धं सम्पन्नम्। सुसम्पन्नम्। 
  विसर्जनम्

वाजेवाजेवतव्वाजिनोनोधनेषुविप्राऽअमृता- ऋतज्ञाः । 
अस्यमध्वः पिबतमादयध्वन्तृप्तायातपथिभिर्देवयानैः ॥


  अनुगमनम्

आमावाजस्य प्रसवोजगम्यादेमेद्यावापृथिवीविश्वरूपे । 
आमागन्ताम्पितरामातराचामा सोमो ऽअमृतत्वेनगम्यात् ॥ 
 
मयाचरिते आभ्युदयिके श्राद्धे न्यूनातिरिक्तो यो विधि: स उपविष्टब्राह्मणानां वचनात् श्रीगणपतिप्रसादाच्च परिपूर्णोऽस्तु । अस्तु परिपूर्णः ॥

॥ इति नान्दीमुख श्राद्धं सम्पूर्णम् ॥

अधिप्रत्यधिदेवतालोकपालदिक्पाल वास्तुक्षेत्रपालाद्यावाहनपूजनम्

  अधिदेवता

त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्धनम् । 
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात्॥
 
  • ईश्वराय नमः ईश्वरमावाहयामि स्थापयामि । 
  • उमायै नमः उमामावा० ।
  • स्कन्दाय नमः स्कन्दमावा० ।
  • विष्णवे नमः विष्णुमावा० ।
  • इन्द्राय नमः इन्द्रमावा० ।
  • ब्रह्मणे नमः ब्रह्माणमावा० ।
  • इन्द्राय नमः इन्द्रमावा० ।
  • यमाय नमः यममावा०।
  • कालाय नमः कालमावा०|
  • चित्रगुप्ताय नमः चित्रगुप्तमावाहयामि ।

  प्रत्यधिदेवताः  


ॐ अग्निन्दूतं पुरोदधे हव्यवाहमुपब्रुवे । देवाँ २ ॥ऽआसादयादिह ॥ 
 
  • अग्नये नमः अग्निमावा० स्थापयामि। 
  • अद्भ्यो नमः अप आवा० । 
  • पृथिव्यै नमः पृथिवीमावा० । 
  • विष्णवे नमः विष्णुमावा० । 
  • इन्द्राय नमः इन्द्रमावा० । 
  • इन्द्राण्यै नमः इन्द्राणीमावा० । 
  • प्रजापतये नमः प्रजापतिमावा० । 
  • सर्पेभ्यो नमः सर्पानावा० । 
  • ब्रह्मणे नमः ब्रह्माणमावा० ।

  पंचलोकपालाः

ॐ गणानां त्वा गणपति गुंग हवामहे प्रियाणां त्वा प्रियपति गुंग हवामहे निधीनां त्वा निधिपति गुंग हवामहे वसो मम । आहमजानि गर्भधमात्वमजासि गर्भधम् ॥ 
 
  • गणपतये नमः गणपतिमावा० स्थापयामि । 
  • दुर्गायै नमः दुर्गामावा० । 
  • वायवे नमः वायुमावा० । 
  • आकाशाय नमः आकाशमावा० । 
  • अश्विभ्यां नमः अश्विनावा० ॥

  वास्तोस्पतिः

ॐ वास्तोस्पते प्रतिजानीह्यस्मान्स्वावेशोऽअनमीवो भवानः । 
यत्त्वेमहे प्रतितन्नो जुषस्व शन्नो भवद्विपदे शं चतुष्पदे ॥ 
वास्तोस्पतये नमः वास्तोस्पतिमावा० स्थापयामि ।। 
 
  क्षेत्रपाल:

ॐ नहिस्पशमविदन्नन्न्यमस्माद्वैश्वानरात्पुरऽ एतारमग्नेः । 
एमेनमवृधन्नमृता-Sअमर्त्यं वैश्वानरं क्षैत्रजित्याय देवाः ॥ 
क्षेत्रपालाय नमः क्षेत्रपालमावा० स्थापयामि ।।

