नवग्रहस्थापनम् navgrah sthapana mantra
नवग्रहस्थापनम्
सूर्यस्यावाहनम्
ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यश्च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्॥
जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् ।
तमोऽरिं सर्वपापघ्नं सूर्यमावाहयाम्यहम्।
सूर्याय नमः सूर्यमावाहयामि, स्थापयामि ।।
चन्द्रावाहनम्
इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी
राजा सोमो ऽस्माकं ब्राह्मणाना गुंग राजा ।
दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम् ।
नमामि शशिनं सोमं चन्द्रमावाहयाम्यहम्।।
चन्द्रमसे नमः। चन्द्रमसमावाहयामि ।।
मङ्गलावाहनम्
अपा गुंग रेता गुंग सि जिन्न्वती॥
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं च भौममावाहयाम्यहम् ।।
भौमाय नमः। भौममावाहयामि ।।
बुधावाहनम्
अस्मिन्त्सधस्थेऽ अध्युत्तरस्मिन्विश्वेदेवा यजमानश्च सीदत ॥
प्रियङ्गकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं बुधमावाहयाम्यहम् ||
बुधाय नमः। बुधमावाहयामि ।।
बृहस्पत्यावाहनम्
यद्दीदयच्छवसऽऋत प्रजाततदस्मासु द्रविणं धेहि चित्रम् ॥
देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्।
बुद्धिभूतं त्रिलोकेशं गुरुमावाहयाम्यहम् ।।
गुरवे नमः । गुरुमावाहयामि ।।
शुक्रस्यावाहनम्
शनैश्चरावाहनम्
शंयोरभिस्स्रवन्तु नः ॥
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तण्डसम्भूतं शनिमावाहयाम्यहम्।।
शनैश्चराय नमः । शनैश्चरमावाहयामि ||
राहोरावाहनम्
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ।।
राहवे नमः । राहुमावाहयामि ।।
केतोरावाहनम्
समुषद्भिरजायथाः ॥
पालाशपुष्पसङ्काशं तारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरं केतुमावाहयाम्यहम्।।
केतवे नमः। केतुमावाहयामि ।।
प्रतिष्ठापनम् ‘
ॐ मनोजूति० सूर्यादिनवग्रहेभ्यो नमः । सूर्यादिनवग्रहाः सुप्रतिष्ठिता वरदा भवन्तु ।। सूर्यादिनवग्रहपूजा कर प्रार्थना करें-
प्रार्थना
ॐ मनोजूति० सूर्यादिनवग्रहेभ्यो नमः । सूर्यादिनवग्रहाः सुप्रतिष्ठिता वरदा भवन्तु ।। सूर्यादिनवग्रहपूजा कर प्रार्थना करें-
गुरुश्च शुक्रः शनिराहु- केतवः सर्वे ग्रहाः शान्तिकरा भवन्तु ॥
सूर्यादि नवग्रहेभ्यो नमः । प्रार्थनापूर्वकं नमस्कारान् समर्पयामि।।
अर्पणम्
अनेन कृतेन पूजनेन सूर्यादिनवग्रहाः प्रीयन्ताम् ।।
अनेन कृतेन पूजनेन सूर्यादिनवग्रहाः प्रीयन्ताम् ।।