Tuesday, September 17, 2024
Homepujan sangrahकलश पूजनम्/Kalash Pujan Mantra lyrics

कलश पूजनम्/Kalash Pujan Mantra lyrics

Table of Contents

Kalash Pujan Mantra lyrics

 कलश पूजनम्

स्थापना मंत्र लिरिक्स व पूजन विधि सहित 

 

सर्व-प्रथम कलश में रोली से स्वस्तिक चिह्न (सतिया) बनाकर एवं उसके गले मे मौली लपेटकर पूजक को अपनी वायी और अवीर-गुलाल से अष्टदल -कमल बनाकर उस पर सप्तधान्य या चावल अथवा गेहूं रखकर उसके ऊपर कलश को स्थापित कर निम्न विधान से पूजन करना चाहिए। 

भूमि स्पृशेत् :–

ॐ मही द्यौः पृथिवी च नऽइमँ य्यज्ज्ञम्मिमिक्क्षताम् । पिपृतान्नो भरीमभिः । विश्वाधाराऽसि धरणी सेषनागोपरि स्थिता । उद्धृतासि वराहेण कृष्णेन शतबाहुना ।। (भूमि का स्पर्श कर ।) 

धान्यप्रक्षेप :–

ॐ ओषधयः समवदन्त सोमेन सह राज्ज्ञा । यस्म्मै कृणोति ब्राह्मणस्त गुंग राजन्न्पारयामसि ।

(पृथ्वी पर सप्तधान्य रखे ।)

कलशं स्थापयेत् :–

ॐ आजिग्घ्र कलशं महय्या त्त्वा विशन्त्विन्दवः । पुनरूर्ज्जा निवर्तस्व सा नः सहस्रं धुक्क्ष्वारुधारा पयस्वती पुनर्म्मा विशताद्रयिः ।

हेमरूप्यादिसम्भूतं ताम्रजं सुदृढं नवम् । 

कलशं धोतकल्माषं छिद्रवर्णविवर्जितम् ।।

(सप्तधान्य पर कलश का स्थापन कर ।)

 

Kalash Pujan Mantra lyrics

 

कलशे जलपूरणम् :–

ॐ वरुणस्योत्तम्भनमसि व्वरुणस्य स्कम्भसर्ज्जनीस्त्थो वरुणस्य ऽऋतसदन्यसि वरुणस्य ऽऋतसदनमसि वरुणस्यऽऋतसदनमासीद।

जीवनं सर्वजीवानां पावनं पावनात्मकम् । 

वीज सर्वोषधीनां च तज्जलं पूरयाम्यहम् ।। 

(कलश में जल डाल दें।

गन्धप्रक्षेप :–

ॐ त्वांगन्धर्वाऽअखनं स्वामिन्द्रस्त्वां वृहस्पतिः । त्वामोषधे सोमो राजा विद्वान्यक्क्ष्मादमुच्च्यत ।।

केशरागरुकंकोल घनसारसमन्वितम् । 

मृगनाभियुतं गन्धं कलशे प्रक्षिपाम्यहम ।।

(कलश में चन्दन या रोली छोड़ें।

 

धान्यप्रक्षेप :–

ॐ धान्यमसि धिनु हि देवान्प्राणायत्त्वो दानायत्त्वा व्यानायत्त्वा । दीर्घामनु प्रसितिमायुषेधान्देवोवः सविताहिरण्यपाणिः प्रतिगृब्भ्णात्त्वच्छिद्रेण पाणिना चक्क्षुषेत्त्वा महीनां पयोऽसि ।

धान्यौषधी मनुष्याणां जीवनं परमं स्मृतम् । 

निर्मिता ब्रह्मणा पूर्व कलशे प्रक्षिपाम्यहम् ।।

(कलश में सप्तधान्य छोड़ दें ।) 

 

सर्वोषधीप्रक्षेप :–

ॐ या ऽओषधीः पूर्वा जातादेवेभ्यस्त्रियुगम्पुरा । मनैनुबभ्रूणामह गुंग शतंधामानिसप्त च ।।

ओषध्यः सर्वृक्षाणां तृणगुल्मलतास्तु याः । 

दूर्वासर्पप-संयुक्ताः कलशे प्रक्षिपाम्यहम् ॥

(कलश में सर्वोपधि डालें ।) 

 

दूर्वाप्रक्षेप :–

ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्प्परि । एवानो दूर्व्वे प्रतनु सहस्रेण शतेन च । 

दूर्वेह्यमृतसम्पन्ने शतमूले शताङ्कुरे । 

शतं पातकसंहन्त्री कलशे प्रक्षिपाम्यहम् ।।

(कलश में दूर्वा छोड़ें ।)

 