  इन्द्रादिदशदिक्पालाः

ॐ त्रातारमिन्द्रमवितारमिन्द्र गुंग हवे हवे सुहव गुंग शूरमिन्द्रम् । 
ह्वयामि शक्रं पुरुहतमिन्द्र गुंग स्वतिनो मघवा धात्त्विन्द्रः स्वाहा ॥ 
 
  • पूर्वे इन्द्राय नमः इन्द्रमावा० स्थापयामि ।। 
  • आग्नेय्यां अग्नये नमः मावा० ॥ 
  • दक्षिणे यमाय नमः यममावा० ॥ 
  • नैर्ऋत्यां निर्ऋतये नमः निर्ऋतिमावा० ।। 
  • पश्चिमे वरुणाय नमः वरुणमावा० ।। 
  • वायव्यां वायवे नमः वायुमावा० ।। 
  • उत्तरे सोमाय नमः सोममावा०।। 
  • ईशान्यां ईशानाय नमः ईशानमावा०।। 
  • ईशानपूर्वयोर्मध्ये ब्रह्मणे नमः ब्रह्माणमावा०॥ 
  • निरृति- वरुणयोर्मध्ये अनन्ताय नमः अनन्तमावा० ॥
॥ इत्यधिप्रत्यधिदेवतालोकपालदिक्पालवास्तुक्षेत्रपालादिपूजनम् ॥

प्रधानदेवतापूजनम्’

यहाँ प्रधान पूजन के निमित्त से केवल शिव के पूजन का विधिवत् प्रयोग दिया जा रहा है।

 
उन-उन कार्य विशेष के लिए जो-जो प्रधान देवता हो उनका जैसे – विष्णु आदि देवों का पुरुष सूक्त से, शिव का रुद्र सूक्त से तथा सभी देवियों (दुर्गा, लक्ष्मी, सरस्वती आदि) का श्रीसूक्त से षोडशोपचार अथवा पंचोपचार से पूजन करें। नर्मदेश्वर और शालिग्राम स्वयं प्रतिष्ठित होते हैं। अतः उनमें आवाहन और प्रतिष्ठापन न करें। यदि शिवादि देवों की स्वर्णादि मूर्ति हो तो अग्न्युत्तारण पूर्वक प्राण प्रतिष्ठा भी करनी चाहिए ।

  ध्यानम्

ध्यायेन्नित्यम्महेशं रजतगिरिनिभं चारुचन्द्रावतंसं 
रत्नाकल्पोज्वलाङ्गम्परशुमृगवराभीतिहस्तम्प्रसन्नम्। 
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं 
विश्वाद्यं विश्व-वन्द्यं निखिलभयहरम्पञ्चवक्त्रं त्रिनेत्रम् ॥ 
 
बन्धूकसन्निभं देवं त्रिनेत्रं चन्द्रशेखरम् । 
त्रिशूलधारिणं देवं चारुहासं सुनिर्मलम् ॥ 
कपालधारिणं देवं वरदाभयहस्तकम्। 
उमया सहितं शम्भुं ध्यायेत्सोमेश्वरं सदा ॥ 
ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः। ध्यानं समर्पयामि ।।

  आवाहनम्  

ॐ नमस्ते रुद्रमन्न्यवऽउतोतऽइषवेनमः । बाहुब्भ्यामुतते नमः ।। 
 
आयाहि भगवन् शम्भो शर्वत्वं गिरिजापते। 
प्रसन्नो भवदेवेश नमस्तुभ्यं हि शंकर ।। 
ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः। आवाहनं समर्पयामि।।

 आसनम्  (हाथ में फूल लेकर ) 
 
