अथ सप्तश्लोकी दुर्गा saptashloki durga lyrics

अथ सप्तश्लोकी दुर्गा saptashloki durga lyrics

॥ अथ सप्तश्लोकी दुर्गा ॥

♦अथ सप्तश्लोकी दुर्गा    ♦श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम् ♦दुर्गासप्तशती पाठविधि  ♦श्रीदेव्याः कवचम्  ♦अथार्गलास्तोत्रम्   अथ कीलकम्  ♦वेदोक्तं रात्रिसूक्तम्  ♦तन्त्रोक्तं रात्रिसूक्तम्  ♦श्रीदेव्यथर्वशीर्षम्  ♦प्रथमोऽध्यायःद्वितीयोऽध्यायः  तृतीयोऽध्यायः  ♦चतुर्थोऽध्यायः  ♦पञ्चमोऽध्यायः  ♦षष्ठोऽध्यायः  ♦सप्तमोऽध्यायः  ♦अष्टमोऽध्यायः  ♦नवमोऽध्यायः  दशमोऽध्यायः  ♦एकादशोऽध्यायः  ♦द्वादशोऽध्यायः त्रयोदशोऽध्यायः

॥ शिव उवाच ॥

देवि त्वं भक्तसुलभेसर्वकार्यविधायिनी।

कलौ हि कार्यसिद्ध्यर्थमुपायंब्रूहि यत्नतः॥

॥ देव्युवाच ॥

श्रृणु देव प्रवक्ष्यामिकलौ सर्वेष्टसाधनम्।

मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते॥

॥ विनियोगः ॥

ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्यनारायण ऋषिः,

अनुष्टुप् छन्दः,श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः,

श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः।

ॐ ज्ञानिनामपि चेतांसिदेवी भगवती हि सा।

बलादाकृष्य मोहायमहामाया प्रयच्छति॥1॥

दुर्गे स्मृताहरसि भीतिमशेषजन्तोः

स्वस्थैः स्मृतामतिमतीव शुभां ददासि।

दारिद्र्यदुःखभयहारिणिका त्वदन्या

सर्वोपकारकरणायसदार्द्रचित्ता॥2॥

सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥3॥

शरणागतदीनार्तपरित्राणपरायणे।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥4॥

सर्वस्वरूपे सर्वेशेसर्वशक्तिसमन्विते।

भयेभ्यस्त्राहि नो देवि दुर्गेदेवि नमोऽस्तु ते॥5॥

रोगानशेषानपहंसि तुष्टा रूष्टातु कामान् सकलानभीष्टान्।

त्वामाश्रितानां न विपन्नराणांत्वामाश्रिता ह्याश्रयतां प्रयान्ति॥6॥

सर्वाबाधाप्रशमनंत्रैलोक्यस्याखिलेश्वरि।

एवमेव त्वयाकार्यमस्मद्वैरिविनाशनम्॥7॥

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |

Leave a Comment