Tuesday, September 17, 2024
Homeसर्वदेव पूजा पद्धतिगणेशाथर्वशीर्षम् ganesh atharv sirs path

गणेशाथर्वशीर्षम् ganesh atharv sirs path

गणेशाथर्वशीर्षम् ganesh atharv sirs path

गणेशाथर्वशीर्षम्
ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्त्तासि । 
त्वमेव केवलं धर्त्तासि। त्वमेव केवलं हर्त्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि। 
त्वं साक्षादात्मासि नित्यम् । ऋतं वच्मि । सत्यं वच्मि । अवत्वं माम् । 
अव वक्तारम् । अवश्रोतारम्। अवदातारम् । अवधातारम्। 
अवानूचानमवशिष्यम्। अवपश्चात्तात्। अवपुरस्तात् । अवोत्तरात्तात् । 
अवदक्षिणात्तात् । अवचोर्ध्वात्तात् । अवाधरात्तात् । सर्वतो मां पाहि पाहि समन्तात् । 
त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानन्दाद्वितीयोऽसि। 
त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि । सर्वं जगदिदं त्वत्तो जायते । 
सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । 
त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि । त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम्।
 त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं
 रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम् ॥
गणादीन् पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् । 
तारेण रुद्धम्। एतत्तव मनुस्वरूपम्। गकार: पूर्वरूपम्। अकारो मध्यमरूपम् ।
 अनुस्वारश्चान्त्यरूपम्। बिन्दुरुत्तररूपम्। नादः सन्धानम् । संहिता सन्धिः । सैषा गणेशविद्या । गणक ऋषिः । निचृद् गायत्री छन्दः । गणपति र्देवता। ॐ गं गणपतये नमः । 
 
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात। 
एकदन्तं चतुर्हस्तं पाशमङ्कशधारिणम् । 
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्। 
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । 
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् । 
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्। 
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्। 
एवं ध्यायति यो नित्यं स योगी योगिनां वरः । 
 
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्त्तये नमः। एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते । स सर्वविघ्नैर्न बाध्यते स सर्वत्र गुणमेधते । स पञ्चमहापापात्प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो भवति । सर्वत्राधीयानोऽअपविघ्नो भवति । धर्मार्थकाममोक्षं च विन्दति । इदमथर्वशीर्षमशिष्याय न देयम्। यो यदि मोहाद्दास्यति स पापीयान् भवति । 
 
सहस्रावर्तनाद्यं यं काममधीते । तं तमनेन साधयेत्। अनेन गणपति मभिषिञ्चति । स वाग्मी भवति । चतुर्थ्यामनश्नञ्जपति । स विद्यावान् भवति। इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति । यो दूर्वाङ्करैर्यजति । स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान् भवति । स मेधावान् भवति । यो मोदकसहस्रेण यजति । 
 
स वाञ्छितफलमवाप्नोति । यः साज्यसमिद्भिर्यजति । स सर्वं लभते स सर्वं लभते । अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति ।

महाविघ्नात् प्रमुच्यते । महादोषात्प्रमुच्यते । महाप्रत्यवायात्प्रमुच्यते । स सर्वविद्भवति स सर्वविद्भवति । य एवं वेद । इत्युपनिषत् ॥ सहनाववतु । सहनौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ।। ।। ॐ शान्तिः शान्तिः शान्तिः ।। ॥ इति गणेशाथर्वशीर्षम् ॥

pooja kitne prakar ki hoti hai ? पूजा के प्रकार | पूजा के उपचार 
गणेशाथर्वशीर्षम् ganesh atharv sirs path, गणेशाथर्वशीर्षम् ganesh atharv sirs path, गणेशाथर्वशीर्षम् ganesh atharv sirs path, गणेशाथर्वशीर्षम् ganesh atharv sirs path,
यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

BRAHAM DEV SINGH on Bhagwat katha PDF book
Bolbam Jha on Bhagwat katha PDF book
Ganesh manikrao sadawarte on bhagwat katha drishtant
Ganesh manikrao sadawarte on shikshaprad acchi kahaniyan