ॐ याते रुद्रशिवातनूरघोरापापकाशिनी । 
तया नस्तन्वा शन्तमयागिरिशन्ताभिचाकशीहि॥ 
 
विश्वेश्वर महादेवराजराजेश्वर प्रिय ।
आसनन्दिव्यमीशान दास्ये हन्तुभ्यमीश्वर । । 
ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः। आसनं समर्पयामि ।।

  पाद्यम्  (पात्र में जल लेकर)

ॐ यामिषुङ्गिरिशन्तहस्ते बिभर्ष्यस्तवे । 
शिवाङ्गि गिरित्रताङ्कुरुमाहिथंसीः पुरुषञ्जगत्॥ 
 
महादेव महेशान महादेवपरात्पर । 
पाद्यं गृहाण मद्दत्तं पार्वतीसहितेश्वर ।। 
ॐ भू० साम्बसदाशिवाय नमः । पाद्यम् समर्पयामि ।।

  अर्घ्यम्   (पात्र में जल लेकर)

ॐ शिवेनव्वचसात्त्वागिरिशाच्छाव्वदामसि । 
यथानः सर्वमिज्जगदयक्ष्म गुंग सुमनाऽअसत्॥ 
 
त्र्यम्बकेश सदाचारजगदादिविधायक। 
अर्घ्यं गृहाण देवेश साम्ब सर्वार्थदायक।। 
ॐ भू० साम्बसदाशिवाय नमः । अर्घ्यम् समर्पयामि ।।

  आचमनीयम्   (पात्र में जल लेकर )


ॐ अद्ध्यवोचदधिवक्ताप्प्रथमोदैळ्योभिषक् । 
अहींश्च सर्व्वाञ्जम्भयन्त्सर्व्वाश्च्चयातुधान्योधराची: परासुव ॥ 
 
त्रिपुरान्तकदीनार्त्तिनाशक श्रीकण्ठशाश्वत । 
गृहाणाचमनीयञ्च पवित्रोदककल्पितम् । 
ॐ भू० साम्बसदाशिवाय नमः । आचमनीयम् समर्पयामि ।।

  स्नानम्   (पात्र में जल लेकर )

ॐ असौयस्त्ताम्म्रोऽअरुणऽउतबब्भ्रुः सुमङ्गलः । 
ये चैन रुद्राऽअभितो दिक्षुशिश्रताः सहस्रशोवैषाथं हेडऽईमहे ॥ 
 
गंगे च यमुने चैव गोदावरि सरस्वति। 
नर्मदे सिन्धो कावेरि स्नानार्थं प्रतिगृह्यताम्।। 
ॐ भू० साम्बसदाशिवाय नमः। स्नानम् समर्पयामि ।।

  दुग्धस्नानम्  

ॐ पयः पृथिव्याम्पयऽओषधीषु पयो दिव्यन्तरिक्षे पयोधाः । 
पयस्वतीः प्प्रदिशः सन्तु मह्यम् ॥ 
 
मधुरं गो पयः पुण्यं पटपूतम्पुरस्कृतम्। 
स्नानार्थं देव देवेश गृहाण परमेश्वर ।। 
ॐ भू० साम्बसदाशिवाय नमः । दुग्धस्नानम् समर्पयामि ।।

  दधिस्नानम्

ॐ दधिक्राव्णोऽअकारिषञ्जिष्णोरश्वस्य वाजिनः । 
सुरभिनो मुखाकरत्प्रणऽआयू गुंग षितारिषत् ॥ 
 
दुर्लभं दिविसुस्वादुदधिसर्वप्रियम्परम्। 
पुष्टिदं पार्वतीनाथ स्नानाय प्रतिगृह्यताम् ।। 
ॐ भू० साम्बसदाशिवाय नमः । दधिस्नानम् समर्पयामि ||

  घृतस्नानम्

ॐ घृतम्मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतं वस्य धाम | 
अनुष्वधमा वह मादयस्वस्वाहा कृतं वृषभव्वक्षिहव्यम् ॥ 
 