Kalash Pujan Mantra lyrics

पञ्चपल्लवप्रक्षेप :–

ॐ अश्वत्थेवोनिषदनम्पर्णेवोव्वसतिष्कृता । गोभाजऽइत्किलासथयत्त्सनवथपूरुषम् ।। 

अश्वत्थोदुम्बरप्लक्षचूतन्यग्रोधपल्लवाः । 

पञ्चैतान् पल्लवानस्मिन् कलशे प्रक्षिपाम्यहम् ।।

(कलश में पञ्चपल्लव अथवा आम का पत्ता रखें।)

 

सप्तमृदाप्रक्षेपः :–

ॐ स्योनापृथिविनोभवानृक्क्षरानिवेशनी । यच्छानःशर्मसप्प्रथाः 

अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गभादहृदात् । 

राजस्थानाञ्च गोष्ठाञ्च मृदमानीय निक्षिपेत् ।।

(कलश में सप्तमृत्तिका या मिट्टी छोड़ें ।)

 

फलप्रक्षेप :–

ॐ याः फलिनीर्य्या ऽअफला ऽअपुष्पायाश्च पुष्पिणीः । वृहस्पतिप्रसूतास्ता नोमुञ्चन्त्व गुंग हसः ॥ 

पूगीफलमिदं दिव्यं पवित्रं पुण्यदं नृणाम् ।

हारकं पापपुजानां कलशे प्रक्षिपाम्यहम् ।।

(कलश में सुपारी छोड़ें ।) 

 

Kalash Pujan Mantra lyrics

पञ्चरत्नप्रक्षेप :–

ॐ परिवाजपतिः कविरग्निर्हव्यान्त्यक्रमीत् । दधद्रत्नानिदाशुषे । 

कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् ॥ 

एतानि पञ्चरत्नानि कलशे प्रक्षिपाम्यहम् ।।

(कलश में पञ्चरत्न डालें ।) 

 

हिरण्यप्रक्षेप :–

ॐ हिरण्यगर्भः समवर्त्तताग्रे भूतस्यजातः पतिरेक ऽआसीत् । सदाधार पृथिवीन्द्यामुतेमाङ्कस्म्मै देवाय हविषा विधेम ।। 

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । 

अनन्तपुण्यफलदं कलशे प्रक्षिपाम्यहम् ॥

(कलश में दक्षिणा छोड़ें ।)

Kalash Pujan Mantra lyrics

 

रक्तसूत्रेण वस्त्रेण वा कलशं वेष्टयेत् :

ॐ सुजातो ज्योतिषा सह शर्मव्वरूथमासदत्तस्वः । व्वासोऽ अग्नेविश्वरूप गुंग संव्ययस्व विभावसो ।

सूत्रं कर्पाससम्भूतं ब्रह्मणा निर्मितं पुरा । 

येन , बद्धं जगत्सर्व तेनेमं वेष्टयाम्यहम् ।।

(कलश में लालवस्त्र अथवा मौली लपेट दें। 

 

कलशस्योपरि पूर्णपात्रं न्यसेत् :–

ॐ पूर्णादवि परापतसुपूर्णा पुनरापत । व्वस्नेव विक्क्रीणावहाऽइषमूर्ज गुंग शतक्क्रतो ।। 

पिधानं सर्ववस्तूनां सर्वकार्यार्थसाधनम् । 

सम्पूर्णः कलशो येन पात्रं तत्कलशोपरि ।।

(कलश पर पूर्णपात्र रखें ।) 

 

पूर्णपात्रोपरि श्रीफलं नारिकेलं वा न्यसेत् :–

ॐ श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्याक्तम् । इष्ण्णनिषाणांमुन्मइषाण सर्वलोकं म इषाण ।

(पूर्णपात्र पर नारियल रखें ।) 

Kalash Pujan Mantra lyrics

 

वरुणमावाहयेत् :–

ॐ तत्त्वा यामि व्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुश गुंग स मा नऽ आयुः प्रमोषीः ।।

भगवन्वरुणागच्छ त्वमस्मिन् कलशे प्रभो !

कुर्वेऽत्रैव प्रतिष्ठां ते जलानां शुद्धिहेतवे ।। – 

अस्मिन् कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकमावाहयामि स्थापयामि । ॐ अपांपतये वरुणाय नमः । इति पञ्चोपचारैर्वरुणं सम्पूज्य । 

 

कलशस्थितदेवानां नदीनाम् तीर्थानाम् च आवाहनम् —

कलाकला हि देवानां दानवानां कलाकलाः ।। 

संगृह्य निर्मितो यस्मात् कलशस्तेन कथ्यते ।। 

 

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । 

मूलत्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ।।

 

कुक्षौ तु सागराः सप्त सप्तद्वीपा च मेदिनी । 

अर्जुनी गोमती चैव चन्द्रभागा सरस्वती ।। 

 