घृतं गव्यं शुचिस्निग्धं सुसेव्यं पुष्टिमिच्छताम्। 
गृहाण गिरिजानाथ स्नानाय चन्द्रशेखर ।। 
ॐ भू० साम्बसदाशिवाय नमः । घृतस्नानम्, समर्पयामि।।

  मधुस्नानम्

ॐ मधुवाताऽऋतायतेमधुक्षरन्तिसिन्धवः । माध्वीनः सन्त्वोषधीः । 
मधुनक्तमुतोषसो मधुमत्पार्थिव गुंग  रजः ॥ मधुद्यौरस्तु नः पिता । 
मधुमान्नो वनस्पतिर्म्मधुमाँ२ ॥ अस्तु सूर्यः ॥ माध्वीर्गावो भवन्तु नः ॥ 
 
मधुरं मृदुमोहघ्नं स्वरभङ्गविनाशनम् । 
महादेवेदमुत्सृष्टं तव स्नानाय शङ्कर ।। 
ॐ भू० साम्बसदाशिवाय नमः । मधुस्नानम् समर्पयामि ।।

  शर्करास्नानम्

ॐ अपा गुंग रसमुद्वयस गुंग सूर्ये सन्त गुंग समाहितम्। 
अपा गुंग रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयाम गृहीतो सीन्द्रायत्वा जुष्टं गृह्णाम्येषते योनिरिन्द्रायत्वा जुष्टतमम् ॥

तापशान्तिकरीशीता मधुरा स्वादसंयुता । 
स्नानार्थं देवदेवेश शर्करेयं प्रदीयते ।। 
ॐ भू० साम्बसदाशिवाय नमः । शर्करास्नानम् समर्पयामि ||

 पश्चामृतस्नानम्

ॐ पञ्चनद्यः सरस्वतीमपियन्ति सस्त्रोतसः । 
सरस्वती तु पश्चधासो देशेऽभवत्सरित् ॥ 
 
पञ्चामृतं मयानीतं पयोदधिघृतं मधु । 
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् । 
ॐ भू० साम्बसदाशिवाय नमः । पञ्चामृत स्नानम् समर्पयामि।।

  शुद्धोदकस्नानम्’

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्तऽ आश्विनाः । 
श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णायामाऽअवलिप्ता 
रौद्रानभो रूपा: पार्जन्याः ॥ 
 
गंगा गोदावरी रेवा पयोष्णी यमुना तथा। 
सरस्वत्यादि तीर्थानि स्नानार्थं प्रतिगृह्यताम्।। 
ॐ भू० साम्बसदाशिवाय नमः । शुद्धोदकस्नानम् समर्पयामि ।।

  वस्त्रम

ॐ असौयोवसर्प्पतिनिलग्रीवोविलोहितः । 
उतैनं गोपाऽअदृश्श्रन्नदृश्श्रन्नुदहार्य्यः सदृष्टोमृडयातिनः॥ 
 
वस्त्राणि पट्टकुलानि विचित्राणि नवानि च। 
मया नीतानि देवेश प्रसन्नो भवशंकर।। 
ॐ भू० साम्बसदाशिवाय नमः। वस्त्रम् समर्पयामि ।।

  यज्ञोपवीतम्

ॐ नमोस्तुनीलग्ग्रीवायसहस्राक्क्षायमीढुषे । 
अथो येऽअस्यसत्त्वानोहन्तेब्भ्योकरन्नमः ॥ 
 
सौवर्णं राजतं ताम्रं कार्पासस्य तथैव च । 
उपवीतं मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम्।। 
ॐ भू० साम्बसदाशिवाय नमः । यज्ञोपवीतम् समर्पयामि ।।

  गन्धम्

ॐ प्रमुञ्चधन्वनस्त्वमुभयोरात्वन्यज्यम् । 
याश्च ते हस्तऽइषवः पराता भगवो व्व ॥ 
 
सर्वेश्वर जगद्वन्द्यदिव्यासनसमास्थित । 
गन्धं गृहाण देवेश चन्दनं प्रतिगृह्यताम् । 
ॐ भू० साम्बसदाशिवाय नमः । गन्धं समर्पयामि ।।

  अक्षताः  


ॐ अक्षन्नमीमदन्तह्यवप्रियाऽअधूषत । 
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विद्र ते हरी ॥ 
 
अक्षताश्च सुरश्रेष्ठाः शुभ्राधूताश्च निर्मलाः । 
मया निवेदिता भक्त्या गृहाण परमेश्वर ।। 
ॐ भू० साम्बसदाशिवाय नमः। अक्षतान् समर्पयामि ।।

  बिल्वपत्राणि

शिवो भव प्रजाब्भ्यो मानुषीब्भ्यस्त्वमङ्गिरः । 
मा द्यावापृथिवीऽअभिशोची- र्मान्तरिक्षम्माव्वनस्पतिन् ॥ 
 
बिल्वपत्रं सुवर्णेन त्रिशूलाकारमेव च । 
मयार्पितं महादेव बिल्वपत्रं गृहाण मे ।। 
ॐ भू० साम्बसदाशिवाय नमः । बिल्वपत्राणि समर्पयामि ।।

  पुष्पम्

ॐ विज्ज्यन्धनुः कपर्द्दिनोविशल्योबाणवाँ२॥ उत। 
अनेशन्नस्ययाऽइषवऽआभुरस्यनिषङ्गधिः । 
 
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ! । 
मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् । 
ॐ भू० साम्बसदाशिवाय नमः। पुष्पं समर्पयामि ।।

  दूर्वांकुरान्

ॐ काण्डात्काण्डात्प्ररोहन्तीपरुषः परुषस्परि । 
एवानोदूर्वेप्रतनुसहस्त्रेणशतेन च ॥ 
 
दूर्वांकुरान्सुहरितानमृतान्मङ्गलप्रदान्। 
आनीतांस्तव पूजार्थं गृहाण गणनायक।। 
ॐ भू० साम्बसदाशिवाय नमः । दूर्वांकुरान्समर्पयामि ।।

  नानापरिमलद्रव्यम्

ॐ अहिरिवभोगैः पर्येति बाहुञ्ज्याया हेतिम्परिबाधमानः । 
हस्तघ्नोव्विश्वावयुनानि विद्वान्पुमान्पुमा सम्परिपातु विश्वतः || 
 
नानापरिमलैर्द्रव्यैर्निमितं चूर्णमुत्तमम् । 
अबीर नामकं चूर्णं गन्धं चारुप्रगृह्यताम्।। 
ॐ भू० साम्बसदाशिवाय नमः । पुष्पं समर्पयामि ।।

  धूपम्  

ॐ यातेहेतिम्र्मीढुष्टमहस्तेबभूवतेधनुः । 
तयास्म्मान्विश्श्वातस्त्वमयक्क्ष्मयापरिभुज ॥ 
 
वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः। 
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् । 
ॐ भू० साम्बसदाशिवाय नमः। धूपम् आघ्रापयामि।। ।।

  दीपम्

ॐ परितेधन्न्वनोहेतिरस्मान्वृणक्तुव्विश्वतः । 
अथोऽइषुधिस्तवारेऽअस्म्मन्निधे- हितम् ॥ 
 
आज्याक्तं वर्तिसंयुक्तं वह्निना दीपितन्तुयत् । 
दीपं गृहाण देवेश ! त्रैलोक्यतिमिरापहम्।। 
ॐ भू० साम्बसदाशिवाय नमः । दीपं दर्शयामि ।।

  नैवेद्यम्

ॐ अवतत्त्यधनुष्टुं सहस्राक्क्षशतेषुधे । 
निशीर्य शल्ल्यानाम्मुखाशिवोनः सुमनाभव॥ 
 
अपूपानि च पक्वानि मण्डकावटकानि च। 
पायसं सूपमन्नञ्च नैवेद्यं प्रतिगृह्यताम् । 
ॐ भू० साम्बसदाशिवाय नमः । नैवेद्यं निवेदयामि ।।