कावेरी कृष्णवेणा च गङ्गा चैव महानदी । 

तापी गोदावरी चैव माहेन्द्री नर्मदा तथा ।। 

 

नदाश्च विविधा जाता नद्यः सर्वास्तथापराः । 

पृथिव्यां यानि तीर्थानि कलशस्थानि यानि वै ।। 

 

सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । 

आयान्तु मम शान्त्यर्थ दुरितक्षयकारकाः ।। 

 

ऋग्वेदोऽथ यजुर्वेदः सामवेदो यथर्वणः । 

अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः ।। 

 

अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा । 

आयान्तु मम शान्त्यर्थ दुरितक्षयकारकाः ।।

(ऊपर के श्लोकों को पढ़ते हुए अक्षत छोड़े ।) 

Kalash Pujan Mantra lyrics

 

अक्षतान् गृहीत्वा प्राणप्रतिष्ठां कुर्यात् :–

ॐ मनो जूतिर्जुषतामाज्ज्यस्य वृहस्प्पतिर्यज्ञमिमं तनोत्वरिष्टं य्यज्ञ गुंग समिमं दधातु । विश्वेदेवासऽइहमादयन्तामो ॐ प्रतिप्ठ्ठ ।। 

कलशे वरुणाद्यावाहितदेवताः सुप्रतिष्ठिताः वरदाः भवन्तु । ॐ वरुणाद्यावाहितदेवताभ्यो नमः । विष्णुवाद्यावाहितदेवताभ्यो नमः ।

(कलश पर चावल छोड़कर स्पर्श करें ।) 

 

कलशस्य चतुर्दिक्षु चतुर्वेदान्पूजयेत् :–

पूर्वे — ऋग्वेदाय नमः । दक्षिणे — यजुर्वेदाय नमः । पश्चिमे — सामवेदाय नमः । उत्तरे — अथर्ववेदाय नमः । कलशमध्ये अपाम्पतये वरुणाय नमः ।

(कलश के चारों तरफ तथा मध्य में चावल छोड़ें ।) 

 

षोडशोपचारैः पूजनम् कुर्यात् :

आसनार्थेऽक्षतान समर्पयामि । 

पादयोः पाद्यं समर्पयामि । 

हस्तयोः अर्घ्यं समर्पयामि । 

आचमनं समर्पयामि । 

पञ्चामृतस्नानं समर्पयामि । 

शुद्धोदकस्नानं समर्पयामि । 

स्नानाङ्गाचमनं समर्पयामि । 

वस्त्रम् समर्पयामि । 

आचमनं समर्पयामि । 

यज्ञोपवीतं समर्पयामि । 

आचमनं समर्पयामि । 

उपवस्त्रं समर्पयामि । 

गन्धं समर्पयामि । 

अक्षतान समर्पयामि । 

पुष्पमालां समर्पयामि । 

नानापरिमलद्रव्याणि समर्पयामि । 

धूपमाध्रापयामि । 

दीपं दर्शयामि । 

हस्तप्रक्षालनम् । 

नैवेद्यं समर्पयामि । 

आचमनीयं समर्पयामि ।

मध्ये पानीयम् उत्तरापोशनं च समर्पयामि । ताम्बूलं समर्पयामि । पूगीफलं समर्पयामि । कृतायाः पूजायाः पाड्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि । मन्त्रपुष्पाञ्जलिं समर्पयामि । 

अनया पूजया वरुणाद्यावाहितदेवताः प्रीयन्तां न मम । 

Kalash Pujan Mantra lyrics

 

कलश-प्रार्थना :–

देवदानव-संवादे मध्यमाने महोदधौ । 

उत्पन्नोऽसि तदा कुम्भ ! विधृतो विष्णुना स्वयम् ।।१।।

 

 त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः । 

त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ।।२।। 

 

शिवः स्वयं त्वमेवाऽसि विष्णुस्त्वं च प्रजापतिः । 

आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृका: ।।३।। 

 

त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः । 

त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ! । 

सान्निध्यं कुरु मे देव ! प्रसन्नो भव सर्वदा ।।४।। 

 

नमो नमस्ते स्फटिकप्रभाय सुश्चेतहाराय सुमङ्गलाय । 

सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते ।।५।। 

 

पाशपाणे ! नमस्तुभ्यं पद्मिनीजीवनायक ! । 

पुण्याहवाचनं यावत् तावत्वं मन्निधौ भव ॥६॥

इति कलश पूजनम्

 

Kalash Pujan Mantra lyrics

 

यह जानकारी अच्छी लगे तो अपने मित्रों के साथ भी साझा करें |
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

BRAHAM DEV SINGH on Bhagwat katha PDF book
Bolbam Jha on Bhagwat katha PDF book
Ganesh manikrao sadawarte on bhagwat katha drishtant
Ganesh manikrao sadawarte on shikshaprad acchi kahaniyan