  आचमनीयम्

पानीयं शीतलं शुद्धङ्गाङ्गेयम्महदुत्तमम्। 

गृहाण पार्वतीनाथ तव प्रीत्या प्रकल्पितम् ॥

  करोद्वर्त्तनम्

ॐ अभ्रंशुनाते अक्षंशुः पृच्यताम्परुषापरुः । 
गन्धस्ते सोममवतु मदाय रसोऽअच्युतः ॥


कपूरादीनि द्रव्याणि सुगन्धीनि महेश्वर । 
गृहाण जगतान्नाथ करोद्वर्त्तनहेतवे ।। 
ॐ भू० साम्बसदाशिवाय नमः । करोद्वर्तनार्थं गन्धम् समर्पयामि ।।

  ऋतुफलम्

ॐ याः फलिनीर्या अफलाऽअपुष्पायाश्च पुष्पिणीः । 
बृहस्पतिप्रसूतास्तानो मुञ्चन्त्वथं हसः ॥ 
 
कूष्माण्डम्मातुलिङ्गञ्च नालिकेरफलानि च । 
गृहाण पार्वतीकान्त सोमशेखरशंकर ॥ 
ॐ भू० साम्बसदाशिवाय नमः । ऋतुफलम् समर्पयामि ॥

  ताम्बूलम्

ॐ नमस्तऽआयुधायानाततायधृष्ण्णवे । 
उभाभ्या मुत तेनमोबाहुब्भ्यान्तवधन्वने ॥ 
 
पूगीफलमहद्दिव्यं नागवल्लीदलैर्युतम् । 
गृहाणदेवदेवेश द्राक्षादीनि सुरेश्वर ।। 
ॐ भू० साम्बस दाशिवाय नमः । एलालवङ्गपूगीफलसहितम् ताम्बूलम् समर्पयामि ।।

  दक्षिणा   (प्रदक्षिणा)

ॐ मानोमहान्तमुतमानोऽअर्भकम्मानऽक्क्षन्तमुतमान उक्क्षितम् । 
मानोव्वधी: पितरम्मोतमातरं मानः प्रियास्तन्वो रुद्ररीरिषः ॥ 
 
हिरण्यगर्भगर्भस्थं हेमबीजसमन्वितम्। 
पञ्चरत्नम्मया दत्तं गृह्यतां वृषभध्वज।। 
ॐ भू० साम्बसदाशिवाय नमः । दक्षिणां प्रदक्षिणां च समर्पयामि।।

  नीराजनम्

ॐ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः 
शिवाय च शिवतराय च ॥ 
 
अग्निर्ज्योतीरविर्ज्योतिर्ज्योतिर्नारायणोविभुः । 
नीराजयामि देवेशम्पञ्चदीपैः सुरेश्वर ॥ 
ॐ भू० साम्बसदाशिवाय नमः । कर्पूरनीराजनं समर्पयामि ॥

 मन्त्रपुष्पम्

ॐ मानस्तोके तनये मान आयुषिमानो गोषुमानोऽअश्वेषुरीरिषः । 
मानोवीरान्नुद्रभामिनोवधीर्हविष्मन्तः सदमित्त्वाहवामहे ॥ 
 
हरविश्वाखिलाधारनिराधारनिराश्रय। 
पुष्पाञ्जलिं गृहाणेश सोमेश्वर नमोस्तुते।। 
ॐ भू० साम्बसदाशिवाय नमः । मन्त्रपुष्पाञ्जलिं समर्पयामि।।

  विशेषार्घ्यम्

ॐ रक्ष रक्ष महादेवः रक्ष त्रैलोक्यरक्षक ! | 
भक्तानामभयं कर्त्ता त्राताभवभवार्णवात् ॥ 
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद । 
अनेन सफलार्घ्येण सफलोऽस्तु सदा मम । 
ॐ भू० साम्बसदाशिवाय नमः । विशेषार्घ्यं समर्पयामि ॥

  प्रार्थना

 हेतवे जगतामेव संसारार्णव सेतवे । 
प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ॥ 
ॐ भू० साम्बसदाशिवाय नमः । प्रार्थनापूर्वकनमस्कारान् समर्पयामि।।

  अर्पणम्

अनेन कृतेन पूजनेन साम्बसदाशिव: प्रीयतां न मम । तत्सत् श्रीपरमेश्वरार्पणमस्तु ||

बलिदानम्’

  दिक्पालबलिदानम्

ॐ त्रातारमिन्द्र० ॥ इन्द्रादिदशदिग्पालेभ्यो नमः पूजयामि। 

 
दधिमाषभक्तबलिं समर्पयामि। भो भो इन्द्रादिदशदिक्पालाः मम सपरिवारस्य आयुः कर्तारः क्षेमकर्तारः शान्तिकर्तारः पुष्टिकर्तारः तुष्टिकर्तारः वरदा भवत ।

इसी प्रकार आवाहित देवों तथा क्षेत्रपाल के लिए बलिदान करें ।

  • यदि इन्द्रादि दश दिक्पालों का पृथक – २ बलिदान करना हो तो बहुवचन के स्थान पर एकवचन का प्रयोग कर एक-एक का बलिदान करें। यथा- इन्द्राय नमः पूजयामि । दधिमाषभक्तबलिं समर्पयामि ।। शो इन्द्रः मम सपरिवारस्य आयुकर्ता क्षेत्रकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता वरदो भव ।।


  क्षेत्रपालबलिदानम्

ॐ नहिस्पशमविदन्नन्यमस्माद्वैश्वानरात्पुरऽ एतारमग्नेः । 
एमेनमवृधन्नमृताSअमर्त्यं वैश्वानरं क्षैत्रजित्याय देवाः ॥ 
 
ॐ क्षेत्रपालाय नमः पूजयामि। दधिमाषभक्तबलिं समर्पयामि ।। 
 
भो भो क्षेत्रपालः मम सपरिवारस्य आयु:कर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता वरदा भवत ।।

॥ इति बलिदानम् ॥

  नौ ग्रहों का ध्यान

सूर्य 

पद्मासनः पद्मकरः पद्मगर्भः समद्युतिः ।
सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात् सदारविः ॥ 

चन्द्रमा

श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतवाहनः । 
गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥

मंगल

रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः ।
चतुर्भुजः रक्तरोमा वरदः स्याद् धरासुतः ॥

बुधः 

पीतमाल्याम्बरधरः -कर्णिकारसमद्युतिः ।
खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥

बृहस्पति – 

देवानां गुरुः तद्वत् पीतवर्णः चतुर्भुजः । 
दण्डी च वरदः कार्यः साक्षसूत्रकमण्डलुः ॥

शुक्र 

दैत्यानां गुरुः तद्वत् श्वेतवर्णः चतुर्भुजः । 
दण्डी च वरदः कार्यः साक्षसूत्रकमण्डलुः ॥

शनि

इन्द्रनीलद्युतिः शूली वरदोगृध्रवाहनः । 
बाणबाणासनधरः कर्तव्योऽर्कसुतस्तथा ॥ 

राहु

करालवदनः खड्गचर्मशूली वरप्रदः I 
नीलसिंहासनस्थश्च राहुरत्र प्रशस्यते ॥

केतु

धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।
गृध्रासनगता नित्यं केतवः स्युर्वरप्रदाः ॥


( मस्त्युपुराण ९४ । १-९)

  श्रीनवग्रह स्तोत्रम् –

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । 
तमोऽरिं सर्वपापध्नं प्रणतोऽस्मि दिवाकरम् ॥१॥ 
 
दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् । 
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥२॥ 
 
धरणीगर्भसम्भूतं विद्युत्कान्ति – समप्रभम् । 
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाभ्यहम् ॥३॥ 
 
प्रिय-ङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । 
सौभ्यं सौभ्यगुणोपेतं तं बुधं प्रणमाभ्यहम् ॥४॥ 
 
देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् । 
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥५॥ 
 
हिमकुन्दमृणालाभं दैत्यानां परम गुरुम् । 
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाभ्यहम् ॥६॥ 
 
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् । 
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥७॥ 
 
अर्द्धकायं महावीर्य चन्द्रादित्यविमर्दनम् । 
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाभ्यहम् ॥८॥ 
 
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् । 
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाभ्यहम् ॥९॥ 
 
ति व्यास मुखोद्गीतं यः पठेत् सुसमाहितः । 
दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥ १०॥ 
 
नरनारीनृपाणां च भवेदुःस्वप्ननाशनम् । 
ऐश्वर्यमतुलं तेषा मारोग्यं पुष्टिवर्धनम् ॥११॥ ॥ 
श्री व्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ॥

  नवग्रह – कवच

नीचे ‘यामलतन्त्र’ का ‘नवग्रह – कवच’ दिया जा रहा है। इसका श्रद्धापूर्वक पाठ करने तथा इसे ताबीज में रखकर भुजा में धारण करने से बहुत लाभ होता है। 

 
ॐ शिरो मे पातु मार्त्तण्डः कपालं रोहिणीपतिः । 
मुखमङ्गारकः पातु कण्ठं च शशिनन्दनः ॥ 
बुद्धि जीवः सदा पातु हृदयं भृगुनन्दनः । 
जठरं च शनिः पातु जिह्वां मे दितिनन्दनः ॥ 
पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च । 
तिथयोऽष्टौ दिशः पातु नक्षत्राणि वपुः सदा ॥ 
अंसौ राशिः सदा पातु योगश्च स्थैर्यमेव च । 
सुचिरायुः सुखी पुत्री युद्धे च विजयी भवेत् । 
रोगात्प्रमुच्चते रोगी बन्धो मुच्येत बन्धनात् ॥ 
श्रियं च लभते नित्यं रिष्टिस्तस्य न जायते । 
यः करे धारयेन्नित्यं तस्य रिष्टिर्न जायते ॥ 
पठनात् कवचस्यास्य सर्वपापात् प्रमुच्यते । 
मृतवत्सा च या नारी काकवन्ध्या च या भवेत् ॥ 
जीववत्सा पुत्रीवती भवत्येव न संशयः । 
एतां रक्षां पठेद् यस्तु अङ्गं स्पृष्ट्वापि वा पठेत् ॥
pooja kitne prakar ki hoti hai ? पूजा के प्रकार | पूजा के उपचार 
सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, सर्वदेव पूजा पद्धति sarvdev puja paddhati pdf, 
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
spot_img

Related Posts

Shiv Puran Katha Notes: Essential Hindu Scripture

Shiv Puran Katha Notes: Essential Hindu Scripture शिव पुराण हिंदू...

रामायण सार- मंगलाचरण ramayan sar hindi

रामायण सार- मंगलाचरण ramayan sar hindi बंदना * नमामि भक्त वत्सलं...

भागवत कहां सिखाई जाती है bhagwat katha classes

भागवत कहां सिखाई जाती है bhagwat katha classes भागवत श्री...

भागवत सप्ताहिक कथा bhagwat saptahik katha PDF

भागवत सप्ताहिक कथा bhagwat saptahik katha PDF     भागवत सप्ताहिक कथा:...

श्री राम कथानक Ram katha Notes

श्री राम कथानक Ram katha Notes   श्री राम कथा, जिसे...

bhagwat bhajan lyrics pdf भागवत भजन माला

bhagwat bhajan lyrics pdf भागवत भजन माला   भागवत भजन माला...
- Advertisement -spot_img